१. मणिकुण्डलवग्गो
[३५१] १. मणिकुण्डलजातकवण्णना
जीनो रथस्सं मणिकुण्डले चाति इदं सत्था जेतवने विहरन्तो कोसलरञ्ञो अन्तेपुरे सब्बत्थसाधकं पदुट्ठामच्चं आरब्भ कथेसि. वत्थु हेट्ठा वित्थारितमेव. इध पन बोधिसत्तो बाराणसिराजा अहोसि. पदुट्ठामच्चो कोसलराजानं आनेत्वा कासिरज्जं गाहापेत्वा बाराणसिराजानं बन्धापेत्वा बन्धनागारे पक्खिपापेसि. राजा झानं उप्पादेत्वा आकासे पल्लङ्केन निसीदि, चोररञ्ञो सरीरे डाहो उप्पज्जि. सो बाराणसिराजानं उपसङ्कमित्वा पठमं गाथमाह –
१. ‘‘जीनो रथस्सं मणिकुण्डले च, पुत्ते च दारे च तथेव जीनो;
सब्बेसु भोगेसु असेसकेसु, कस्मा न सन्तप्पसि सोककाले’’ति.
तत्थ जीनो रथस्सं मणिकुण्डले चाति महाराज, त्वं रथञ्च अस्सञ्च मणिकुण्डलानि च जीनो, ‘‘जीनो रथस्से च मणिकुण्डले चा’’तिपि पाठो. असेसकेसूति निस्सेसकेसु.
तं सुत्वा बोधिसत्तो इमा द्वे गाथा अभासि –
२. ‘‘पुब्बेव मच्चं विजहन्ति भोगा, मच्चो वा ते पुब्बतरं जहाति;
असस्सता भोगिनो कामकामि, तस्मा न सोचामहं सोककाले.
३. ‘‘उदेति आपूरति वेति चन्दो, अत्थं तपेत्वान पलेति सूरियो;
विदिता मया सत्तुक लोकधम्मा, तस्मा न सोचामहं सोककाले’’ति.
तत्थ पुब्बेव मच्चन्ति मच्चं वा भोगा पुब्बेव पठमतरञ्ञेव विजहन्ति, मच्चो वा ते भोगे पुब्बतरं जहाति. कामकामीति चोरराजानं आलपति. अम्भो, कामे कामयमान कामकामि भोगिनो नाम लोके असस्सता, भोगेसु वा नट्ठेसु जीवमानाव अभोगिनो होन्ति, भोगे वा पहाय सयं नस्सन्ति, तस्मा अहं महाजनस्स सोककालेपि न सोचामीति अत्थो. विदिता मया सत्तुक लोकधम्माति चोरराजानं आलपति. अम्भो, सत्तुक, मया लाभो अलाभो यसो अयसोतिआदयो लोकधम्मा विदिता. यथेव हि चन्दो उदेति च पूरति च पुन च खीयति, यथा च सूरियो अन्धकारं विधमन्तो महन्तं आलोकं तपेत्वान पुन सायं अत्थं पलेति अत्थं गच्छति न दिस्सति, एवमेव भोगा उप्पज्जन्ति च नस्सन्ति च, तत्थ किं सोकेन, तस्मा न सोचामीति अत्थो.
एवं महासत्तो चोररञ्ञो धम्मं देसेत्वा इदानि तमेव चोरं गरहन्तो आह –
४. ‘‘अलसो गिही कामभोगी न साधु, असञ्ञतो पब्बजितो न साधु;
राजा न साधु अनिसम्मकारी, यो पण्डितो कोधनो तं न साधु.
५. ‘‘निसम्म खत्तियो कयिरा, नानिसम्म दिसम्पति;
निसम्मकारिनो राज, यसो कित्ति च वड्ढती’’ति.
इमा पन द्वे गाथा हेट्ठा वित्थारितायेव. चोरराजा बोधिसत्तं खमापेत्वा रज्जं पटिच्छापेत्वा अत्तनो जनपदमेव गतो.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा कोसलराजा आनन्दो अहोसि, बाराणसिराजा पन अहमेव अहोसि’’न्ति.
मणिकुण्डलजातकवण्णना पठमा.
[३५२] २. सुजातजातकवण्णना
किं नु सन्तरमानोवाति इदं सत्था जेतवने विहरन्तो मतपितिकं कुटुम्बिकं आरब्भ कथेसि. सो किर पितरि मते परिदेवमानो विचरति, सोकं विनोदेतुं न सक्कोति. अथ सत्था तस्स सोतापत्तिफलूपनिस्सयं दिस्वा सावत्थिं पिण्डाय चरित्वा पच्छासमणं आदाय तस्स गेहं गन्त्वा पञ्ञत्तासने निसिन्नो तं वन्दित्वा निसिन्नं ‘‘किं, उपासक, सोचसी’’ति वत्वा ‘‘आम, भन्ते’’ति वुत्ते ‘‘आवुसो, पोराणकपण्डिता पण्डितानं वचनं सुत्वा पितरि कालकते न सोचिंसू’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कुटुम्बिकगेहे निब्बत्ति, ‘‘सुजातकुमारो’’तिस्स नामं करिंसु. तस्स वयप्पत्तस्स पितामहो कालमकासि. अथस्स पिता पितु कालकिरियतो पट्ठाय सोकसमप्पितो आळाहनं गन्त्वा आळाहनतो अट्ठीनि आहरित्वा अत्तनो आरामे मत्तिकाथूपं कत्वा तानि तत्थ निदहित्वा गतगतवेलाय थूपं पुप्फेहि पूजेत्वा चेतियं आविज्झन्तो परिदेवति, नेव न्हायति न लिम्पति न भुञ्जति न कम्मन्ते विचारेति. तं दिस्वा बोधिसत्तो ‘‘पिता मे अय्यकस्स मतकालतो पट्ठाय सोकाभिभूतो चरति, ठपेत्वा पन मं अञ्ञो एतं सञ्ञापेतुं न सक्कोति, एकेन नं उपायेन निस्सोकं करिस्सामी’’ति बहिगामे एकं मतगोणं दिस्वा तिणञ्च पानीयञ्च आहरित्वा तस्स पुरतो ठपेत्वा ‘‘खाद, खाद, पिव, पिवा’’ति आह. आगतागता नं दिस्वा ‘‘सम्म सुजात, किं उम्मत्तकोसि, मतगोणस्स तिणोदकं देसी’’ति वदन्ति. सो न किञ्चि पटिवदति. अथस्स पितु सन्तिकं गन्त्वा ‘‘पुत्तो ते उम्मत्तको जातो, मतगोणस्स तिणोदकं देती’’ति आहंसु. तं सुत्वा कुटुम्बिकस्स पितुसोको अपगतो, पुत्तसोको पतिट्ठितो. सो वेगेनागन्त्वा ‘‘ननु त्वं, तात सुजात, पण्डितोसि, किंकारणा मतगोणस्स तिणोदकं देसी’’ति वत्वा द्वे गाथा अभासि –
६. ‘‘किं नु सन्तरमानोव, लायित्वा हरितं तिणं;
खाद खादाति लपसि, गतसत्तं जरग्गवं.
