५. सीलसम्पन्नसुत्तवण्णना
१०४. पञ्चमे सीलसम्पन्नाति एत्थ सीलं नाम खीणासवानं लोकियलोकुत्तरसीलं, तेन सम्पन्ना समन्नागताति सीलसम्पन्ना. समाधिपञ्ञासुपि एसेव नयो. विमुत्ति पन फलविमुत्तियेव, विमुत्तिञाणदस्सनं पच्चवेक्खणञाणं. एवमेत्थ सीलादयो तयो लोकियलोकुत्तरा, विमुत्ति लोकुत्तराव, विमुत्तिञाणदस्सनं लोकियमेव. दिट्ठधम्मिकसम्परायिकपरमत्थेहि यथारहं परे ओवदन्ति अनुसासन्तीति ओवादका. विञ्ञापकाति कम्मानि कम्मफलानि च, विञ्ञापका, तत्थ च ‘‘इमे धम्मा कुसला, इमे धम्मा अकुसला. इमे धम्मा सावज्जा, इमे धम्मा अनवज्जा’’तिआदिना कुसलादिविभागतो खन्धादिविभागतो सलक्खणतो सामञ्ञलक्खणतोति विविधेहि नयेहि धम्मानं ञापका अवबोधका. सन्दस्सकाति तेयेव धम्मे हत्थेन गहेत्वा विय परस्स पच्चक्खतो दस्सेतारो. समादपकाति यं सीलादि येहि असमादिन्नं, तस्स समादापेतारो, तत्थ ते पतिट्ठापेतारो. समुत्तेजकाति एवं कुसलधम्मेसु पतिट्ठितानं उपरि अधिचित्तानुयोगे नियोजनवसेन चित्तस्स सम्मा उत्तेजका, यथा विसेसाधिगमो होति, एवं निसामनवसेन तेजका. सम्पहंसकाति तेसं यथालद्धेहि उपरिलद्धब्बेहि च गुणविसेसेहि चित्तस्स सम्मा पहंसका, लद्धस्सादवसेन सुट्ठु तोसका. अलंसमक्खातारोति अलं परियत्तं यथावुत्तं अपरिहापेत्वा सम्मदेव अनुग्गहाधिप्पायेन अक्खातारो.
अथ वा सन्दस्सकाति धम्मं देसेन्ता पवत्तिनिवत्तियो सभावसरसलक्खणतो सम्मदेव दस्सेतारो. समादपकाति चित्ते पतिट्ठापनवसेन तस्सेव अत्थस्स गाहापका. समुत्तेजकाति तदत्थग्गहणे उस्साहजननेन सम्मदेव वोदपका जोतका वा. सम्पहंसकाति तदत्थपटिपत्तियं आनिसंसदस्सनेन सम्मदेव पहंसका तोसका. अलंसमक्खातारोति समत्था हुत्वा वुत्तनयेन समक्खातारो. सद्धम्मस्साति पटिवेधसद्धम्मस्स, तिविधस्सापि वा सद्धम्मस्स देसेतारो.
