९. सिक्खानिसंससुत्तवण्णना
४६. नवमे सिक्खानिसंसाति एत्थ सिक्खितब्बाति सिक्खा, सा तिविधा अधिसीलसिक्खा, अधिचित्तसिक्खा, अधिपञ्ञासिक्खाति. तिविधापि चेसा सिक्खा आनिसंसा एतेसं, न लाभसक्कारसिलोकाति सिक्खानिसंसा. विहरथाति सिक्खानिसंसा हुत्वा विहरथ, तीसु सिक्खासु आनिसंसदस्साविनो हुत्वा ताहि सिक्खाहि लद्धब्बं आनिसंसमेव सम्पस्सन्ता विहरथाति अत्थो. पञ्ञुत्तराति तासु सिक्खासु या अधिपञ्ञासिक्खासङ्खाता पञ्ञा, सा उत्तरा पधाना विसिट्ठा एतेसन्ति पञ्ञुत्तरा. ये हि सिक्खानिसंसा विहरन्ति, ते पञ्ञुत्तरा भवन्तीति. विमुत्तिसाराति अरहत्तफलसङ्खाता विमुत्ति सारं एतेसन्ति विमुत्तिसारा, यथावुत्तं विमुत्तिंयेव सारतो गहेत्वा ठिताति अत्थो. ये हि सिक्खानिसंसा पञ्ञुत्तरा च, न ते भवविसेसं पत्थेन्ति, अपिच खो विभवं आकङ्खन्ता विमुत्तिंयेव सारतो पच्चेन्ति. सताधिपतेय्याति जेट्ठककरणट्ठेन सति अधिपतेय्यं एतेसन्ति सताधिपतेय्या अधिपति एव अधिपतेय्यन्ति कत्वा, चतूसु सतिपट्ठानेसु सुप्पतिट्ठितचित्ता कायानुपस्सनादिमुखेन समथविपस्सनाभावनानुयुत्ताति अत्थो.
अथ वा सिक्खानिसंसाति भिक्खवे, एवरूपे दुल्लभक्खणपटिलाभे तिविधसिक्खासिक्खनमेव आनिसंसं कत्वा विहरथ, एवं विहरन्ता च पञ्ञुत्तरा पञ्ञाय उत्तरा लोकुत्तरपञ्ञाय समन्नागता हुत्वा विहरथ, एवंभूता च विमुत्तिसारा निब्बानसारा अनञ्ञसारा विहरथ. तथाभावस्स चायं उपायो, यं सताधिपतेय्या विहरथ, सतिपट्ठानभावनाय युत्तप्पयुत्ता होथ, सब्बत्थ वा सतारक्खेन चेतसा विहरथाति एवमेत्थ अत्थो वेदितब्बो. इति भगवा तीसु सिक्खासु भिक्खू नियोजेन्तो यथा ता सिक्खितब्बा, येन च पारिपूरिं गच्छन्ति, तं सङ्खेपेनेव दस्सेत्वा इदानि यथानुसिट्ठं पटिपज्जमानानं फलविसेसदस्सनेन तस्सा पटिपत्तिया अमोघभावं पकासेन्तो ‘‘सिक्खानिसंसान’’न्तिआदिमाह. तं वुत्तत्थमेव.
गाथासु परिपुण्णसिक्खन्ति अग्गफलप्पत्तिया परिसुद्धसिक्खं, असेक्खन्ति अत्थो. अपहानधम्मन्ति एत्थ पहानधम्मा वुच्चन्ति कुप्पा विमुत्तियो. पहानधम्मोति हि हानधम्मो कुप्पधम्मो. न पहानधम्मोति अपहानधम्मो, अकुप्पधम्मो. ‘‘अप्पहानधम्मो’’तिपि पाळि, सो एव अत्थो. खयो एव अन्तोति खयन्तो, जातिया खयन्तो जातिखयन्तो, निब्बानं. खयो वा मरणं, जातिखयन्तो निब्बानमेव, तस्स दिट्ठत्ता जातिखयन्तदस्सी.
तस्माति यस्मा सिक्खापारिपूरिया अयं जरापारङ्गमनपरियोसानो आनिसंसो, तस्मा. सदाति सब्बकालं. झानरताति लक्खणूपनिज्झाने, आरम्मणूपनिज्झानेति दुविधेपि झाने रता, ततो एव समाहिता. मारं ससेनं अभिभुय्याति किलेससेनाय अनट्ठसेनाय च ससेनं अनवसिट्ठं चतुब्बिधम्पि मारं अभिभवित्वा. देवपुत्तमारस्सपि हि गुणमारणे सहायभावूपगमनतो किलेसा ‘‘सेना’’ति वुच्चन्ति. तथा रोगादयो अनट्ठा मच्चुमारस्स. यथाह –
‘‘कामा ते पठमा सेना, दुतिया अरति वुच्चति;
ततिया खुप्पिपासा ते, चतुत्थी तण्हा पवुच्चति.
‘‘पञ्चमी थिनमिद्धं ते, छट्ठा भीरू पवुच्चति;
सत्तमी विचिकिच्छा ते, मक्खो थम्भो च अट्ठमो.
‘‘लाभो सिलोको सक्कारो, मिच्छालद्धो च यो यसो;
यो चत्तानं समुक्कंसे, परे च अवजानति.
‘‘एसा नमुचि ते सेना, कण्हस्साभिप्पहारिनी;
न नं असूरो जिनाति, जेत्वा च लभते सुख’’न्ति. (सु. नि. ४३८-४४१; महानि. २८);
यथा चाह –
‘‘अज्जेव किच्चमातप्पं, को जञ्ञा मरणं सुवे;
न हि नो सङ्गरं तेन, महासेनेन मच्चुना’’ति. (म. नि. ३.२८०; जा. २.२२.१२१);
भवथ जातिमरणस्स पारगाति जातिया मरणस्स च पारगामिनो निब्बानगामिनो भवथाति.
नवमसुत्तवण्णना निट्ठिता.