७. ‘‘न हि अन्नेन पानेन, मतो गोणो समुट्ठहे;
त्वञ्च तुच्छं विलपसि, यथा तं दुम्मती तथा’’ति.
तत्थ सन्तरमानोवाति तुरितो विय हुत्वा. लायित्वाति लुनित्वा. लपसीति विलपसि. गतसत्तं जरग्गवन्ति विगतजीवितं जिण्णगोणं. यथा तन्ति एत्थ तन्ति निपातमत्तं, यथा दुम्मति अप्पपञ्ञो विलपेय्य, तथा त्वं तुच्छं विलपसीति.
ततो बोधिसत्तो द्वे गाथा अभासि –
८. ‘‘तथेव तिट्ठति सीसं, हत्थपादा च वालधि;
सोता तथेव तिट्ठन्ति, मञ्ञे गोणो समुट्ठहे.
९. ‘‘नेवय्यकस्स सीसञ्च, हत्थपादा च दिस्सरे;
रुदं मत्तिकथूपस्मिं, ननु त्वञ्ञेव दुम्मती’’ति.
तत्थ तथेवाति यथा पुब्बे ठितं, तथेव तिट्ठति. मञ्ञेति एतेसं सीसादीनं तथेव ठितत्ता अयं गोणो समुट्ठहेय्याति मञ्ञामि. नेवय्यकस्स सीसञ्चाति अय्यकस्स पन सीसञ्च हत्थपादा च न दिस्सन्ति. ‘‘पिट्ठिपादा न दिस्सरे’’तिपि पाठो. ननु त्वञ्ञेव दुम्मतीति अहं ताव सीसादीनि पस्सन्तो एवं करोमि, त्वं पन न किञ्चि पस्ससि, झापितट्ठानतो अट्ठीनि आहरित्वा मत्तिकाथूपं कत्वा परिदेवसि. इति मं पटिच्च सतगुणेन सहस्सगुणेन सतसहस्सगुणेन ननु त्वञ्ञेव दुम्मति. भिज्जनधम्मा नाम सङ्खारा भिज्जन्ति, तत्थ का परिदेवनाति.
तं सुत्वा बोधिसत्तस्स पिता ‘‘मम पुत्तो पण्डितो इधलोकपरलोककिच्चं जानाति, मम सञ्ञापनत्थाय एतं कम्मं अकासी’’ति चिन्तेत्वा ‘‘तात सुजातपण्डित, ‘सब्बे सङ्खारा अनिच्चा’ति मे ञाता, इतो पट्ठाय न सोचिस्सामि, पितुसोकहरणकपुत्तेन नाम तादिसेन भवितब्ब’’न्ति वत्वा पुत्तस्स थुतिं करोन्तो आह –
१०. ‘‘आदित्तं वत मं सन्तं, घतसित्तंव पावकं;
वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.
११. ‘‘अब्बही वत मे सल्लं, यमासि हदयस्सितं;
यो मे सोकपरेतस्स, पितुसोकं अपानुदि.
१२. ‘‘सोहं अब्बूळ्हसल्लोस्मि, वीतसोको अनाविलो;
न सोचामि न रोदामि, तव सुत्वान माणव.
१३. ‘‘एवं करोन्ति सप्पञ्ञा, ये होन्ति अनुकम्पका;
विनिवत्तेन्ति सोकम्हा, सुजातो पितरं यथा’’ति.
तत्थ निब्बापयेति निब्बापयि. दरन्ति सोकदरथं. सुजातो पितरं यथाति यथा मम पुत्तो सुजातो मं पितरं समानं अत्तनो सप्पञ्ञताय सोकम्हा विनिवत्तयि, एवं अञ्ञेपि सप्पञ्ञा सोकम्हा विनिवत्तयन्तीति.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने कुटुम्बिको सोतापत्तिफले पतिट्ठहि. तदा सुजातो अहमेव अहोसिन्ति.
सुजातजातकवण्णना दुतिया.
[३५३] ३. वेनसाखजातकवण्णना
नयिदं निच्चं भवितब्बन्ति इदं सत्था भग्गेसु संसुमारगिरं निस्साय भेसकळावने विहरन्तो बोधिराजकुमारं आरब्भ कथेसि. बोधिराजकुमारो नाम उदेनस्स रञ्ञो पुत्तो तस्मिं काले संसुमारगिरे वसन्तो एकं परियोदातसिप्पं वड्ढकिं पक्कोसापेत्वा अञ्ञेहि राजूहि असदिसं कत्वा कोकनदं नाम पासादं कारापेसि. कारापेत्वा च पन ‘‘अयं वड्ढकी अञ्ञस्सपि रञ्ञो एवरूपं पासादं करेय्या’’ति मच्छरायन्तो तस्स अक्खीनि उप्पाटापेसि. तेनस्स अक्खीनं उप्पाटितभावो भिक्खुसङ्घे पाकटो जातो. तस्मा भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, बोधिराजकुमारो किर तथारूपस्स वड्ढकिनो अक्खीनि उप्पाटापेसि, अहो कक्खळो फरुसो साहसिको’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस कक्खळो फरुसो साहसिकोव. न केवलञ्च इदानेव, पुब्बेपेस खत्तियसहस्सानं अक्खीनि उप्पाटापेत्वा मारेत्वा तेसं मंसेन बलिकम्मं कारेसी’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तक्कसिलायं दिसापामोक्खो आचरियो अहोसि. जम्बुदीपतले खत्तियमाणवा ब्राह्मणमाणवा च तस्सेव सन्तिके सिप्पं उग्गण्हिंसु. बाराणसिरञ्ञो पुत्तो ब्रह्मदत्तकुमारो नाम तस्स सन्तिके तयो वेदे उग्गण्हि. सो पन पकतियापि कक्खळो फरुसो साहसिको अहोसि. बोधिसत्तो अङ्गविज्जावसेन तस्स कक्खळफरुससाहसिकभावं ञत्वा ‘‘तात, त्वं कक्खळो फरुसो साहसिको, फरुसेन नाम लद्धं इस्सरियं अचिरट्ठितिकं होति, सो इस्सरिये विनट्ठे भिन्ननावो विय समुद्दे पतिट्ठं न लभति, तस्मा मा एवरूपो अहोसी’’ति तं ओवदन्तो द्वे गाथा अभासि –
१४. ‘‘नयिदं निच्चं भवितब्बं ब्रह्मदत्त, खेमं सुभिक्खं सुखता च काये;
अत्थच्चये मा अहु सम्पमूळ्हो, भिन्नप्लवो सागरस्सेव मज्झे.
