१३. तेरसकनिपातो

[४७४] १. अम्बजातकवण्णना

अहासि मे अम्बफलानि पुब्बेति इदं सत्था जेतवने विहरन्तो देवदत्तं आरब्भ कथेसि. देवदत्तो हि ‘‘अहं बुद्धो भविस्सामि, मय्हं समणो गोतमो नेव आचरियो न उपज्झायो’’ति आचरियं पच्चक्खाय झानपरिहीनो सङ्घं भिन्दित्वा अनुपुब्बेन सावत्थिं आगच्छन्तो बहिजेतवने पथविया विवरे दिन्ने अवीचिं पाविसि. तदा भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, देवदत्तो आचरियं पच्चक्खाय महाविनासं पत्तो, अवीचिमहानिरये निब्बत्तो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि देवदत्तो आचरियं पच्चक्खाय महाविनासं पत्तोयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते तस्स पुरोहितकुलं अहिवातरोगेन विनस्सि. एकोव पुत्तो भित्तिं भिन्दित्वा पलातो. सो तक्कसिलं गन्त्वा दिसापामोक्खस्साचरियस्स सन्तिके तयो वेदे च अवसेससिप्पानि च उग्गहेत्वा आचरियं वन्दित्वा निक्खन्तो ‘‘देसचारित्तं जानिस्सामी’’ति चरन्तो एकं पच्चन्तनगरं पापुणि. तं निस्साय महाचण्डालगामको अहोसि. तदा बोधिसत्तो तस्मिं गामे पटिवसति, पण्डितो ब्यत्तो अकाले फलं गण्हापनमन्तं जानाति. सो पातोव वुट्ठाय काजं आदाय ततो गामा निक्खिमित्वा अरञ्ञे एकं अम्बरुक्खं उपसङ्कमित्वा सत्तपदमत्थके ठितो तं मन्तं परिवत्तेत्वा अम्बरुक्खं एकेन उदकपसतेन पहरति. रुक्खतो तङ्खणञ्ञेव पुराणपण्णानि पतन्ति, नवानि उट्ठहन्ति, पुप्फानि पुप्फित्वा पतन्ति, अम्बफलानि उट्ठाय मुहुत्तेनेव पच्चित्वा मधुरानि ओजवन्तानि दिब्बरससदिसानि हुत्वा रुक्खतो पतन्ति. महासत्तो तानि उच्चिनित्वा यावदत्थं खादित्वा काजं पूरापेत्वा गेहं गन्त्वा तानि विक्किणित्वा पुत्तदारं पोसेसि.

सो ब्राह्मणकुमारो महासत्तं अकाले अम्बपक्कानि आहरित्वा विक्किणन्तं दिस्वा ‘‘निस्संसयेन तेहि मन्तबलेन उप्पन्नेहि भवितब्बं, इमं पुरिसं निस्साय इदं अनग्घमन्तं लभिस्सामी’’ति चिन्तेत्वा महासत्तस्स अम्बानि आहरणनियामं परिग्गण्हन्तो तथतो ञत्वा तस्मिं अरञ्ञतो अनागतेयेव तस्स गेहं गन्त्वा अजानन्तो विय हुत्वा तस्स भरियं ‘‘कुहिं अय्यो, आचरियो’’ति पुच्छित्वा ‘‘अरञ्ञं गतो’’ति वुत्ते तं आगतं आगमयमानोव ठत्वा आगच्छन्तं दिस्वा हत्थतो पच्छिं गहेत्वा आहरित्वा गेहे ठपेसि. महासत्तो तं ओलोकेत्वा भरियं आह – ‘‘भद्दे, अयं माणवो मन्तत्थाय आगतो, तस्स हत्थे मन्तो नस्सति, असप्पुरिसो एसो’’ति. माणवोपि ‘‘अहं इमं मन्तं आचरियस्स उपकारको हुत्वा लभिस्सामी’’ति चिन्तेत्वा ततो पट्ठाय तस्स गेहे सब्बकिच्चानि करोति. दारूनि आहरति, वीहिं कोट्टेति, भत्तं पचति, दन्तकट्ठमुखधोवनादीनि देति, पादं धोवति.

एकदिवसं महासत्तेन ‘‘तात माणव, मञ्चपादानं मे उपधानं देही’’ति वुत्ते अञ्ञं अपस्सित्वा सब्बरत्तिं ऊरुम्हि ठपेत्वा निसीदि. अपरभागे महासत्तस्स भरिया पुत्तं विजायि. तस्सा पसूतिकाले परिकम्मं सब्बमकासि. सा एकदिवसं महासत्तं आह ‘‘सामि, अयं माणवो जातिसम्पन्नो हुत्वा मन्तत्थाय अम्हाकं वेय्यावच्चं करोति, एतस्स हत्थे मन्तो तिट्ठतु वा मा वा, देथ तस्स मन्त’’न्ति. सो ‘‘साधू’’ति सम्पटिच्छित्वा तस्स मन्तं दत्वा एवमाह – ‘‘तात, अनग्घोयं मन्तो, तव इमं निस्साय महालाभसक्कारो भविस्सति, रञ्ञा वा राजमहामत्तेन वा ‘को ते आचरियो’ति पुट्ठकाले मा मं निगूहित्थो, सचे हि ‘चण्डालस्स मे सन्तिका मन्तो गहितो’ति लज्जन्तो ‘ब्राह्मणमहासालो मे आचरियो’ति कथेस्ससि, इमस्स मन्तस्स फलं न लभिस्ससी’’ति. सो ‘‘किं कारणा तं निगूहिस्सामि, केनचि पुट्ठकाले तुम्हेयेव कथेस्सामी’’ति वत्वा तं वन्दित्वा चण्डालगामतो निक्खमित्वा मन्तं वीमंसित्वा अनुपुब्बेन बाराणसिं पत्वा अम्बानि विक्किणित्वा बहुं धनं लभि.

अथेकदिवसं उय्यानपालो तस्स हत्थतो अम्बं किणित्वा रञ्ञो अदासि. राजा तं परिभुञ्जित्वा ‘‘कुतो सम्म, तया एवरूपं अम्बं लद्ध’’न्ति पुच्छि. देव, एको माणवो अकालअम्बफलानि आनेत्वा विक्किणाति, ततो मे गहितन्ति. तेन हि ‘‘इतो पट्ठाय इधेव अम्बानि आहरतू’’ति नं वदेहीति. सो तथा अकासि. माणवोपि ततो पट्ठाय अम्बानि राजकुलं हरति. अथ रञ्ञा ‘‘उपट्ठह म’’न्ति वुत्ते राजानं उपट्ठहन्तो बहुं धनं लभित्वा अनुक्कमेन विस्सासिको जातो. अथ नं एकदिवसं राजा पुच्छि ‘‘माणव, कुतो अकाले एवं वण्णगन्धरससम्पन्नानि अम्बानि लभसि, किं ते नागो वा सुपण्णो वा देवो वा कोचि देति, उदाहु मन्तबलं एत’’न्ति? ‘‘न मे महाराज, कोचि देति, अनग्घो पन मे मन्तो अत्थि, तस्सेव बल’’न्ति. ‘‘तेन हि मयम्पि ते एकदिवसं मन्तबलं दट्ठुकामा’’ति. ‘‘साधु, देव, दस्सेस्सामी’’ति. राजा पुनदिवसे तेन सद्धिं उय्यानं गन्त्वा ‘‘दस्सेही’’ति आह. सो ‘‘साधू’’ति अम्बरुक्खं उपगन्त्वा सत्तपदमत्थके ठितो मन्तं परिवत्तेत्वा रुक्खं उदकेन पहरि. तङ्खणञ्ञेव अम्बरुक्खो हेट्ठा वुत्तनियामेनेव फलं गहेत्वा महामेघो विय अम्बवस्सं वस्सि. महाजनो साधुकारं अदासि, चेलुक्खेपा पवत्तिंसु.