दस्सनम्पहन्ति दस्सनम्पि अहं. तं पनेतं चक्खुदस्सनं ञाणदस्सनन्ति दुविधं. तत्थ पसन्नेहि चक्खूहि अरियानं ओलोकनं चक्खुदस्सनं नाम. अरियभावकरानं पन धम्मानं अरियभावस्स च विपस्सनामग्गफलेहि अधिगमो ञाणदस्सनं नाम. इमस्मिं पनत्थे चक्खुदस्सनं अधिप्पेतं. अरियानञ्हि पसन्नेहि चक्खूहि ओलोकनम्पि सत्तानं बहूपकारमेव. सवनन्ति ‘‘असुको नाम खीणासवो असुकस्मिं नाम रट्ठे वा जनपदे वा गामे वा निगमे वा विहारे वा लेणे वा वसती’’ति कथेन्तानं सोतेन सवनं, एतम्पि बहूपकारमेव. उपसङ्कमनन्ति ‘‘दानं वा दस्सामि, पञ्हं वा पुच्छिस्सामि, धम्मं वा सोस्सामि, सक्कारं वा करिस्सामी’’ति एवरूपेन चित्तेन अरियानं उपसङ्कमनं. पयिरुपासनन्ति पञ्हपयिरुपासनं, अरियानं गुणे सुत्वा ते उपसङ्कमित्वा निमन्तेत्वा दानं वा दत्वा वत्तं वा कत्वा ‘‘किं, भन्ते, कुसल’’न्तिआदिना नयेन पञ्हपुच्छनन्ति अत्थो. वेय्यावच्चादिकरणं पयिरुपासनंयेव. अनुस्सरणन्ति रत्तिट्ठानदिवाट्ठानेसु निसिन्नस्स ‘‘इदानि अरिया गुम्बलेणमण्डपादीसु झानविपस्सनामग्गफलसुखेहि वीतिनामेन्ती’’ति तेसं दिब्बविहारादिगुणविसेसारम्मणं अनुस्सरणं. यो वा तेसं सन्तिका ओवादो लद्धो होति, तं आवज्जित्वा ‘‘इमस्मिं ठाने सीलं कथितं, इमस्मिं समाधि, इमस्मिं विपस्सना, इमस्मिं मग्गो, इमस्मिं फल’’न्ति एवं अनुस्सरणं.
अनुपब्बज्जन्ति अरियेसु चित्तं पसादेत्वा घरा निक्खम्म तेसं सन्तिके पब्बज्जं. अरियेसु हि चित्तं पसादेत्वा तेसंयेव सन्तिके पब्बजित्वा तेसंयेव ओवादानुसासनिं पच्चासीसमानस्स चरतोपि पब्बज्जा अनुपब्बज्जा नाम, अञ्ञेसं सन्तिके ओवादानुसासनिं पच्चासीसमानस्स चरतोपि पब्बज्जा अनुपब्बज्जा नाम, अरियेसु पसादेन अञ्ञत्थ पब्बजित्वा अरियानं सन्तिके ओवादानुसासनिं पच्चासीसमानस्स चरतोपि पब्बज्जा अनुपब्बज्जाव. अञ्ञेसु पन पसादेन अञ्ञेसंयेव सन्तिके पब्बजित्वा अञ्ञेसंयेव ओवादानुसासनिं पच्चासीसमानस्स चरतो पब्बज्जा अनुपब्बज्जा नाम न होति. वुत्तनयेन पब्बजितेसु पन महाकस्सपत्थेरस्स ताव अनुपब्बज्जं पब्बजिता सतसहस्समत्ता अहेसुं, तथा थेरस्सेव सद्धिविहारिकस्स चन्दगुत्तत्थेरस्स, तस्सापि सद्धिविहारिकस्स सूरियगुत्तत्थेरस्स, तस्सापि सद्धिविहारिकस्स अस्सगुत्तत्थेरस्स, तस्सापि सद्धिविहारिकस्स योनकधम्मरक्खितत्थेरस्स. तस्स पन सद्धिविहारिको असोकरञ्ञो कनिट्ठभाता तिस्सत्थेरो नाम अहोसि. तस्स अनुपब्बज्जं पब्बजिता अड्ढतेय्यकोटिसङ्खा अहेसुं. दीपप्पसादकमहामहिन्दत्थेरस्स पन अनुपब्बजितानं गणनपरिच्छेदो नत्थि. यावज्जदिवसा लङ्कादीपे सत्थरि पसादेन पब्बजन्ता महामहिन्दत्थेरस्सेव अनुपब्बज्जन्ति नाम.
इदानि येन कारणेन तेसं अरियानं दस्सनादि बहूपकारन्ति वुत्तं, तं दस्सेतुं ‘‘तथारूपे’’तिआदिमाह. तत्थ तथारूपेति तादिसे सीलादिगुणसम्पन्ने अरिये. यस्मा दस्सनसवनानुस्सरणानि उपसङ्कमनपयिरुपासनट्ठानानि, तस्मा तानि अनामसित्वा उपसङ्कमनपयिरुपासनानियेव दस्सेतुं ‘‘सेवतो भजतो पयिरुपासतो’’ति वुत्तं. दस्सनसवनानुस्सरणतो हि अरियेसु उप्पन्नसद्धो ते उपसङ्कमित्वा पयिरुपासित्वा पञ्हं पुच्छित्वा लद्धसवनानुत्तरियो अपरिपूरे सीलादिगुणे परिपूरेस्सतीति. तथा हि वुत्तं ‘‘सद्धाजातो उपसङ्कमति, उपसङ्कमन्तो पयिरुपासती’’तिआदि (म. नि. २.१८३).