१५. ‘‘यानि करोति पुरिसो, तानि अत्तनि पस्सति;
कल्याणकारी कल्याणं, पापकारी च पापकं;
यादिसं वपते बीजं, तादिसं हरते फल’’न्ति.
तत्थ सुखता च कायेति तात ब्रह्मदत्त, यदेतं खेमं वा सुभिक्खं वा या वा एसा सुखता काये, इदं सब्बं इमेसं सत्तानं निच्चं सब्बकालमेव न भवति, इदं पन अनिच्चं हुत्वा अभावधम्मं. अत्थच्चयेति सो त्वं अनिच्चतावसेन इस्सरिये विगते अत्तनो अत्थस्स अच्चये यथा नाम भिन्नप्लवो भिन्ननावो मनुस्सो सागरमज्झे पतिट्ठं अलभन्तो सम्पमूळ्हो होति, एवं मा अहु सम्पमूळ्हो. तानि अत्तनि पस्सतीति तेसं कम्मानं विपाकं विन्दन्तो तानि अत्तनि पस्सति नाम.
सो आचरियं वन्दित्वा बाराणसिं गन्त्वा पितु सिप्पं दस्सेत्वा ओपरज्जे पतिट्ठाय पितु अच्चयेन रज्जं पापुणि. तस्स पिङ्गियो नाम पुरोहितो अहोसि कक्खळो फरुसो साहसिको. सो यसलोभेन चिन्तेसि ‘‘यंनूनाहं इमिना रञ्ञा सकलजम्बुदीपे सब्बे राजानो गाहापेय्यं, एवमेस एकराजा भविस्सति, अहम्पि एकपुरोहितो भविस्सामी’’ति. सो तं राजानं अत्तनो कथं गाहापेसि. राजा महतिया सेनाय नगरा निक्खमित्वा एकस्स रञ्ञो नगरं रुन्धित्वा तं राजानं गण्हि. एतेनुपायेन सकलजम्बुदीपे रज्जं गहेत्वा राजसहस्सपरिवुतो ‘‘तक्कसिलायं रज्जं गण्हिस्सामी’’ति अगमासि. बोधिसत्तो नगरं पटिसङ्खरित्वा परेहि अप्पधंसियं अकासि.
बाराणसिराजा गङ्गानदीतीरे महतो निग्रोधरुक्खस्स मूले साणिं परिक्खिपापेत्वा उपरि वितानं कारापेत्वा सयनं पञ्ञपेत्वा निवासं गण्हि. सो जम्बुदीपतले सहस्सराजानो गहेत्वा युज्झमानोपि तक्कसिलं गहेतुं असक्कोन्तो अत्तनो पुरोहितं पुच्छि ‘‘आचरिय, मयं एत्तकेहि राजूहि सद्धिं आगन्त्वापि तक्कसिलं गहेतुं न सक्कोम, किं नु खो कातब्ब’’न्ति. ‘‘महाराज, सहस्सराजूनं अक्खीनि उप्पाटेत्वा मारेत्वा कुच्छिं फालेत्वा पञ्चमधुरमंसं आदाय इमस्मिं निग्रोधे अधिवत्थाय देवताय बलिकम्मं कत्वा अन्तवट्टीहि रुक्खं परिक्खिपित्वा लोहितपञ्चङ्गुलिकानि करोम, एवं नो खिप्पमेव जयो भविस्सती’’ति. राजा ‘‘साधू’’ति पटिस्सुणित्वा अन्तोसाणियं महाबले मल्ले ठपेत्वा एकमेकं राजानं पक्कोसापेत्वा निप्पीळनेन विसञ्ञं कारेत्वा अक्खीनि उप्पाटेत्वा मारेत्वा मंसं आदाय कळेवरानि गङ्गायं पवाहेत्वा वुत्तप्पकारं बलिकम्मं कारेत्वा बलिभेरिं आकोटापेत्वा युद्धाय गतो.
अथस्स अट्टालकतो एको यक्खो आगन्त्वा दक्खिणक्खिं उप्पाटेत्वा अगमासि, अथस्स महती वेदना उप्पज्जि. सो वेदनाप्पत्तो आगन्त्वा निग्रोधरुक्खमूले पञ्ञत्तासने उत्तानको निपज्जि. तस्मिं खणे एको गिज्झो एकं तिखिणकोटिकं अट्ठिं गहेत्वा रुक्खग्गे निसिन्नो मंसं खादित्वा अट्ठिं विस्सज्जेसि, अट्ठिकोटि आगन्त्वा रञ्ञो वामक्खिम्हि अयसूलं विय पतित्वा अक्खिं भिन्दि. तस्मिं खणे बोधिसत्तस्स वचनं सल्लक्खेसि. सो ‘‘अम्हाकं आचरियो ‘इमे सत्ता बीजानुरूपं फलं विय कम्मानुरूपं विपाकं अनुभोन्ती’ति कथेन्तो इदं दिस्वा कथेसि मञ्ञे’’ति वत्वा विलपन्तो द्वे गाथा अभासि –
१६. ‘‘इदं तदाचरियवचो, पारासरियो यदब्रवि;
‘मा सु त्वं अकरि पापं, यं त्वं पच्छा कतं तपे’.
१७. ‘‘अयमेव सो पिङ्गिय वेनसाखो, यम्हि घातयिं खत्तियानं सहस्सं;
अलङ्कते चन्दनसारानुलित्ते, तमेव दुक्खं पच्चागतं मम’’न्ति.