राजा अम्बफलानि खादित्वा तस्स बहुं धनं दत्वा ‘‘माणवक, एवरूपो ते अच्छरियमन्तो कस्स सन्तिके गहितो’’ति पुच्छि. माणवो ‘‘सचाहं ‘चण्डालस्स सन्तिके’ति वक्खामि, लज्जितब्बकं भविस्सति, मञ्च गरहिस्सन्ति, मन्तो खो पन मे पगुणो, इदानि न नस्सिस्सति, दिसापामोक्खं आचरियं अपदिसामी’’ति चिन्तेत्वा मुसावादं कत्वा ‘‘तक्कसिलायं दिसापामोक्खाचरियस्स सन्तिके गहितो मे’’ति वदन्तो आचरियं पच्चक्खासि. तङ्खणञ्ञेव मन्तो अन्तरधायि. राजा सोमनस्सजातो तं आदाय नगरं पविसित्वा पुनदिवसे ‘‘अम्बानि खादिस्सामी’’ति उय्यानं गन्त्वा मङ्गलसिलापट्टे निसीदित्वा माणव, अम्बानि आहराति आह. सो ‘‘साधू’’ति अम्बं उपगन्त्वा सत्तपदमत्थके ठितो ‘‘मन्तं परिवत्तेस्सामी’’ति मन्ते अनुपट्ठहन्ते अन्तरहितभावं ञत्वा लज्जितो अट्ठासि. राजा ‘‘अयं पुब्बे परिसमज्झेयेव अम्बानि आहरित्वा अम्हाकं देति, घनमेघवस्सं विय अम्बवस्सं वस्सापेति, इदानि थद्धो विय ठितो, किं नु खो कारण’’न्ति चिन्तेत्वा तं पुच्छन्तो पठमं गाथमाह –

१. ‘‘अहासि मे अम्बफलानि पुब्बे, अणूनि थूलानि च ब्रह्मचारि;

तेहेव मन्तेहि न दानि तुय्हं, दुमप्फला पातुभवन्ति ब्रह्मे’’ति.

तत्थ अहासीति आहरि. दुमप्फलाति रुक्खफलानि.

तं सुत्वा माणवो ‘‘सचे ‘अज्ज अम्बफलं न गण्हामी’ति वक्खामि, राजा मे कुज्झिस्सति, मुसावादेन नं वञ्चेस्सामी’’ति दुतियं गाथमाह –

२. ‘‘नक्खत्तयोगं पटिमानयामि, खणं मुहुत्तञ्च मन्ते न पस्सं;

नक्खत्तयोगञ्च खणञ्च लद्धा, अद्धा हरिस्सम्बफलं पहूत’’न्ति.

तत्थ अद्धाहरिस्सम्बफलन्ति अद्धा अम्बफलं आहरिस्सामि.

राजा ‘‘अयं अञ्ञदा नक्खत्तयोगं न वदति, किं नु खो एत’’न्ति पुच्छन्तो द्वे गाथा अभासि –

३. ‘‘नक्खत्तयोगं न पुरे अभाणि, खणं मुहुत्तं न पुरे असंसि;

सयं हरी अम्बफलं पहूतं, वण्णेन गन्धेन रसेनुपेतं.

४. ‘‘मन्ताभिजप्पेन पुरे हि तुय्हं, दुमप्फला पातुभवन्ति ब्रह्मे;

स्वाज्ज न पारेसि जप्पम्पि मन्तं, अयं सो को नाम तवज्ज धम्मो’’ति.

तत्थ न पारेसीति न सक्कोसि. जप्पम्पीति जप्पन्तोपि परिवत्तेन्तोपि. अयं सोति अयमेव सो तव सभावो अज्ज को नाम जातोति.

तं सुत्वा माणवो ‘‘न सक्का राजानं मुसावादेन वञ्चेतुं, सचेपि मे सभावे कथिते आणं करेय्य, करोतु, सभावमेव कथेस्सामी’’ति चिन्तेत्वा द्वे गाथा अभासि –

५. ‘‘चण्डालपुत्तो मम सम्पदासि, धम्मेन मन्ते पकतिञ्च संसि;

मा चस्सु मे पुच्छितो नामगोत्तं, गुय्हित्थो अत्थं विजहेय्य मन्तो.

६. ‘‘सोहं जनिन्देन जनम्हि पुट्ठो, मक्खाभिभूतो अलिकं अभाणिं;

‘मन्ता इमे ब्राह्मणस्सा’ति मिच्छा, पहीनमन्तो कपणो रुदामी’’ति.

तत्थ धम्मेनाति समेन कारणेन अप्पटिच्छादेत्वाव अदासि. पकतिञ्च संसीति ‘‘मा मे पुच्छितो नामगोत्तं गुय्हित्थो, सचे गूहसि, मन्ता ते नस्सिस्सन्ती’’ति तेसं नस्सनपकतिञ्च मय्हं संसि. ब्राह्मणस्साति मिच्छाति ‘‘ब्राह्मणस्स सन्तिके मया इमे मन्ता गहिता’’ति मिच्छाय अभणिं, तेन मे ते मन्ता नट्ठा, स्वाहं पहीनमन्तो इदानि कपणो रुदामीति.

तं सुत्वा राजा ‘‘अयं पापधम्मो एवरूपं रतनमन्तं न ओलोकेसि, एवरूपस्मिञ्हि उत्तमरतनमन्ते लद्धे जाति किं करिस्सती’’ति कुज्झित्वा तस्स गरहन्तो –

७. ‘‘एरण्डा पुचिमन्दा वा, अथ वा पालिभद्दका;

मधुं मधुत्थिको विन्दे, सो हि तस्स दुमुत्तमो.

८. ‘‘खत्तिया ब्राह्मणा वेस्सा, सुद्दा चण्डालपुक्कुसा;

यम्हा धम्मं विजानेय्य, सो हि तस्स नरुत्तमो.

९. ‘‘इमस्स दण्डञ्च वधञ्च दत्वा, गले गहेत्वा खलयाथ जम्मं;

यो उत्तमत्थं कसिरेन लद्धं, मानातिमानेन विनासयित्था’’ति. –

इमा गाथा आह.

तत्थ मधुत्थिकोति मधुअत्थिको पुरिसो अरञ्ञे मधुं ओलोकेन्तो एतेसं रुक्खानं यतो मधुं लभति, सोव दुमो तस्स दुमुत्तमो नाम. तथेव खत्तियादीसु यम्हा पुरिसा धम्मं कारणं युत्तं अत्थं विजानेय्य, सोव तस्स उत्तमो नरो नाम. इमस्स दण्डञ्चाति इमस्स पापधम्मस्स सब्बस्सहरणदण्डञ्च वेळुपेसिकादीहि पिट्ठिचम्मं उप्पाटेत्वा वधञ्च दत्वा इमं जम्मं गले गहेत्वा खलयाथ, खलिकारत्तं पापेत्वा निद्धमथ निक्कड्ढथ, किं इमिना इध वसन्तेनाति.

