८. पटिसल्लानसुत्तवण्णना
४५. अट्ठमे पटिसल्लानरामाति तेहि तेहि सत्तसङ्खारेहि पटिनिवत्तित्वा सल्लानं पटिसल्लानं, एकविहारो एकमन्तसेविता, कायविवेकोति अत्थो. तं पटिसल्लानं रमन्ति रोचन्तीति पटिसल्लानरामा. ‘‘पटिसल्लानारामा’’तिपि पाठो. यथा वुत्तं पटिसल्लानं आरमितब्बतो आरामो एतेसन्ति पटिसल्लानारामा. विहरथाति एवंभूता हुत्वा विहरथाति अत्थो. पटिसल्लाने रता निरता सम्मुदिताति पटिसल्लानरता. एत्तावता जागरियानुयोगो, तस्स निमित्तभूता वूपकट्ठकायता च दस्सिता. जागरियानुयोगो, सीलसंवरो, इन्द्रियेसु, गुत्तद्वारता, भोजने मत्तञ्ञुता, सतिसम्पजञ्ञन्ति इमेहि धम्मेहि विना न वत्ततीति तेपि इध अत्थतो वुत्ता एवाति वेदितब्बा.
अज्झत्तं चेतोसमथमनुयुत्ताति अत्तनो चित्तसमथे अनुयुत्ता. अज्झत्तं अत्तनोति च एतं एकत्थं, ब्यञ्जनमेव नानं. भुम्मत्थे चेतं समथन्ति अनुसद्दयोगेन उपयोगवचनं. अनिराकतज्झानाति बहि अनीहतज्झाना अविनासितज्झाना वा. नीहरणं विनासो वाति इदं निराकतं नाम ‘‘थम्भं निरंकत्वा निवातवुत्ती’’तिआदीसु (सु. नि. ३२८) विय. विपस्सनाय समन्नागताति सत्तविधाय अनुपस्सनाय युत्ता. सत्तविधा अनुपस्सना नाम अनिच्चानुपस्सना, दुक्खानुपस्सना, अनत्तानुपस्सना, निब्बिदानुपस्सना, विरागानुपस्सना, निरोधानुपस्सना, पटिनिस्सग्गानुपस्सना च, ता विसुद्धिमग्गे वित्थारिताव.
ब्रूहेतारो सुञ्ञागारानन्ति वड्ढेतारो सुञ्ञागारानं. एत्थ च ‘‘सुञ्ञागारान’’न्ति यंकिञ्चि विवित्तं भावनानुयोगस्स अनुच्छविकट्ठानं. समथविपस्सनावसेन कम्मट्ठानं गहेत्वा रत्तिन्दिवं सुञ्ञागारं पविसित्वा भावनानुयोगवसेन निसीदमाना भिक्खू ‘‘ब्रूहेतारो सुञ्ञागारान’’न्ति वेदितब्बा. एकभूमिकादिपासादेपि पन वासं कुरुमाना झायिनो सुञ्ञागारानं ब्रूहेतारोत्वेव वेदितब्बा.
एत्थ च या ‘‘पटिसल्लानरामा, भिक्खवे, विहरथ पटिसल्लानरता’’ति वूपकट्ठकायता विहिता, सा परिसुद्धसीलस्स, न असीलस्स अविसुद्धसीलस्स वा तस्स रूपारम्मणादितो चित्तविनिवत्तनस्सेव अभावतोति अत्थतो सीलविसुद्धि दस्सिताति वुत्तोवायमत्थो. ‘‘अज्झत्तं चेतोसमथमनुयुत्ता अनिराकतज्झाना’’ति पदद्वयेन समाधिभावना, ‘‘विपस्सनाय समन्नागता’’ति इमिना पञ्ञाभावना विहिताति लोकिया तिस्सो सिक्खा दस्सिता.
इदानि तासु पतिट्ठितस्स अवस्संभाविफलं दस्सेतुं ‘‘पटिसल्लानरामान’’न्तिआदि वुत्तं. तत्थ ब्रूहेतानन्ति वड्ढेतानं. द्विन्नं फलानन्ति ततियचतुत्थफलानं. पाटिकङ्खन्ति इच्छितब्बं अवस्संभावी. अञ्ञाति अरहत्तं. तञ्हि हेट्ठिममग्गञाणेहि ञातमरियादं अनतिक्कमित्वा जाननतो परिपुण्णजाननत्ता उपरि जाननकिच्चाभावतो च ‘‘अञ्ञा’’ति वुच्चति. सति वा उपादिसेसेति सति वा किलेसूपादिसेसे, पहातुं असक्कुणेय्ये सति. ञाणे हि अपरिपक्के ये तेन परिपक्केन पहातब्बकिलेसा, ते न पहीयन्ति. तं सन्धायाह ‘‘सति वा उपादिसेसे’’ति. सति च किलेसे खन्धाभिसङ्खारा तिट्ठन्ति एव. इति इमस्मिं सुत्ते अनागामिफलं अरहत्तन्ति द्वे धम्मा दस्सिता. यथा चेत्थ, एवं इतो परेसु द्वीसु सुत्तेसु.
गाथासु ये सन्तचित्ताति ये योगावचरा तदङ्गवसेन विक्खम्भनवसेव च समितकिलेसताय सन्तचित्ता. नेपक्कं वुच्चति पञ्ञा, ताय समन्नागतत्ता निपका. इमिना तेसं कम्मट्ठानपरिहरणञाणं दस्सेति. सतिमन्तो च झायिनोति ठाननिसज्जादीसु कम्मट्ठानाविजहनहेतुभूताय सतिया सतिमन्तो, आरम्मणूपनिज्झानलक्खणेन झानेन झायिनो. सम्मा धम्मं विपस्सन्ति, कामेसु अनपेक्खिनोति पुब्बेयेव ‘‘अट्ठिकङ्कलूपमा कामा’’तिआदिना (म. नि. १.२३४; पाचि. ४१७) वत्थुकामेसु किलेसकामेसु च आदीनवपच्चवेक्खणेन अनपेक्खिनो अनत्थिका ते पहाय अधिगतं उपचारसमाधिं अप्पनासमाधिं वा पादकं कत्वा नामरूपं तस्स पच्चये च परिग्गहेत्वा कलापसम्मसनादिक्कमेन सम्मा अविपरीतं पञ्चक्खन्धधम्मं अनिच्चादितो विपस्सन्ति.
अप्पमादरताति वुत्तप्पकाराय समथविपस्सनाभावनाय अप्पमज्जने रता अभिरता तत्थ अप्पमादेनेव रत्तिन्दिवं वीतिनामेन्ता. सन्ताति समाना. ‘‘सत्ता’’तिपि पाठो, पुग्गलाति अत्थो. पमादे भयदस्सिनोति निरयूपपत्तिआदिकं पमादे भयं पस्सन्ता. अभब्बा परिहानायाति ते एवरूपा समथविपस्सनाधम्मेहि मग्गफलेहि वा परिहानाय अभब्बा. समथविपस्सनातो हि सम्पत्ततो न परिहायन्ति, इतरानि च अप्पत्तानि पापुणन्ति. निब्बानस्सेव सन्तिकेति निब्बानस्स च अनुपादापरिनिब्बानस्स च सन्तिके एव, न चिरस्सेव नं अधिगमिस्सन्तीति.
अट्ठमसुत्तवण्णना निट्ठिता.