तत्थ इदं तदाचरियवचोति इदं तं आचरियस्स वचनं. पारासरियोति तं गोत्तेन कित्तेति. पच्छा कतन्ति यं पापं तया कतं, पच्छा तं तपेय्य किलमेय्य, तं मा करीति ओवादं अदासि, अहं पनस्स वचनं न करिन्ति. अयमेवाति निग्रोधरुक्खं दस्सेन्तो विलपति. वेनसाखोति पत्थटसाखो. यम्हि घातयिन्ति यम्हि रुक्खे खत्तियसहस्सं मारेसिं. अलङ्कते चन्दनसारानुलित्तेति राजालङ्कारेहि अलङ्कते लोहितचन्दनसारानुलित्ते ते खत्तिये यत्थाहं घातेसिं, अयमेव सो रुक्खो इदानि मय्हं किञ्चि परित्ताणं कातुं न सक्कोतीति दीपेति. तमेव दुक्खन्ति यं मया परेसं अक्खिउप्पाटनदुक्खं कतं, इदं मे तथेव पटिआगतं, इदानि नो आचरियस्स वचनं मत्थकं पत्तन्ति परिदेवति.
सो एवं परिदेवमानो अग्गमहेसिं अनुस्सरित्वा –
१८. ‘‘सामा च खो चन्दनलित्तगत्ता, लट्ठीव सोभञ्जनकस्स उग्गता;
अदिस्वा कालं करिस्सामि उब्बरिं, तं मे इतो दुक्खतरं भविस्सती’’ति. –
गाथमाह –
तस्सत्थो – मम भरिया सुवण्णसामा उब्बरी यथा नाम सिग्गुरुक्खस्स उजु उग्गता साखा मन्दमालुतेरिता कम्पमाना सोभति, एवं इत्थिविलासं कुरुमाना सोभति, तमहं इदानि अक्खीनं भिन्नत्ता उब्बरिं अदिस्वाव कालं करिस्सामि, तं मे तस्सा अदस्सनं इतो मरणदुक्खतोपि दुक्खतरं भविस्सतीति.
सो एवं विलपन्तोव मरित्वा निरये निब्बत्ति. न नं इस्सरियलुद्धो पुरोहितो परित्ताणं कातुं सक्खि, न अत्तनो इस्सरियं. तस्मिं मतमत्तेयेव बलकायो भिज्जित्वा पलायि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा बाराणसिराजा बोधिराजकुमारो अहोसि, पिङ्गियो देवदत्तो, दिसापामोक्खाचरियो पन अहमेव अहोसि’’न्ति.
वेनसाखजातकवण्णना ततिया.
[३५४] ४. उरगजातकवण्णना
उरगोव तचं जिण्णन्ति इदं सत्था जेतवने विहरन्तो मतपुत्तकं कुटुम्बिकं आरब्भ कथेसि. वत्थु पन मतभरियमतपितिकवत्थुसदिसमेव. इधापि तथेव सत्था तस्स निवेसनं गन्त्वा तं आगन्त्वा वन्दित्वा निसिन्नं ‘‘किं, आवुसो, सोचसी’’ति पुच्छित्वा ‘‘आम, भन्ते, पुत्तस्स मे मतकालतो पट्ठाय सोचामी’’ति वुत्ते ‘‘आवुसो, भिज्जनधम्मं नाम भिज्जति, नस्सनधम्मं नाम नस्सति, तञ्च खो न एकस्मिंयेव कुले, नापि एकस्मिञ्ञेव गामे, अथ खो अपरिमाणेसु चक्कवाळेसु तीसु भवेसु अमरणधम्मो नाम नत्थि, तब्भावेनेव ठातुं समत्थो एकसङ्खारोपि सस्सतो नाम नत्थि, सब्बे सत्ता मरणधम्मा, सब्बे सङ्खारा भिज्जनधम्मा, पोराणकपण्डितापि पुत्ते मते ‘मरणधम्मं मतं, नस्सनधम्मं नट्ठ’न्ति न सोचिंसू’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो बाराणसियं द्वारगामके ब्राह्मणकुले निब्बत्तित्वा कुटुम्बं सण्ठपेत्वा कसिकम्मेन जीविकं कप्पेसि. तस्स पुत्तो च धीता चाति द्वे दारका अहेसुं. सो पुत्तस्स वयप्पत्तस्स समानकुलतो कुमारिकं आहरित्वा अदासि, इति ते दासिया सद्धिं छ जना अहेसुं – बोधिसत्तो, भरिया, पुत्तो, धीता, सुणिसा, दासीति. ते समग्गा सम्मोदमाना पियसंवासा अहेसुं. बोधिसत्तो सेसानं पञ्चन्नं एवं ओवादं देति ‘‘तुम्हे यथालद्धनियामेनेव दानं देथ, सीलं रक्खथ, उपोसथकम्मं करोथ, मरणस्सतिं भावेथ, तुम्हाकं मरणभावं सल्लक्खेथ, इमेसञ्हि सत्तानं मरणं धुवं, जीवितं अद्धुवं, सब्बे सङ्खारा अनिच्चा खयवयधम्मिनोव, रत्तिञ्च दिवा च अप्पमत्ता होथा’’ति. ते ‘‘साधू’’ति ओवादं सम्पटिच्छित्वा अप्पमत्ता मरणस्सतिं भावेन्ति.