राजपुरिसा तथा कत्वा ‘‘तवाचरियस्स सन्तिकं गन्त्वा तं आराधेत्वाव सचे पुन मन्ते लभिस्ससि, इध आगच्छेय्यासि, नो चे, इमं दिसं मा ओलोकेय्यासी’’ति तं निब्बिसयमकंसु. सो अनाथो हुत्वा ‘‘ठपेत्वा आचरियं न मे अञ्ञं पटिसरणं अत्थि, तस्सेव सन्तिकं गन्त्वा तं आराधेत्वा पुन मन्तं याचिस्सामी’’ति रोदन्तो तं गामं अगमासि. अथ नं आगच्छन्तं दिस्वा महासत्तो भरियं आमन्तेत्वा ‘‘भद्दे, पस्स तं पापधम्मं परिहीनमन्तं पुन आगच्छन्त’’न्ति आह. सो महासत्तं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसिन्नो ‘‘किंकारणा आगतोसी’’ति पुट्ठो ‘‘आचरिय, मुसावादं कत्वा आचरियं पच्चक्खित्वा महाविनासं पत्तोम्ही’’ति वत्वा अच्चयं दस्सेत्वा पुन मन्ते याचन्तो –

१०. ‘‘यथा समं मञ्ञमानो पतेय्य, सोब्भं गुहं नरकं पूतिपादं;

रज्जूति वा अक्कमे कण्हसप्पं, अन्धो यथा जोतिमधिट्ठहेय्य;

एवम्पि मं तं खलितं सपञ्ञ, पहीनमन्तस्स पुनप्पदाही’’ति. – गाथमाह;

तत्थ यथा समन्ति यथा पुरिसो इदं समं ठानन्ति मञ्ञमानो सोब्भं वा गुहं वा भूमिया फलितट्ठानसङ्खातं नरकं वा पूतिपादं वा पतेय्य. पूतिपादोति हिमवन्तपदेसे महारुक्खे सुस्सित्वा मते तस्स मूलेसु पूतिकेसु जातेसु तस्मिं ठाने महाआवाटो होति, तस्स नामं. जोतिमधिट्ठहेय्याति अग्गिं अक्कमेय्य. एवम्पीति एवं अहम्पि पञ्ञाचक्खुनो अभावा अन्धो तुम्हाकं विसेसं अजानन्तो तुम्हेसु खलितो, तं मं खलितं विदित्वा सपञ्ञ ञाणसम्पन्न पहीनमन्तस्स मम पुनपि देथाति.

अथ नं आचरियो ‘‘तात, किं कथेसि, अन्धो हि सञ्ञाय दिन्नाय सोब्भादीनि परिहरति, मया पठममेव तव कथितं, इदानि किमत्थं मम सन्तिकं आगतोसी’’ति वत्वा –

११. ‘‘धम्मेन मन्तं तव सम्पदासिं, तुवम्पि धम्मेन पटिग्गहेसि;

पकतिम्पि ते अत्तमनो असंसिं, धम्मे ठितं तं न जहेय्य मन्तो.

१२. ‘‘यो बाल-मन्तं कसिरेन लद्धं, यं दुल्लभं अज्ज मनुस्सलोके;

किञ्चापि लद्धा जीवितुं अप्पपञ्ञो, विनासयी अलिकं भासमानो.

१३. ‘‘बालस्स मूळ्हस्स अकतञ्ञुनो च, मुसा भणन्तस्स असञ्ञतस्स;

मन्ते मयं तादिसके न देम, कुतो मन्ता गच्छ न मय्हं रुच्चसी’’ति. –

इमा गाथा आह.

तत्थ धम्मेनाति अहम्पि तव आचरियभागं हिरञ्ञं वा सुवण्णं वा अग्गहेत्वा धम्मेनेव मन्तं सम्पदासिं, त्वम्पि किञ्चि अदत्वा धम्मेन समेनेव पटिग्गहेसि. धम्मे ठितन्ति आचरियपूजकधम्मे ठितं. तादिसकेति तथारूपे अकालफलगण्हापके मन्ते न देम, गच्छ न मे रुच्चसीति.

सो एवं आचरियेन उय्योजितो ‘‘किं मय्हं जीवितेना’’ति अरञ्ञं पविसित्वा अनाथमरणं मरि.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपि देवदत्तो आचरियं पच्चक्खाय महाविनासं पत्तो’’ति वत्वा जातकं समोधानेसि – ‘‘तदा अकतञ्ञू माणवो देवदत्तो अहोसि, राजा आनन्दो, चण्डालपुत्तो पन अहमेव अहोसि’’न्ति.

अम्बजातकवण्णना पठमा.

[४७५] २. फन्दनजातकवण्णना

कुठारिहत्थो पुरिसोति इदं सत्था रोहिणीनदीतीरे विहरन्तो ञातकानं कलहं आरब्भ कथेसि. वत्थु पन कुणालजातके (जा. २.२१.कुणालजातक) आवि भविस्सति. तदा पन सत्था ञातके आमन्तेत्वा – महाराजा, अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बहिनगरे वड्ढकिगामो अहोसि. तत्रेको ब्राह्मणवड्ढकी अरञ्ञतो दारूनि आहरित्वा रथं कत्वा जीविकं कप्पेसि. तदा हिमवन्तपदेसे महाफन्दनरुक्खो अहोसि. एको काळसीहो गोचरं परियेसित्वा आगन्त्वा तस्स मूले निपज्जि. अथस्स एकदिवसं वाते पहरन्ते एको सुक्खदण्डको पतित्वा खन्धे अवत्थासि. सो थोकं खन्धेन रुजन्तेन भीततसितो उट्ठाय पक्खन्दित्वा पुन निवत्तो आगतमग्गं ओलोकेन्तो किञ्चि अदिस्वा ‘‘अञ्ञो मं सीहो वा ब्यग्घो वा अनुबन्धन्तो नत्थि, इमस्मिं पन रुक्खे निब्बत्तदेवता मं एत्थ निपज्जन्तं न सहति मञ्ञे, होतु जानिस्सामी’’ति अट्ठाने कोपं बन्धित्वा रुक्खं पहरित्वा ‘‘नेव तव रुक्खस्स पत्तं खादामि, न साखं भञ्जामि, इध अञ्ञे मिगे वसन्ते सहसि, मं न सहसि, को मय्हं दोसो अत्थि, कतिपाहं आगमेहि, समूलं ते रुक्खं उप्पाटेत्वा खण्डाखण्डिकं छेदापेस्सामी’’ति रुक्खदेवतं तज्जेत्वा एकं पुरिसं उपधारेन्तो विचरि. तदा सो ब्राह्मणवड्ढकी द्वे तयो मनुस्से आदाय रथदारूनं अत्थाय यानकेन तं पदेसं गन्त्वा एकस्मिं ठाने यानकं ठपेत्वा वासिफरसुहत्थो रुक्खे उपधारेन्तो फन्दनसमीपं अगमासि. काळसीहो तं दिस्वा ‘‘अज्ज, मया पच्चामित्तस्स पिट्ठिं दट्ठुं वट्टती’’ति गन्त्वा रुक्खमूले अट्ठासि. वड्ढकी च इतो चितो ओलोकेत्वा फन्दनसमीपेन पायासि. सो ‘‘याव एसो नातिक्कमति, तावदेवस्स कथेस्सामी’’ति चिन्तेत्वा पठमं गाथमाह –

१४. ‘‘कुठारिहत्थो पुरिसो, वनमोगय्ह तिट्ठसि;

पुट्ठो मे सम्म अक्खाहि, किं दारुं छेतुमिच्छसी’’ति.