तत्थ सेवतोति वत्तपटिवत्तकरणवसेन कालेन कालं उपसङ्कमतो. भजतोति सम्पियायनभत्तिवसेन भजतो. पयिरुपासतोति पञ्हपुच्छनेन पटिपत्तिअनुकरणेन च पयिरुपासतोति तिण्णं पदानं अत्थविभागो दीपेतब्बो. विमुत्तिञाणदस्सनस्स पारिपूरि एकूनवीसतिमस्स पच्चवेक्खणञाणस्स उप्पत्तिया वेदितब्बा.
एवरूपा च ते, भिक्खवे, भिक्खूतिआदीसु ये यथावुत्तगुणसमन्नागमेन एवरूपा एदिसा भिन्नसब्बकिलेसा भिक्खू, ते दिट्ठधम्मिकादिहितेसु सत्तानं नियोजनवसेन अनुसासनतो सत्थारोतिपि वुच्चन्ति. जातिकन्तारादिनित्थरणतो सत्थवाहातिपि, रागादिरणानं जहनतो जहापनतो च रणञ्जहातिपि, अविज्जातमस्स विनोदनतो विनोदापनतो च तमोनुदातिपि, सपरसन्तानेसु पञ्ञाआलोकपञ्ञाओभासपञ्ञापज्जोतानं करणेन निब्बत्तनेन आलोकादिकरातिपि, तथा ञाणुक्काञाणप्पभाधम्मुक्काधम्मप्पभानं धारणेन करणेन च उक्काधारातिपि, पभङ्करातिपि, आरकत्ता किलेसेहि, अनये न इरियनतो, अये च इरियनतो परेसं तथाभावहेतुभावतो, सदेवकेन लोकेन अरणीयतो अरियातिपि, पञ्ञाचक्खुधम्मचक्खूनं सातिसयपटिलाभेन चक्खुमन्तोतिपि वुच्चन्ति.
गाथासु पामोज्जकरणं ठानन्ति निरामिसस्स पमोदस्स निब्बत्तकं ठानं कारणं. एतन्ति इदानि वत्तब्बनिदस्सनं सन्धाय वदति. विजानतन्ति संकिलेसवोदाने याथावतो जानन्तानं. भावितत्तानन्ति भावितसभावानं, कायभावनादीहि भावितसन्तानानन्ति अत्थो. धम्मजीविनन्ति मिच्छाजीवं पहाय धम्मेन ञायेन जीविककप्पनतो, धम्मेन वा ञायेन अत्तभावस्स पवत्तनतो, समापत्तिबहुलताय वा अग्गफलधम्मेन जीवनतो धम्मजीविनं. अयञ्हेत्थ सङ्खेपत्थो – यदिदं भावितत्तानं परिनिट्ठितसमाधिपञ्ञाभावनानं ततो एव धम्मजीविनं अरियानं दस्सनं. एतं अविप्पटिसारनिमित्तानं सीलादीनं पारिपूरिहेतुभावतो विजानतं सप्पञ्ञजातिकानं एकन्तेनेव पीतिपामोज्जकारणन्ति.
इदानि तं तस्स कारणभावं दस्सेतुं ‘‘ते जोतयन्ती’’ति ओसानगाथाद्वयमाह. तत्थ तेति ते भावितत्ता धम्मजीविनो अरिया. जोतयन्तीति पकासयन्ति. भासयन्तीति सद्धम्मोभासेन लोकं पभासयन्ति, धम्मं देसेन्तीति अत्थो. येसन्ति येसं अरियानं. सासनन्ति ओवादं. सम्मदञ्ञायाति पुब्बभागञाणेहि सम्मदेव जानित्वा. सेसं वुत्तनयमेव.
पञ्चमसुत्तवण्णना निट्ठिता.