अथेकदिवसं बोधिसत्तो पुत्तेन सद्धिं खेत्तं गन्त्वा कसति. पुत्तो कचवरं सङ्कड्ढित्वा झापेति. तस्साविदूरे एकस्मिं वम्मिके आसीविसो अत्थि. धूमो तस्स अक्खीनि पहरि. सो कुद्धो निक्खमित्वा ‘‘इमं निस्साय मय्हं भय’’न्ति चतस्सो दाठा निमुज्जापेन्तो तं डंसि, सो परिवत्तित्वा पतितो. बोधिसत्तो परिवत्तित्वा तं पतितं दिस्वा गोणे ठपेत्वा गन्त्वा तस्स मतभावं ञत्वा तं उक्खिपित्वा एकस्मिं रुक्खमूले निपज्जापेत्वा पारुपित्वा नेव रोदि न परिदेवि – ‘‘भिज्जनधम्मं पन भिन्नं, मरणधम्मं मतं, सब्बे सङ्खारा अनिच्चा मरणनिप्फत्तिका’’ति अनिच्चभावमेव सल्लक्खेत्वा कसि. सो खेत्तसमीपेन गच्छन्तं एकं पटिविस्सकं पुरिसं दिस्वा ‘‘तात, गेहं गच्छसी’’ति पुच्छित्वा ‘‘आमा’’ति वुत्ते तेन हि अम्हाकम्पि घरं गन्त्वा ब्राह्मणिं वदेय्यासि ‘‘अज्ज किर पुब्बे विय द्विन्नं भत्तं अनाहरित्वा एकस्सेवाहारं आहरेय्याथ, पुब्बे च एकिकाव दासी आहारं आहरति, अज्ज पन चत्तारोपि जना सुद्धवत्थनिवत्था गन्धपुप्फहत्था आगच्छेय्याथा’’ति. सो ‘‘साधू’’ति गन्त्वा ब्राह्मणिया तथेव कथेसि. केन ते, तात, इमं सासनं दिन्नन्ति. ब्राह्मणेन, अय्येति. सा ‘‘पुत्तो मे मतो’’ति अञ्ञासि, कम्पनमत्तम्पिस्सा नाहोसि. एवं सुभावितचित्ता सुद्धवत्थनिवत्था गन्धपुप्फहत्था दासिं पन आहारं आहरापेत्वा सेसेहि सद्धिं खेत्तं अगमासि. एकस्सपि रोदितं वा परिदेवितं वा नाहोसि.
बोधिसत्तो पुत्तस्स निपन्नछायायमेव निसीदित्वा भुञ्जि. भुत्तावसाने सब्बेपि दारूनि उद्धरित्वा तं चितकं आरोपेत्वा गन्धपुप्फेहि पूजेत्वा झापेसुं. एकस्स च एकबिन्दुपि अस्सु नाहोसि, सब्बेपि सुभावितमरणस्सतिनो होन्ति. तेसं सीलतेजेन सक्कस्स आसनं उण्हाकारं दस्सेसि. सो ‘‘को नु खो मं ठाना चावेतुकामो’’ति उपधारेन्तो तेसं गुणतेजेन उण्हभावं ञत्वा पसन्नमानसो हुत्वा ‘‘मया एतेसं सन्तिकं गन्त्वा सीहनादं नदापेत्वा सीहनादपरियोसाने एतेसं निवेसनं सत्तरतनपरिपुण्णं कत्वा आगन्तुं वट्टती’’ति वेगेन तत्थ गन्त्वा आळाहनपस्से ठितो ‘‘तात, किं करोथा’’ति आह. ‘‘एकं मनुस्सं झापेम, सामी’’ति. ‘‘न तुम्हे मनुस्सं झापेस्सथ, एकं पन मिगं मारेत्वा पचथ मञ्ञे’’ति. ‘‘नत्थेतं सामि, मनुस्समेव झापेमा’’ति. ‘‘तेन हि वेरिमनुस्सो वो भविस्सती’’ति. अथ नं बोधिसत्तो ‘‘ओरसपुत्तो नो सामि, न वेरिको’’ति आह. ‘‘तेन हि वो अप्पियपुत्तो भविस्सती’’ति? ‘‘अतिविय पियपुत्तो, सामी’’ति. ‘‘अथ कस्मा न रोदसी’’ति? सो अरोदनकारणं कथेन्तो पठमं गाथमाह –
१९. ‘‘उरगोव तचं जिण्णं, हित्वा गच्छति सं तनुं;
एवं सरीरे निब्भोगे, पेते कालकते सति.
२०. ‘‘डय्हमानो न जानाति, ञातीनं परिदेवितं;
तस्मा एतं न सोचामि, गतो सो तस्स या गती’’ति.
तत्थ सं तनुन्ति अत्तनो सरीरं. निब्भोगेति जीवितिन्द्रियस्स अभावेन भोगरहिते. पेतेति परलोकं पटिगते. कालकतेति कतकाले, मतेति अत्थो. इदं वुत्तं होति – सामि, मम पुत्तो यथा नाम उरगो जिण्णतचं निच्छिन्दित्वा अनोलोकेत्वा अनपेक्खो छड्डेत्वा गच्छेय्य, एवं अत्तनो सरीरं छड्डेत्वा गच्छति, तस्स जीवितिन्द्रियरहिते सरीरे एवं निब्भोगे तस्मिञ्च मे पुत्ते पेते पुन पटिगते मरणकालं कत्वा ठिते सति को कारुञ्ञेन वा परिदेवेन वा अत्थो. अयञ्हि यथा सूलेहि विज्झित्वा डय्हमानो सुखदुक्खं न जानाति, एवं ञातीनं परिदेवितम्पि न जानाति, तेन कारणेनाहं एतं न सोचामि. या तस्स अत्तनो गति, तं सो गतोति.
सक्को बोधिसत्तस्स वचनं सुत्वा ब्राह्मणिं पुच्छि ‘‘अम्म, तुय्हं सो किं होती’’ति? ‘‘दस मासे कुच्छिना परिहरित्वा थञ्ञं पायेत्वा हत्थपादे सण्ठपेत्वा वड्ढितपुत्तो मे, सामी’’ति. ‘‘अम्म, पिता ताव पुरिसभावेन मा रोदतु, मातु हदयं पन मुदुकं होति, त्वं कस्मा न रोदसी’’ति? सा अरोदनकारणं कथेन्ती –
२१. ‘‘अनव्हितो ततो आगा, अननुञ्ञातो इतो गतो;
यथागतो तथा गतो, तत्थ का परिदेवना.
२२. ‘‘डय्हमानो न जानाति, ञातीनं परिदेवितं;
तस्मा एतं न सोचामि, गतो सो तस्स या गती’’ति. – गाथाद्वयमाह –
तत्थ अनव्हितोति अयं तात मया परलोकतो अनव्हितो अयाचितो. आगाति अम्हाकं गेहं आगतो. इतोति इतो मनुस्सलोकतो गच्छन्तोपि मया अननुञ्ञातोव गतो. यथागतोति आगच्छन्तोपि यथा अत्तनोव रुचिया आगतो, गच्छन्तोपि तथेव गतो. तत्थाति तस्मिं तस्स इतो गमने का परिदेवना. डय्हमानोति गाथा वुत्तनयेन वेदितब्बा.