तत्थ पुरिसोति त्वं कुठारिहत्थो एको पुरिसो इमं वनं ओगय्ह तिट्ठसीति.

सो तस्स वचनं सुत्वा ‘‘अच्छरियं वत भो, न वत मे इतो पुब्बे मिगो मनुस्सवाचं भासन्तो दिट्ठपुब्बो, एस रथानुच्छविकं दारुं जानिस्सति, पुच्छिस्सामि न’’न्ति चिन्तेत्वा दुतियं गाथमाह –

१५. ‘‘इस्सो वनानि चरसि, समानि विसमानि च;

पुट्ठो मे सम्म अक्खाहि, किं दारुं नेमिया दळ्ह’’न्ति.

तत्थ इस्सोति त्वम्पि एको काळसीहो वनानि चरसि, त्वं रथानुच्छविकं दारुं जानिस्ससीति.

तं सुत्वा काळसीहो ‘‘इदानि मे मनोरथो मत्थकं पापुणिस्सती’’ति चिन्तेत्वा ततियं गाथमाह –

१६. ‘‘नेव सालो न खदिरो, नास्सकण्णो कुतो धवो;

रुक्खो च फन्दनो नाम, तं दारुं नेमिया दळ्ह’’न्ति.

सो तं सुत्वा सोमनस्सजातो ‘‘सुदिवसेन वतम्हि अज्ज अरञ्ञं पविट्ठो, तिरच्छानगतो मे रथानुच्छविकं दारुं आचिक्खति, अहो साधू’’ति पुच्छन्तो चतुत्थं गाथमाह –

१७. ‘‘कीदिसानिस्स पत्तानि, खन्धो वा पन कीदिसो;

पुट्ठो मे सम्म अक्खाहि, यथा जानेमु फन्दन’’न्ति.

अथस्स सो आचिक्खन्तो द्वे गाथा अभासि –

१८. ‘‘यस्स साखा पलम्बन्ति, नमन्ति न च भञ्जरे;

सो रुक्खो फन्दनो नाम, यस्स मूले अहं ठितो.

१९. ‘‘अरानं चक्कनाभीनं, ईसानेमिरथस्स च;

सब्बस्स ते कम्मनियो, अयं हेस्सति फन्दनो’’ति.

तत्थ ‘‘अरान’’न्ति इदं सो ‘‘कदाचेस इमं रुक्खं न गण्हेय्य, गुणम्पिस्स कथेस्सामी’’ति चिन्तेत्वा एवमाह. तत्थ ईसानेमिरथस्स चाति ईसाय च नेमिया च सेसस्स च रथस्स सब्बस्स ते एस कम्मनियो कम्मक्खमो भविस्सतीति.

सो एवं आचिक्खित्वा तुट्ठमानसो एकमन्ते विचरि, वड्ढकीपि रुक्खं छिन्दितुं आरभि. रुक्खदेवता चिन्तेसि ‘‘मया एतस्स उपरि न किञ्चि पातितं, अयं अट्ठाने आघातं बन्धित्वा मम विमानं नासेति, अहञ्च विनस्सिस्सामि, एकेनुपायेन इमञ्च इस्सं विनासेस्सामी’’ति. सा वनकम्मिकपुरिसो विय हुत्वा तस्स सन्तिकं आगन्त्वा पुच्छि ‘‘भो पुरिस मनापो ते रुक्खो लद्धो, इमं छिन्दित्वा किं करिस्ससी’’ति? ‘‘रथनेमिं करिस्सामी’’ति. ‘‘इमिना रुक्खेन रथो भविस्सती’’ति केन ते अक्खातन्ति. ‘‘एकेन काळसीहेना’’ति. ‘‘साधु सुट्ठु तेन अक्खातं, इमिना रुक्खेन रथो सुन्दरो भविस्सति, काळसीहस्स गलचम्मं उप्पाटेत्वा चतुरङ्गुलमत्ते ठाने अयपट्टेन विय नेमिमण्डले परिक्खित्ते नेमि च थिरा भविस्सति, बहुञ्च धनं लभिस्ससी’’ति. ‘‘काळसीहचम्मं कुतो लच्छामी’’ति? ‘‘त्वं बालकोसि, अयं तव रुक्खो वने ठितो न पलायति, त्वं येन ते रुक्खो अक्खातो, तस्स सन्तिकं गन्त्वा ‘सामि तया दस्सितरुक्खं कतरट्ठाने छिन्दामी’ति वञ्चेत्वा आनेहि, अथ नं निरासङ्कं ‘इध च एत्थ च छिन्दा’ति मुखतुण्डं पसारेत्वा आचिक्खन्तं तिखिणेन महाफरसुना कोट्टेत्वा जीवितक्खयं पापेत्वा चम्मं आदाय वरमंसं खादित्वा रुक्खं छिन्दा’’ति वेरं अप्पेसि. तमत्थं पकासेन्तो सत्था इमा गाथा आह –

२०. ‘‘इति फन्दनरुक्खोपि, तावदे अज्झभासथ;

मय्हम्पि वचनं अत्थि, भारद्वाज सुणोहि मे.

२१. ‘‘इस्सस्स उपक्खन्धम्हा, उक्कच्च चतुरङ्गुलं;

तेन नेमिं पसारेसि, एवं दळ्हतरं सिया.

२२. ‘‘इति फन्दनरुक्खोपि, वेरं अप्पेसि तावदे;

जातानञ्च अजातानं, इस्सानं दुक्खमावही’’ति.

तत्थ भारद्वाजाति तं गोत्तेन आलपति. उपक्खन्धम्हाति खन्धतो. उक्कच्चाति उक्कन्तित्वा.

वड्ढकी रुक्खदेवताय वचनं सुत्वा ‘‘अहो अज्ज मय्हं मङ्गलदिवसो’’ति काळसीहं घातेत्वा रुक्खं छेत्वा पक्कामि. तमत्थं पकासेन्तो सत्था आह –

२३. ‘‘इच्चेवं फन्दनो इस्सं, इस्सो च पन फन्दनं;

अञ्ञमञ्ञं विवादेन, अञ्ञमञ्ञमघातयुं.

२४. ‘‘एवमेव मनुस्सानं, विवादो यत्थ जायति;

मयूरनच्चं नच्चन्ति, यथा ते इस्सफन्दना.

२५. ‘‘तं वो वदामि भद्दं वो, यावन्तेत्थ समागता;

सम्मोदथ मा विवदथ, मा होथ इस्सफन्दना.

२६. ‘‘सामग्गिमेव सिक्खेथ, बुद्धेहेतं पसंसितं;

सामग्गिरतो धम्मट्ठो, योगक्खेमा न धंसती’’ति.

तत्थ अघातयुन्ति घातापेसुं. मयूरनच्चं नच्चन्तीति महाराजा यत्थ हि मनुस्सानं विवादो होति, तत्थ यथा नाम मयूरा नच्चन्ता पटिच्छादेतब्बं रहस्सङ्गं पाकटं करोन्ति, एवं मनुस्सा अञ्ञमञ्ञस्स रन्धं पकासेन्ता मयूरनच्चं नच्चन्ति नाम. यथा ते इस्सफन्दना अञ्ञमञ्ञस्स रन्धं पकासेन्ता नच्चिंसु नाम. तं वोति तेन कारणेन तुम्हे वदामि. भद्दं वोति भद्दं तुम्हाकं होतु. यावन्तेत्थाति यावन्तो एत्थ इस्सफन्दनसदिसा मा अहुवत्थ. सामग्गिमेव सिक्खेथाति समग्गभावमेव तुम्हे सिक्खथ, इदं पञ्ञावुद्धेहि पण्डितेहि पसंसितं. धम्मट्ठोति सुचरितधम्मे ठितो. योगक्खेमा न धंसतीति योगेहि खेमा निब्बाना न परिहायतीति निब्बानेन देसनाकूटं गण्हि. सक्यराजानो धम्मकथं सुत्वा समग्गा जाता.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि ‘‘तदा तं कारणं विदित्वा तस्मिं वनसण्डे निवुत्थदेवता अहमेव अहोसि’’न्ति.

