९. दुतियनकुहनसुत्तवण्णना

३६. नवमे अभिञ्ञत्थन्ति कुसलादिविभागेन खन्धादिविभागेन च सब्बधम्मे अभिविसिट्ठेन ञाणेन अविपरीततो जाननत्थं. परिञ्ञत्थन्ति तेभूमकधम्मे ‘‘इदं दुक्ख’’न्तिआदिना परिजाननत्थं समतिक्कमनत्थञ्च. तत्थ अभिञ्ञेय्यअभिजानना चतुसच्चविसया. परिञ्ञेय्यपरिजानना पन यदिपि दुक्खसच्चविसया, पहानसच्छिकिरियाभावनाभिसमयेहि पन विना न पवत्ततीति पहानादयोपि इध गहिताति वेदितब्बं. सेसं अनन्तरसुत्ते वुत्तत्थमेव.

नवमसुत्तवण्णना निट्ठिता.