सक्को ब्राह्मणिया कथं सुत्वा तस्स भगिनिं पुच्छि ‘‘अम्म, तुय्हं सो किं होती’’ति? ‘‘भाता मे, सामी’’ति. ‘‘अम्म, भगिनियो नाम भातूसु सिनेहा होन्ति, त्वं कस्मा न रोदसी’’ति? सा अरोदनकारणं कथेन्ती –
२३. ‘‘सचे रोदे किसा अस्सं, तस्सा मे किं फलं सिया;
ञातिमित्तसुहज्जानं, भिय्यो नो अरती सिया.
२४. डय्हमानो न जानाति, ञातीनं परिदेवितं;
तस्मा एतं न सोचामि, गतो सो तस्स या गती’’ति. – गाथाद्वयमाह –
तत्थ सचेति यदि अहं भातरि मते रोदेय्यं, किससरीरा अस्सं. भातु पन मे तप्पच्चया वुड्ढि नाम नत्थीति दस्सेति. तस्सा मेति तस्सा मय्हं रोदन्तिया किं फलं को आनिसंसो भवेय्य. मय्हं अवुद्धि पन पञ्ञायतीति दीपेति. ञातिमित्तसुहज्जानन्ति ञातिमित्तसुहदानं. अयमेव वा पाठो. भिय्यो नोति ये अम्हाकं ञाती च मित्ता च सुहदया च, तेसं अधिकतरा अरति सिया.
सक्को भगिनिया कथं सुत्वा भरियं पुच्छि ‘‘अम्म, तुय्हं सो किं होती’’ति? ‘‘पति मे, सामी’’ति. ‘‘इत्थियो नाम पतिम्हि मते विधवा होन्ति अनाथा, त्वं कस्मा न रोदसी’’ति. सापिस्स अरोदनकारणं कथेन्ती –
२५. ‘‘यथापि दारको चन्दं, गच्छन्तमनुरोदति;
एवंसम्पदमेवेतं, यो पेतमनुसोचति.
२६. ‘‘डय्हमानो न जानाति, ञातीनं परिदेवितं;
तस्मा एतं न सोचामि, गतो सो तस्स या गती’’ति. – गाथाद्वयमाह –
तस्सत्थो – यथा नाम यत्थ कत्थचि युत्तायुत्तं लब्भनीयालब्भनीयं अजानन्तो बालदारको मातु उच्छङ्गे निसिन्नो पुण्णमासियं पुण्णं चन्दं आकासे गच्छन्तं दिस्वा ‘‘अम्म, चन्दं मे देहि, अम्म, चन्दं मे देही’’ति पुनप्पुनं रोदति, एवंसम्पदमेवेतं, एवंनिप्फत्तिकमेव एतं तस्स रुण्णं होति, यो पेतं कालकतं अनुसोचति. इतोपि च बालतरं. किंकारणा? सो हि विज्जमानचन्दं अनुरोदति, मय्हं पन पति मतो एतरहि अविज्जमानो सूलेहि विज्झित्वा डय्हमानोपि न किञ्चि जानातीति.
सक्को भरियाय वचनं सुत्वा दासिं पुच्छि ‘‘अम्म, तुय्हं सो किं होती’’ति? ‘‘अय्यो मे, सामी’’ति. ‘‘ननु त्वं इमिना पीळेत्वा पोथेत्वा परिभुत्ता भविस्ससि, तस्मा ‘‘सुमुत्ता अह’’न्ति न रोदसी’’ति. ‘सामि, मा एवं अवच, न एतं एतस्स अनुच्छविकं, खन्तिमेत्तानुद्दयसम्पन्नो मे अय्यपुत्तो, उरे संवड्ढितपुत्तो विय अहोसी’ति. ‘‘अथ कस्मा न रोदसी’’ति? सापिस्स अरोदनकारणं कथेन्ती –
२७. ‘‘यथापि उदककुम्भो, भिन्नो अप्पटिसन्धियो;
एवंसम्पदमेवेतं, यो पेतमनुसोचति.
२८. ‘‘डय्हमानो न जानाति, ञातीनं परिदेवितं;
तस्मा एतं न सोचामि, गतो सो तस्स या गती’’ति. – गाथाद्वयमाह –
तस्सत्थो – यथा नाम उदककुम्भो उक्खिपियमानो पतित्वा सत्तधा भिन्नो पुन तानि कपालानि पटिपाटिया ठपेत्वा संविदहित्वा पटिपाकतिकं कातुं न सक्कोति, यो पेतमनुसोचति, तस्सपि एतमनुसोचनं एवंनिप्फत्तिकमेव होति, मतस्स पुन जीवापेतुं असक्कुणेय्यत्ता इद्धिमतो वा इद्धानुभावेन भिन्नं कुम्भं संविदहित्वा उदकस्स पूरेतुं सक्का भवेय्य, कालकतो पन इद्धिबलेनापि न सक्का पटिपाकतितं कातुन्ति. इतरा गाथा वुत्तत्थायेव.
सक्को सब्बेसं धम्मकथं सुत्वा पसीदित्वा ‘‘तुम्हेहि अप्पमत्तेहि मरणस्सति भाविता, तुम्हे इतो पट्ठाय सहत्थेन कम्मं मा करित्थ, अहं, सक्को देवराजा, अहं वो गेहे सत्त रतनानि अपरिमाणानि करिस्सामि, तुम्हे दानं देथ, सीलं रक्खथ, उपोसथकम्मं करोथ, अप्पमत्ता होथा’’ति तेसं ओवादं दत्वा गेहं अपरिमितधनं कत्वा पक्कामि.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने कुटुम्बिको सोतापत्तिफले पतिट्ठहि. तदा दासी खुज्जुत्तरा अहोसि, धीता उप्पलवण्णा, पुत्तो राहुलो, माता खेमा, ब्राह्मणो पन अहमेव अहोसिन्ति.
उरगजातकवण्णना चतुत्था.