फन्दनजातकवण्णना दुतिया.

[४७६] ३. जवनहंसजातकवण्णना

इधेव हंस निपताति इदं सत्था जेतवने विहरन्तो दळ्हधम्मधनुग्गहसुत्तन्तदेसनं (सं. नि. २.२२८) आरब्भ कथेसि. भगवता हि –

‘‘सेय्यथापि, भिक्खवे, चत्तारो दळ्हधम्मा धनुग्गहा सुसिक्खिता कतहत्था कतूपासना चतुद्दिसा ठिता अस्सु, अथ पुरिसो आगच्छेय्य ‘अहं इमेसं चतुन्नं दळ्हधम्मानं धनुग्गहानं सुसिक्खितानं कतहत्थानं कतूपासनानं चतुद्दिसा कण्डे खित्ते अपतिट्ठिते पथवियं गहेत्वा आहरिस्सामी’ति. ‘‘तं किं मञ्ञथ, भिक्खवे, ‘जवनो पुरिसो परमेन जवेन समन्नागतो’ति अलं वचनाया’’ति? ‘‘एवं भन्ते’’ति. यथा च, भिक्खवे, तस्स पुरिसस्स जवो, यथा च चन्दिमसूरियानं जवो, ततो सीघतरो. यथा च, भिक्खवे, तस्स पुरिसस्स जवो, यथा च चन्दिमसूरियानं जवो, यथा च या देवता चन्दिमसूरियानं पुरतो धावन्ति, तासं देवतानं जवो, ततो सीघतरं आयुसङ्खारा खीयन्ति, तस्मातिह, भिक्खवे, एवं सिक्खितब्बं ‘अप्पमत्ता विहरिस्सामा’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति –

इमस्स सुत्तस्स कथितदिवसतो दुतियदिवसे भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, सत्था अत्तनो बुद्धविसये ठत्वा इमेसं सत्तानं आयुसङ्खारे इत्तरे दुब्बले कत्वा परिदीपेन्तो पुथुज्जनभिक्खू अतिविय सन्तासं पापेसि, अहो बुद्धबलं नामा’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘अनच्छरियं, भिक्खवे, स्वाहं इदानि सब्बञ्ञुतं पत्तो आयुसङ्खारानं इत्तरभावं दस्सेत्वा भिक्खू संवेजेत्वा धम्मं देसेमि, मया हि पुब्बे अहेतुकहंसयोनियं निब्बत्तेनपि आयुसङ्खारानं इत्तरभावं दस्सेत्वा बाराणसिराजानं आदिं कत्वा सकलराजपरिसं संवेजेत्वा धम्मो देसितो’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो जवनहंसयोनियं निब्बत्तित्वा नवुतिहंससहस्सपरिवुतो चित्तकूटे पटिवसति. सो एकदिवसं जम्बुदीपतले एकस्मिं सरे सपरिवारो सयंजातसालिं खादित्वा आकासे सुवण्णकिलञ्जं पत्थरन्तो विय महन्तेन परिवारेन बाराणसिनगरस्स मत्थकेन मन्दमन्दाय विलासगतिया चित्तकूटं गच्छति. अथ नं बाराणसिराजा दिस्वा ‘‘इमिनापि मादिसेन रञ्ञा भवितब्ब’’न्ति अमच्चानं वत्वा तस्मिं सिनेहं उप्पादेत्वा मालागन्धविलेपनं गहेत्वा महासत्तं ओलोकेत्वा सब्बतूरियानि पग्गण्हापेसि. महासत्तो अत्तनो सक्कारं करोन्तं दिस्वा हंसे पुच्छि ‘‘राजा, मम एवरूपं सक्कारं करोन्तो किं पच्चासीसती’’ति? ‘‘तुम्हेहि सद्धिं मित्तभावं देवा’’ति. ‘‘तेन हि रञ्ञो अम्हेहि सद्धिं मित्तभावो होतू’’ति रञ्ञा सद्धिं मित्तभावं कत्वा पक्कामि. अथेकदिवसं रञ्ञो उय्यानं गतकाले अनोतत्तदहं गन्त्वा एकेन पक्खेन उदकं, एकेन चन्दनचुण्णं आदाय आगन्त्वा राजानं तेन उदकेन न्हापेत्वा चन्दनचुण्णेन ओकिरित्वा महाजनस्स पस्सन्तस्सेव सपरिवारो चित्तकूटं अगमासि. ततो पट्ठाय राजा महासत्तं दट्ठुकामो हुत्वा ‘‘सहायो मे अज्ज आगमिस्सति, सहायो मे अज्ज आगमिस्सती’’ति आगमनमग्गं ओलोकेन्तो अच्छति.

तदा महासत्तस्स कनिट्ठा द्वे हंसपोतका ‘‘सूरियेन सद्धिं जविस्सामा’’ति मन्तेत्वा महासत्तस्स आरोचेसुं ‘‘मयं सूरियेन सद्धिं जविस्सामा’’ति. ‘‘ताता, सूरियजवो नाम सीघो, सूरियेन सद्धिं जवितुं न सक्खिस्सथ, अन्तराव विनस्सिस्सथ, मा गमित्था’’ति. ते दुतियम्पि ततियम्पि याचिंसु, बोधिसत्तोपि ते यावततियं वारेसियेव. ते मानथद्धा अत्तनो बलं अजानन्ता महासत्तस्स अनाचिक्खित्वाव ‘‘सूरियेन सद्धिं जविस्सामा’’ति सूरिये अनुग्गतेयेव गन्त्वा युगन्धरमत्थके निसीदिंसु. महासत्तो ते अदिस्वा ‘‘कहं नु खो गता’’ति पुच्छित्वा तं पवत्तिं सुत्वा चिन्तेसि ‘‘ते सूरियेन सद्धिं जवितुं न सक्खिस्सन्ति, अन्तराव विनस्सिस्सन्ति, जीवितं तेसं दस्सामी’’ति. सोपि गन्त्वा युगन्धरमत्थकेयेव निसीदि. अथ उग्गते सूरियमण्डले हंसपोतका उप्पतित्वा सूरियेन सद्धिं पक्खन्दिंसु, महासत्तोपि तेहि सद्धिं पक्खन्दि. कनिट्ठभातिको याव पुब्बण्हसमया जवित्वा किलमि, पक्खसन्धीसु अग्गिउट्ठानकालो विय अहोसि. सो बोधिसत्तस्स सञ्ञं अदासि ‘‘भातिक, न सक्कोमी’’ति. अथ नं महासत्तो ‘‘मा भायि, जीवितं ते दस्सामी’’ति पक्खपञ्जरेन परिक्खिपित्वा अस्सासेत्वा चित्तकूटपब्बतं नेत्वा हंसानं मज्झे ठपेत्वा पुन पक्खन्दित्वा सूरियं पत्वा इतरेन सद्धिं पायासि. सोपि याव उपकट्ठमज्झन्हिका सूरियेन सद्धिं जवित्वा किलमि, पक्खसन्धीसु अग्गिउट्ठानकालो विय अहोसि. तदा बोधिसत्तस्स सञ्ञं अदासि ‘‘भातिक, न सक्कोमी’’ति. तम्पि महासत्तो तथेव समस्सासेत्वा पक्खपञ्जरेनादाय चित्तकूटमेव अगमासि. तस्मिं खणे सूरियो नभमज्झं पापुणि.

