६. तण्हुप्पादसुत्तवण्णना

१०५. छट्ठे तण्हुप्पादाति एत्थ उप्पज्जति एतेसूति उप्पादा. का उप्पज्जति? तण्हा. तण्हाय उप्पादा तण्हुप्पादा, तण्हावत्थूनि तण्हाकारणानीति अत्थो. यत्थाति येसु निमित्तभूतेसु. उप्पज्जमानाति उप्पज्जनसीला. चीवरहेतूति ‘‘कत्थ मनापं चीवरं लभिस्सामी’’ति चीवरकारणा उप्पज्जति. सेसपदेसुपि एसेव नयो. इतिभवाभवहेतूति एत्थ पन इतीति निदस्सनत्थे निपातो. यथा चीवरादिहेतु, एवं भवाभवहेतुपीति अत्थो. भवाभवाति चेत्थ पणीतप्पणीतानि सप्पिनवनीतादीनि अधिप्पेतानि भवति आरोग्यं एतेनाति कत्वा. ‘‘सम्पत्तिभवेसु पणीतप्पणीततरो भवाभवो’’तिपि वदन्ति. भवोति वा सम्पत्ति, अभवोति विपत्ति. भवोति वुड्ढि, अभवोति हानि. तं निमित्तञ्च तण्हा उप्पज्जतीति वुत्तं ‘‘भवाभवहेतु वा’’ति.

गाथा हेट्ठा वुत्तत्था एव. अपिच तण्हादुतियोति तण्हासहायो. अयञ्हि सत्तो अनमतग्गे संसारवट्टे संसरन्तो न एककोव संसरति, तण्हं पन दुतियिकं सहायिकं लभित्वाव संसरति. तथा हि तं पपातपातं अचिन्तेत्वा मधुगण्हनकलुद्दकं विय अनेकादीनवाकुलेसुपि भवेसु आनिसंसमेव दस्सेन्ती अनत्थजाले सा परिब्भमापेति. एतमादीनवं ञत्वाति एतं अतीतानागतपच्चुप्पन्नेसु खन्धेसु इत्थभावञ्ञथाभावसञ्ञितं आदीनवं जानित्वा. तण्हं दुक्खस्स सम्भवन्ति ‘‘तण्हा चायं वट्टदुक्खस्स सम्भवो पभवो कारण’’न्ति जानित्वा. एत्तावता च एकस्स भिक्खुनो विपस्सनं वड्ढेत्वा अरहत्तुप्पत्ति दस्सिता. इदानि तं खीणासवं थोमेन्तो ‘‘वीततण्हो’’तिआदिमाह. यं पनेत्थ अवुत्तं, तं हेट्ठा वुत्तनयमेव.

छट्ठसुत्तवण्णना निट्ठिता.