७-८. आसवसुत्तद्वयवण्णना
५६-५७. सत्तमे कामासवोति कामेसु आसवो, कामसङ्खातो वा आसवो कामासवो, अत्थतो पन कामरागो रूपादिअभिरति च कामासवो. रूपारूपभवेसु छन्दरागो झाननिकन्ति सस्सतदिट्ठिसहगतो रागो भवपत्थना च भवासवो. अविज्जाव अविज्जासवो.
आसवानञ्च सम्भवन्ति एत्थ अयोनिसोमनसिकारो अविज्जादयो च किलेसा आसवानं सम्भवो. वुत्तञ्हेतं –
‘‘अयोनिसो, भिक्खवे, मनसिकरोतो अनुप्पन्ना चेव आसवा उप्पज्जन्ति, उप्पन्ना च आसवा पवड्ढन्ती’’ति (म. नि. १.१५).
‘‘अविज्जा, भिक्खवे, पुब्बङ्गमा अकुसलानं धम्मानं समापत्तिया अन्वदेव अहिरिकं अनोत्तप्प’’न्ति (इतिवु. ४०) च.
मग्गञ्च खयगामिनन्ति आसवानं खयगामिनं अरियमग्गञ्च. तत्थ कामासवो अनागामिमग्गेन पहीयति, भवासवो अविज्जासवो च अरहत्तमग्गेन. कामुपादानं विय कामासवोपि अग्गमग्गवज्झोति च वदन्ति. सेसं वुत्तनयमेव. अट्ठमे अपुब्बं नत्थि.
सत्तमअट्ठमसुत्तवण्णना निट्ठिता.