अथ महासत्तो ‘‘मम अज्ज सरीरबलं वीमंसिस्सामी’’ति चिन्तेत्वा एकवेगेन पक्खन्दित्वा युगन्धरमत्थके निसीदित्वा ततो उप्पतित्वा एकवेगेन सूरियं पापुणित्वा कालेन पुरतो, कालेन पच्छतो जवित्वा चिन्तेसि ‘‘मय्हं सूरियेन सद्धिं जवनं नाम निरत्थकं अयोनिसोमनसिकारसम्भूतं, किं मे इमिना, बाराणसिं गन्त्वा मम सहायकस्स रञ्ञो अत्थयुत्तं धम्मयुत्तं कथं कथेस्सामी’’ति. सो निवत्तित्वा सूरिये नभमज्झं अनतिक्कन्तेयेव सकलचक्कवाळगब्भं अन्तन्तेन अनुसंयायित्वा वेगं परिहापेन्तो सकलजम्बुदीपं अन्तन्तेन अनुसंयायित्वा बाराणसिं पापुणि. द्वादसयोजनिकं सकलनगरं हंसच्छन्नं विय अहोसि, छिद्दं नाम न पञ्ञायि, अनुक्कमेन वेगे परिहायन्ते आकासे छिद्दानि पञ्ञायिंसु. महासत्तो वेगं परिहापेत्वा आकासतो ओतरित्वा सीहपञ्जरस्स अभिमुखट्ठाने अट्ठासि. राजा ‘‘आगतो मे सहायो’’ति सोमनस्सप्पत्तो तस्स निसीदनत्थाय कञ्चनपीठं पञ्ञपेत्वा ‘‘सम्म, पविस, इध निसीदा’’ति वत्वा पठमं गाथमाह –

२७. ‘‘इधेव हंस निपत, पियं मे तव दस्सनं;

इस्सरोसि अनुप्पत्तो, यमिधत्थि पवेदया’’ति.

तत्थ ‘‘इधा’’ति कञ्चनपीठं सन्धायाह. निपताति निसीद. इस्सरोसीति त्वं इमस्स ठानस्स इस्सरो सामि हुत्वा आगतोसीति वदति. यमिधत्थि पवेदयाति यं इमस्मिं निवेसने अत्थि, तं अपरिसङ्कन्तो अम्हाकं कथेहीति.

महासत्तो कञ्चनपीठे निसीदि. राजा सतपाकसहस्सपाकेहि तेलेहि तस्स पक्खन्तरानि मक्खेत्वा कञ्चनतट्टके मधुलाजे च मधुरोदकञ्च सक्खरोदकञ्च दापेत्वा मधुरपटिसन्थारं कत्वा ‘‘सम्म, त्वं एककोव आगतोसि, कुहिं अगमित्था’’ति पुच्छि. सो तं पवत्तिं वित्थारेन कथेसि. अथ नं राजा आह ‘‘सम्म, ममपि सूरियेन सद्धिं जवितवेगं दस्सेही’’ति. महाराज, न सक्का सो वेगो दस्सेतुन्ति. तेन हि मे सरिक्खकमत्तं दस्सेहीति. साधु, महाराज, सरिक्खकमत्तं दस्सेस्सामि, अक्खणवेधी धनुग्गहे सन्निपातेहीति. राजा सन्निपातेसि. महासत्तो चत्तारो धनुग्गहे गहेत्वा निवेसना ओरुय्ह राजङ्गणे सिलाथम्भं निखणापेत्वा अत्तनो गीवायं घण्टं बन्धापेत्वा सिलाथम्भमत्थके निसीदित्वा चत्तारो धनुग्गहे थम्भं निस्साय चतुद्दिसाभिमुखे ठपेत्वा ‘‘महाराज, इमे चत्तारो जना एकप्पहारेनेव चतुद्दिसाभिमुखा चत्तारि कण्डानि खिपन्तु, तानि अहं पथविं अप्पत्तानेव आहरित्वा एतेसं पादमूले पातेस्सामि. मम कण्डगहणत्थाय गतभावं घण्टसद्दसञ्ञाय जानेय्यासि, मं पन न पस्सिस्ससी’’ति वत्वा तेहि एकप्पहारेनेव खित्तकण्डानि आहरित्वा तेसं पादमूले पातेत्वा सिलाथम्भमत्थके निसिन्नमेव अत्तानं दस्सेत्वा ‘‘दिट्ठो ते, महाराज, मय्हं वेगो’’ति वत्वा ‘‘महाराज, अयं वेगो मय्हं नेव उत्तमो, मज्झिमो, परित्तो लामकवेगो एस, एवं सीघो, महाराज, अम्हाकं वेगो’’ति आह.

अथ नं राजा पुच्छि ‘‘सम्म, अत्थि पन तुम्हाकं वेगतो अञ्ञो सीघतरो वेगो’’ति? ‘‘आम, महाराज, अम्हाकं उत्तमवेगतोपि सतगुणेन सहस्सगुणेन सतसहस्सगुणेन इमेसं सत्तानं आयुसङ्खारा सीघतरं खीयन्ति भिज्जन्ति, खयं गच्छन्ती’’ति खणिकनिरोधवसेन रूपधम्मानं निरोधं दस्सेति, ततो नामधम्मानं. राजा महासत्तस्स कथं सुत्वा मरणभयभीतो सतिं पच्चुपट्ठापेतुं असक्कोन्तो भूमियं पति, महाजनो उत्रासं पत्तो अहोसि. रञ्ञो मुखं उदकेन सिञ्चित्वा सतिं लभापेसि. अथ नं महासत्तो ‘‘महाराज, मा भायि, मरणस्सतिं भावेहि, धम्मं चराहि, दानादीनि पुञ्ञानि करोहि, अप्पमत्तो होहि, देवा’’ति ओवदि. अथ राजा ‘‘सामि, मयं तुम्हादिसेन ञाणबलसम्पन्नेन आचरियेन विना वसितुं न सक्खिस्साम, चित्तकूटं अगन्त्वा मय्हं धम्मं देसेन्तो मय्हं ओवादाचरियो हुत्वा इधेव वसाही’’ति याचन्तो द्वे गाथा अभासि –

२८. ‘‘सवनेन एकस्स पिया भवन्ति, दिस्वा पनेकस्स वियेति छन्दो;

दिस्वा च सुत्वा च पिया भवन्ति, कच्चिन्नु मे पीयसि दस्सनेन.

२९. ‘‘सवनेन पियो मेसि, भिय्यो चागम्म दस्सनं;

एवं पियदस्सनो मे, वस हंस ममन्तिके’’ति.