[३५५] ५. घटजातकवण्णना
अञ्ञे सोचन्ति रोदन्तीति इदं सत्था जेतवने विहरन्तो कोसलरञ्ञो एकं अमच्चं आरब्भ कथेसि. वत्थु हेट्ठा कथितसदिसमेव. इध पन राजा अत्तनो उपकारस्स अमच्चस्स महन्तं यसं दत्वा परिभेदकानं कथं गहेत्वा तं बन्धापेत्वा बन्धनागारे पवेसेसि. सो तत्थ निसिन्नोव सोतापत्तिमग्गं निब्बत्तेसि. राजा तस्स गुणं सल्लक्खेत्वा मोचापेसि. सो गन्धमालं आदाय सत्थु सन्तिकं गन्त्वा वन्दित्वा निसीदि. अथ नं सत्था ‘‘अनत्थो किर ते उप्पन्नो’’ति पुच्छित्वा ‘‘आम, भन्ते, अनत्थेन पन मे अत्थो आगतो, सोतापत्तिमग्गो निब्बत्तो’’ति वुत्ते ‘‘न खो, उपासक, त्वञ्ञेव अनत्थेन अत्थं आहरि, पोराणकपण्डितापि आहरिंसू’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अग्गमहेसिया कुच्छिम्हि निब्बत्ति, ‘‘घटकुमारो’’तिस्स नामं करिंसु. सो अपरेन समयेन तक्कसिलायं उग्गहितसिप्पो धम्मेन रज्जं कारेसि. तस्स अन्तेपुरे एको अमच्चो दुब्भि. सो तं पच्चक्खतो ञत्वा रट्ठा पब्बाजेसि. तदा सावत्थियं धङ्कराजा नाम रज्जं कारेसि. सो तस्स सन्तिकं गन्त्वा तं उपट्ठहित्वा हेट्ठा वुत्तनयेन अत्तनो वचनं गाहापेत्वा बाराणसिरज्जं गण्हापेसि. सोपि रज्जं गहेत्वा बोधिसत्तं सङ्खलिकाहि बन्धापेत्वा बन्धनागारं पवेसेसि. बोधिसत्तो झानं निब्बत्तेत्वा आकासे पल्लङ्केन निसीदि, धङ्कस्स सरीरे डाहो उप्पज्जि. सो गन्त्वा बोधिसत्तस्स सुवण्णादासफुल्लपदुमसस्सिरिकं मुखं दिस्वा बोधिसत्तं पुच्छन्तो पठमं गाथमाह –
२९. ‘‘अञ्ञे सोचन्ति रोदन्ति, अञ्ञे अस्सुमुखा जना;
पसन्नमुखवण्णोसि, कस्मा घट न सोचसी’’ति.
तत्थ अञ्ञेति तं ठपेत्वा सेसमनुस्सा.
अथस्स बोधिसत्तो असोचनकारणं कथेन्तो चतस्सो गाथा अभासि –
३०. ‘‘नाब्भतीतहरो सोको, नानागतसुखावहो;
तस्मा धङ्क न सोचामि, नत्थि सोके दुतीयता.
३१. ‘‘सोचं पण्डु किसो होति, भत्तञ्चस्स न रुच्चति;
अमित्ता सुमना होन्ति, सल्लविद्धस्स रुप्पतो.
३२. ‘‘गामे वा यदि वारञ्ञे, निन्ने वा यदि वा थले;
ठितं मं नागमिस्सति, एवं दिट्ठपदो अहं.
३३. ‘‘यस्सत्ता नालमेकोव, सब्बकामरसाहरो;
सब्बापि पथवी तस्स, न सुखं आवहिस्सती’’ति.
तत्थ नाब्भतीतहरोति नाब्भतीताहारो, अयमेव वा पाठो. सोको नाम अब्भतीतं अतिक्कन्तं निरुद्धं अत्थङ्गतं पुन नाहरति. दुतीयताति सहायता. अतीताहरणेन वा अनागताहरणेन वा सोको नाम कस्सचि सहायो न होति, तेनापि कारणेनाहं न सोचामीति वदति. सोचन्ति सोचन्तो. सल्लविद्धस्स रुप्पतोति सोकसल्लेन विद्धस्स तेनेव घट्टियमानस्स ‘‘दिट्ठा वत नो पच्चामित्तस्स पिट्ठी’’ति अमित्ता सुमना होन्तीति अत्थो.
ठितं मं नागमिस्सतीति सम्म धङ्कराज, एतेसु गामादीसु यत्थ कत्थचि ठितं मं पण्डुकिसभावादिकं सोकमूलकं ब्यसनं न आगमिस्सति. एवं दिट्ठपदोति यथा तं ब्यसनं नागच्छति, एवं मया झानपदं दिट्ठं. ‘‘अट्ठलोकधम्मपद’’न्तिपि वदन्तियेव. पाळियं पन ‘‘न मत्तं नागमिस्सती’’ति लिखितं, तं अट्ठकथायं नत्थि. परियोसानगाथाय इच्छितपत्थितत्थेन झानसुखसङ्खातं सब्बकामरसं आहरतीति सब्बकामरसाहरो. इदं वुत्तं होति – यस्स रञ्ञो पहाय अञ्ञसहाये अत्ताव एको सब्बकामरसाहरो नालं, सब्बं झानसुखसङ्खातं कामरसं आहरितुं असमत्थो, तस्स रञ्ञो सब्बापि पथवी न सुखं आवहिस्सति. कामातुरस्स हि सुखं नाम नत्थि, यो पन किलेसदरथरहितं झानसुखं आहरितुं समत्थो, सो राजा सुखी होतीति. यो पनेताय गाथाय ‘‘यस्सत्था नालमेको’’तिपि पाठो, तस्सत्थो न दिस्सति.
इति धङ्को इमा चतस्सो गाथा सुत्वा बोधिसत्तं खमापेत्वा रज्जं पटिच्छापेत्वा पक्कामि. बोधिसत्तोपि रज्जं अमच्चानं पटिनिय्यादेत्वा हिमवन्तपदेसं गन्त्वा इसिपब्बज्जं पब्बजित्वा अपरिहीनज्झानो ब्रह्मलोकपरायणो अहोसि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा धङ्कराजा आनन्दो अहोसि, घटराजा पन अहमेव अहोसि’’न्ति.
घटजातकवण्णना पञ्चमा.