तासं अत्थो – सम्म हंसराज सवनेन एकस्स एकच्चे पिया होन्ति, ‘‘एवं गुणो नामा’’ति सुत्वा सवनेन पियायति, एकस्स पन एकच्चे दिस्वाव छन्दो विगच्छति, पेमं अन्तरधायति, खादितुं आगता यक्खा विय उपट्ठहन्ति, एकस्स एकच्चे दिस्वा च सुत्वा चाति उभयथापि पिया होन्ति, तेन तं पुच्छामि. कच्चिन्नु मे पीयसि दस्सनेनाति कच्चि नु त्वं मं पियायसि, मय्हं पन त्वं सवनेन पियोव, दस्सनं पनागम्म अतिपियोव. एवं मम पियदस्सनो समानो चित्तकूटं अगन्त्वा इध मम सन्तिके वसाति.

बोधिसत्तो आह –

३०. ‘‘वसेय्याम तवागारे, निच्चं सक्कतपूजिता;

मत्तो च एकदा वज्जे, हंसराजं पचन्तु मे’’ति.

तत्थ मत्तो च एकदाति महाराज, मयं तव घरे निच्चं पूजिता वसेय्याम, त्वं पन कदाचि सुरामदमत्तो मंसखादनत्थं ‘‘हंसराजं पचन्तु मे’’ति वदेय्यासि, अथ एवं तव अनुजीविनो मं मारेत्वा पचेय्युं, तदाहं किं करिस्सामीति.

अथस्स राजा ‘‘तेन हि मज्जमेव न पिविस्सामी’’ति पटिञ्ञं दातुं इमं गाथमाह –

३१. ‘‘धिरत्थु तं मज्जपानं, यं मे पियतरं तया;

न चापि मज्जं पिस्सामि, याव मे वच्छसी घरे’’ति.

ततो परं बोधिसत्तो छ गाथा आह –

३२. ‘‘सुविजानं सिङ्गालानं, सकुणानञ्च वस्सितं;

मनुस्सवस्सितं राज, दुब्बिजानतरं ततो.

३३. ‘‘अपि चे मञ्ञती पोसो, ञाति मित्तो सखाति वा;

यो पुब्बे सुमनो हुत्वा, पच्छा सम्पज्जते दिसो.

३४. ‘‘यस्मिं मनो निविसति, अविदूरे सहापि सो;

सन्तिकेपि हि सो दूरे, यस्मिं नाविसते मनो.

३५. ‘‘अन्तोपि सो होति पसन्नचित्तो, पारं समुद्दस्स पसन्नचित्तो;

अन्तोपि सो होति पदुट्ठचित्तो, पारं समुद्दस्स पदुट्ठचित्तो.

३६. ‘‘संवसन्ता विवसन्ति, ये दिसा ते रथेसभ;

आरा सन्तो संवसन्ति, मनसा रट्ठवड्ढन.

३७. ‘‘अतिचिरं निवासेन, पियो भवति अप्पियो;

आमन्त खो तं गच्छाम, पुरा ते होम अप्पिया’’ति.

तत्थ वस्सितन्ति महाराज, तिरच्छानगता उजुहदया, तेन तेसं वस्सितं सुविजानं, मनुस्सा पन कक्खळा, तस्मा तेसं वचनं दुब्बिजानतरन्ति अत्थो. यो पुब्बेति यो पुग्गलो पठममेव अत्तमनो हुत्वा ‘‘त्वं मय्हं ञातको मित्तो पाणसमो सखा’’ति अपि एवं मञ्ञति, स्वेव पच्छा दिसो वेरी सम्पज्जति, एवं दुब्बिजानं नाम मनुस्सहदयन्ति. निविसतीति महाराज, यस्मिं पुग्गले पेमवसेन मनो निविसति, सो दूरे वसन्तोपि अविदूरे सहापि वसतियेव नाम. यस्मिं पन पुग्गले मनो न निविसति अपेति, सो सन्तिके वसन्तोपि दूरेयेव.

अन्तोपि सो होतीति महाराज, यो सहायो पसन्नचित्तो, सो चित्तेन अल्लीनत्ता पारं समुद्दस्स वसन्तोपि अन्तोयेव होति. यो पन पदुट्ठचित्तो, सो चित्तेन अनल्लीनत्ता अन्तो वसन्तोपि पारं समुद्दस्स नाम. ये दिसा तेति ये वेरिनो पच्चत्थिका, ते एकतो वसन्तापि दूरे वसन्तियेव नाम. सन्तो पन पण्डिता आरा ठितापि मेत्ताभावितेन मनसा आवज्जेन्ता संवसन्तियेव. पुरा ते होमाति याव तव अप्पिया न होम, तावदेव तं आमन्तेत्वा गच्छामाति वदति.

अथ नं राजा आह –

३८. ‘‘एवं चे याचमानानं, अञ्जलिं नावबुज्झसि;

परिचारकानं सतं, वचनं न करोसि नो;

एवं तं अभियाचाम, पुन कयिरासि परियाय’’न्ति.

तत्थ एवं चेति सचे हंसराज, एवं अञ्जलिं पग्गय्ह याचमानानं अम्हाकं इमं अञ्जलिं नावबुज्झसि, तव परिचारकानं समानानं वचनं न करोसि, अथ नं एवं याचाम. पुन कयिरासि परियायन्ति कालेन कालं इध आगमनाय वारं करेय्यासीति अत्थो.

ततो बोधिसत्तो आह –

३९. ‘‘एवं चे नो विहरतं, अन्तरायो न हेस्सति;

तुय्हं चापि महाराज, मय्हञ्च रट्ठवड्ढन;

अप्पेव नाम पस्सेमु, अहोरत्तानमच्चये’’ति.

तत्थ एवं चे नोति महाराज, मा चिन्तयित्थ, सचे अम्हाकम्पि एवं विहरन्तानं जीवितन्तरायो न भविस्सति, अप्पेव नाम उभो अञ्ञमञ्ञं पस्सिस्साम, अपिच त्वं मया दिन्नं ओवादमेव मम ठाने ठपेत्वा एवं इत्तरजीविते लोकसन्निवासे अप्पमत्तो हुत्वा दानादीनि पुञ्ञानि करोन्तो दस राजधम्मे अकोपेत्वा धम्मेन रज्जं कारेहि, एवञ्हि मे ओवादं करोन्तो मं पस्सिस्सतियेवाति. एवं महासत्तो राजानं ओवदित्वा चित्तकूटपब्बतमेव गतो.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘एवं, भिक्खवे, पुब्बे तिरच्छानयोनियं निब्बत्तेनपि मया आयुसङ्खारानं दुब्बलभावं दस्सेत्वा धम्मो देसितो’’ति वत्वा जातकं समोधानेसि – ‘‘तदा राजा आनन्दो अहोसि, कनिट्ठो मोग्गल्लानो, मज्झिमो सारिपुत्तो, सेसहंसगणा बुद्धपरिसा, जवनहंसो पन अहमेव अहोसि’’न्ति.

जवनहंसजातकवण्णना ततिया.