[३५६] ६. कोरण्डियजातकवण्णना
एको अरञ्ञेति इदं सत्था जेतवने विहरन्तो धम्मसेनापतिं आरब्भ कथेसि. थेरो किर आगतागतानं दुस्सीलानं मिगलुद्दकमच्छबन्धादीनं दिट्ठदिट्ठानञ्ञेव ‘‘सीलं गण्हथ, सीलं गण्हथा’’ति सीलं देति. ते थेरे गरुभावेन तस्स कथं भिन्दितुं असक्कोन्ता सीलं गण्हन्ति, गहेत्वा च पन न रक्खन्ति, अत्तनो अत्तनो कम्ममेव करोन्ति. थेरो सद्धिविहारिके आमन्तेत्वा ‘‘आवुसो, इमे मनुस्सा मम सन्तिके सीलं गण्हिंसु, गण्हित्वा च पन न रक्खन्ती’’ति आह. ‘‘भन्ते, तुम्हे एतेसं अरुचिया सीलं देथ, एते तुम्हाकं कथं भिन्दितुं असक्कोन्ता गण्हन्ति, तुम्हे इतो पट्ठाय एवरूपानं सीलं मा अदत्था’’ति. थेरो अनत्तमनो अहोसि. तं पवत्तिं सुत्वा भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, सारिपुत्तत्थेरो किर दिट्ठदिट्ठानञ्ञेव सीलं देती’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस दिट्ठदिट्ठानं अयाचन्तानञ्ञेव सीलं देती’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलायं दिसापामोक्खस्स आचरियस्स जेट्ठन्तेवासिको कोरण्डियो नाम अहोसि. तदा सो आचरियो दिट्ठदिट्ठानं केवट्टादीनं अयाचन्तानञ्ञेव ‘‘सीलं गण्हथ, सीलं गण्हथा’’ति सीलं देति. ते गहेत्वापि न रक्खन्ति आचरियो तमत्थं अन्तेवासिकानं आरोचेसि. अन्तेवासिका ‘‘भन्ते, तुम्हे एतेसं अरुचिया सीलं देथ, तस्मा भिन्दन्ति, इतो दानि पट्ठाय याचन्तानञ्ञेव ददेय्याथ, मा अयाचन्तान’’न्ति वदिंसु. सो विप्पटिसारी अहोसि, एवं सन्तेपि दिट्ठदिट्ठानं सीलं देतियेव.
अथेकदिवसं एकस्मा गामा मनुस्सा आगन्त्वा ब्राह्मणवाचनकत्थाय आचरियं निमन्तयिंसु. सो कोरण्डियमाणवं पक्कोसित्वा ‘‘तात, अहं न गच्छामि, त्वं इमे पञ्चसते माणवे गहेत्वा तत्थ गन्त्वा वाचनकानि सम्पटिच्छित्वा अम्हाकं दिन्नकोट्ठासं आहरा’’ति पेसेसि. सो गन्त्वा पटिनिवत्तन्तो अन्तरामग्गे एकं कन्दरं दिस्वा चिन्तेसि ‘‘अम्हाकं आचरियो दिट्ठदिट्ठानं अयाचन्तानञ्ञेव सीलं देति, इतो दानि पट्ठाय यथा याचन्तानञ्ञेव देति, तथा नं करिस्सामी’’ति. सो तेसु माणवेसु सुखनिसिन्नेसु उट्ठाय महन्तं महन्तं सेलं उक्खिपित्वा कन्दरायं खिपि, पुनप्पुनं खिपियेव. अथ नं ते माणवा उट्ठाय ‘‘आचरिय, किं करोसी’’ति आहंसु. सो न किञ्चि कथेसि, ते वेगेन गन्त्वा आचरियस्स आरोचेसुं. आचरियो आगन्त्वा तेन सद्धिं सल्लपन्तो पठमं गाथमाह –
३४. ‘‘एको अरञ्ञे गिरिकन्दरायं, पग्गय्ह पग्गय्ह सिलं पवेच्छसि;
पुनप्पुनं सन्तरमानरूपो, कोरण्डिय को नु तव यिधत्थो’’ति.
तत्थ को नु तव यिधत्थोति को नु तव इध कन्दरायं सिलाखिपनेन अत्थो.
सो तस्स वचनं सुत्वा आचरियं पबोधेतुकामो दुतियं गाथमाह –
३५. ‘‘अहञ्हिमं सागरसेवितन्तं, समं करिस्सामि यथापि पाणि;
विकिरिय सानूनि च पब्बतानि च, तस्मा सिलं दरिया पक्खिपामी’’ति.
तत्थ अहञ्हिमन्ति अहञ्हि इमं महापथविं. सागरसेवितन्तन्ति सागरेहि सेवितं चातुरन्तं. यथापि पाणीति हत्थतलं विय समं करिस्सामि. विकिरियाति विकिरित्वा. सानूनि च पब्बतानि चाति पंसुपब्बते च सिलापब्बते च.
तं सुत्वा ब्राह्मणो ततियं गाथमाह –
३६. ‘‘नयिमं महिं अरहति पाणिकप्पं, समं मनुस्सो करणाय मेको;
मञ्ञामिमञ्ञेव दरिं जिगीसं, कोरण्डिय हाहसि जीवलोक’’न्ति.
तत्थ करणाय मेकोति करणाय एको कातुं न सक्कोतीति दीपेति. मञ्ञामिमञ्ञेव दरिं जिगीसन्ति अहं मञ्ञामि तिट्ठतु पथवी, इमञ्ञेव एकं दरिं जिगीसं पूरणत्थाय वायमन्तो सिला परियेसन्तो उपायं विचिनन्तोव त्वं इमं जीवलोकं हाहसि जहिस्ससि, मरिस्ससीति अत्थो.
तं सुत्वा माणवो चतुत्थं गाथमाह –
३७. ‘‘सचे अयं भूतधरं न सक्का, समं मनुस्सो करणाय मेको;
एवमेव त्वं ब्रह्मे इमे मनुस्से, नानादिट्ठिके नानयिस्ससि ते’’ति.
तस्सत्थो – सचे अयं एको मनुस्सो इमं भूतधरं पथविं समं कातुं न सक्का न समत्थो, एवमेव त्वं इमे दुस्सीलमनुस्से नानादिट्ठिके नानयिस्ससि, ते एवं ‘‘सीलं गण्हथ, सीलं गण्हथा’’ति वदन्तो अत्तनो वसं न आनयिस्ससि, पण्डितपुरिसायेव हि पाणातिपातं ‘‘अकुसल’’न्ति गरहन्ति. संसारमोचकादयो पनेत्थ कुसलसञ्ञिनो, ते त्वं कथं आनयिस्ससि, तस्मा दिट्ठदिट्ठानं सीलं अदत्वा याचन्तानञ्ञेव देहीति.
तं सुत्वा आचरियो ‘‘युत्तं वदति कोरण्डियो, इदानि न एवरूपं करिस्सामी’’ति अत्तनो विरद्धभावं ञत्वा पञ्चमं गाथमाह –
३८. ‘‘संखित्तरूपेन भवं ममत्थं, अक्खासि कोरण्डिय एवमेतं;
यथा न सक्का पथवी समायं, कत्तुं मनुस्सेन तथा मनुस्सा’’ति.