[४७७] ४. चूळनारदजातकवण्णना

न ते कट्ठानि भिन्नानीति इदं सत्था जेतवने विहरन्तो थुल्लकुमारिकापलोभनं आरब्भ कथेसि. सावत्थिवासिनो किरेकस्स कुलस्स पन्नरससोळसवस्सुद्देसिका धीता अहोसि सोभग्गप्पत्ता, न च नं कोचि वारेसि. अथस्सा माता चिन्तेसि ‘‘मम धीता वयप्पत्ता, न च नं कोचि वारेति, आमिसेन मच्छं विय एताय एकं साकियभिक्खुं पलोभेत्वा उप्पब्बाजेत्वा तं निस्साय जीविस्सामी’’ति. तदा च सावत्थिवासी एको कुलपुत्तो सासने उरं दत्वा पब्बजित्वा उपसम्पन्नकालतो पट्ठाय सिक्खाकामतं पहाय आलसियो सरीरमण्डनमनुयुत्तो विहासि. महाउपासिका गेहे यागुखादनीयभोजनीयानि सम्पादेत्वा द्वारे ठत्वा अन्तरवीथिया गच्छन्तेसु भिक्खूसु एकं भिक्खुं रसतण्हाय बन्धित्वा गहेतुं सक्कुणेय्यरूपं उपधारेन्ती तेपिटकआभिधम्मिकविनयधरानं महन्तेन परिवारेन गच्छन्तानं अन्तरे कञ्चि गय्हुपगं अदिस्वा तेसं पच्छतो गच्छन्तानं मधुरधम्मकथिकानं अच्छिन्नवलाहकसदिसानं पिण्डपातिकानम्पि अन्तरे कञ्चि अदिस्वाव एकं याव बहि अपङ्गा अक्खीनि अञ्जेत्वा केसे ओसण्हेत्वा दुकूलन्तरवासकं निवासेत्वा घटितमट्ठं चीवरं पारुपित्वा मणिवण्णपत्तं आदाय मनोरमं छत्तं धारयमानं विस्सट्ठिन्द्रियं कायदळ्हिबहुलं आगच्छन्तं दिस्वा ‘‘इमं सक्का गण्हितु’’न्ति गन्त्वा वन्दित्वा पत्तं गहेत्वा ‘‘एथ, भन्ते’’ति घरं आनेत्वा निसीदापेत्वा यागुआदीहि परिविसित्वा कतभत्तकिच्चं तं भिक्खुं ‘‘भन्ते, इतो पट्ठाय इधेवागच्छेय्याथा’’ति आह. सोपि ततो पट्ठाय तत्थेव गन्त्वा अपरभागे विस्सासिको अहोसि.

अथेकदिवसं महाउपासिका तस्स सवनपथे ठत्वा ‘‘इमस्मिं गेहे उपभोगपरिभोगमत्ता अत्थि, तथारूपो पन मे पुत्तो वा जामाता वा गेहं विचारितुं समत्थो नत्थी’’ति आह. सो तस्सा वचनं सुत्वा ‘‘किमत्थं नु खो कथेती’’ति थोकं हदये विद्धो विय अहोसि. सा धीतरं आह ‘‘इमं पलोभेत्वा तव वसे वत्तापेही’’ति. सा ततो पट्ठाय मण्डितपसाधिता इत्थिकुत्तविलासेहि तं पलोभेसि. थुल्लकुमारिकाति न च थूलसरीरा दट्ठब्बा, थूला वा होतु किसा वा, पञ्चकामगुणिकरागेन पन थूलताय ‘‘थुल्लकुमारिका’’ति वुच्चति. सो दहरो किलेसवसिको हुत्वा ‘‘न दानाहं बुद्धसासने पतिट्ठातुं सक्खिस्सामी’’ति चिन्तेत्वा ‘‘विहारं गन्त्वा पत्तचीवरं निय्यादेत्वा असुकट्ठानं नाम गमिस्सामि, तत्र मे वत्थानि पेसेथा’’ति वत्वा विहारं गन्त्वा पत्तचीवरं निय्यादेत्वा ‘‘उक्कण्ठितोस्मी’’ति आचरियुपज्झाये आह. ते तं आदाय सत्थु सन्तिकं नेत्वा ‘‘अयं भिक्खु उक्कण्ठितो’’ति आरोचेसुं. सत्था ‘‘सच्चं किर त्वं भिक्खु उक्कण्ठितोसी’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘केन उक्कण्ठापितोसी’’ति वत्वा ‘‘थुल्लकुमारिकाय, भन्ते’’ति वुत्ते ‘‘भिक्खु पुब्बेपेसा तव अरञ्ञे वसन्तस्स ब्रह्मचरियन्तरायं कत्वा महन्तं अनत्थमकासि, पुन त्वं एतमेव निस्साय कस्मा उक्कण्ठितोसी’’ति वत्वा भिक्खूहि याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कासिरट्ठे महाभोगे ब्राह्मणकुले निब्बत्तित्वा उग्गहितसिप्पो कुटुम्बं सण्ठपेसि, अथस्स भरिया एकं पुत्तं विजायित्वा कालमकासि. सो ‘‘यथेव मे पियभरियाय, एवं मयिपि मरणं आगमिस्सति, किं मे घरावासेन, पब्बजिस्सामी’’ति चिन्तेत्वा कामे पहाय पुत्तं आदाय हिमवन्तं पविसित्वा तेन सद्धिं इसिपब्बज्जं पब्बजित्वा झानाभिञ्ञा निब्बत्तेत्वा वनमूलफलाहारो अरञ्ञे विहासि. तदा पच्चन्तवासिनो चोरा जनपदं पविसित्वा गामं पहरित्वा करमरे गहेत्वा भण्डिकं उक्खिपापेत्वा पुन पच्चन्तं पापयिंसु. तेसं अन्तरे एका अभिरूपा कुमारिका केराटिकपञ्ञाय समन्नागता चिन्तेसि ‘‘इमे अम्हे गहेत्वा दासिभोगेन परिभुञ्जिस्सन्ति, एकेन उपायेन पलायितुं वट्टती’’ति. सा ‘‘सामि, सरीरकिच्चं कातुकामाम्हि, थोकं पटिक्कमित्वा तिट्ठथा’’ति वत्वा चोरे वञ्चेत्वा पलायित्वा अरञ्ञं पविसन्ती बोधिसत्तस्स पुत्तं अस्समे ठपेत्वा फलाफलत्थाय गतकाले पुब्बण्हसमये तं अस्समं पापुणित्वा तं तापसकुमारं कामरतिया पलोभेत्वा सीलमस्स भिन्दित्वा अत्तनो वसे वत्तेत्वा ‘‘किं ते अरञ्ञवासेन, एहि गामं गन्त्वा वसिस्साम, तत्र हि रूपादयो कामगुणा सुलभा’’ति आह. सोपि ‘‘साधू’’ति सम्पटिच्छित्वा ‘‘पिता ताव मे अरञ्ञतो फलाफलं आहरितुं गतो, तं दिस्वा उभोपि एकतोव गमिस्सामा’’ति आह.

सा चिन्तेसि – ‘‘अयं तरुणदारको न किञ्चि जानाति, पितरा पनस्स महल्लककाले पब्बजितेन भवितब्बं, सो आगन्त्वा ‘इध किं करोसी’ति मं पोथेत्वा पादे गहेत्वा कड्ढेत्वा अरञ्ञे खिपिस्सति, तस्मिं अनागतेयेव पलायिस्सामी’’ति. अथ नं ‘‘अहं पुरतो गच्छामि, त्वं पच्छा आगच्छेय्यासी’’ति वत्वा मग्गसञ्ञं आचिक्खित्वा पक्कामि. सो तस्सा गतकालतो पट्ठाय उप्पन्नदोमनस्सो यथा पुरे किञ्चि वत्तं अकत्वा ससीसं पारुपित्वा अन्तोपण्णसालाय पज्झायन्तो निपज्जि. महासत्तो फलाफलं आदाय आगन्त्वा तस्सा पदवलञ्जं दिस्वा ‘‘अयं मातुगामस्स पदवलञ्जो, ‘‘पुत्तस्स मम सीलं भिन्नं भविस्सती’’ति चिन्तेन्तो पण्णसालं पविसित्वा फलाफलं ओतारेत्वा पुत्तं पुच्छन्तो पठमं गाथमाह –