३. ततियवग्गो

१. पसन्नचित्तसुत्तवण्णना

२१. ततियवग्गस्स पठमे पसन्नचित्तन्ति रतनत्तयसद्धाय कम्मफलसद्धाय च पसन्नमानसं. सुगतिन्ति सुन्दरं गतिं, सुखस्स वा गतिन्ति सुगतिं. सग्गन्ति रूपादिसम्पत्तीहि सुट्ठु अग्गन्ति सग्गं. लोकन्ति लोकियन्ति एत्थ पुञ्ञपापफलानि, लुज्जनट्ठेनेव वा लोकं. एत्थ च सुगतिग्गहणेन मनुस्सगतिपि सङ्गय्हति, सग्गग्गहणेन देवगति एव. सेसं हेट्ठा वुत्तनयमेव.

पठमसुत्तवण्णना निट्ठिता.

२. मेत्तसुत्तवण्णना

२२. दुतिये मा, भिक्खवे, पुञ्ञानन्ति एत्थ माति पटिसेधे निपातो. पुञ्ञसद्दो ‘‘कुसलानं, भिक्खवे, धम्मानं समादानहेतु एवमिदं पुञ्ञं पवड्ढती’’तिआदीसु (दी. नि. ३.३८०) पुञ्ञफले आगतो. ‘‘अविज्जागतोयं, भिक्खवे, पुरिसपुग्गलो पुञ्ञञ्चे सङ्खारं अभिसङ्खरोती’’तिआदीसु (सं. नि. २.५१) कामरूपावचरसुचरिते. ‘‘पुञ्ञूपगं भवति विञ्ञाण’’न्तिआदीसु सुगतिविसेसभूते उपपत्तिभवे. ‘‘तीणिमानि, भिक्खवे, पुञ्ञकिरियवत्थूनि – दानमयं पुञ्ञकिरियवत्थु, सीलमयं पुञ्ञकिरियवत्थु, भावनामयं पुञ्ञकिरियवत्थू’’तिआदीसु (इतिवु. ६०; अ. नि. ८.३६) कुसलचेतनायं. इध पन तेभूमककुसलधम्मे वेदितब्बो. भायित्थाति एत्थ दुविधं भयं ञाणभयं, सारज्जभयन्ति. तत्थ ‘‘येपि ते, भिक्खवे, देवा दीघायुका वण्णवन्तो सुखबहुला उच्चेसु विमानेसु चिरट्ठितिका, तेपि तथागतस्स धम्मदेसनं सुत्वा येभुय्येन भयं संवेगं सन्तासं आपज्जन्ती’’तिआदीसु (अ. नि. ४.३३) आगतं ञाणभयं. ‘‘अहुदेव भयं, अहु छम्भितत्तं, अहु लोमहंसो’’तिआदीसु (दी. नि. २.३१८) आगतं सारज्जभयं. इधापि सारज्जभयमेव. अयञ्हेत्थ अत्थो – भिक्खवे, दीघरत्तं कायवचीसंयमो वत्तपटिवत्तपूरणं एकासनं, एकसेय्यं, इन्द्रियदमो, धुतधम्मेहि चित्तस्स निग्गहो, सतिसम्पजञ्ञं, कम्मट्ठानानुयोगवसेन वीरियारम्भोति एवमादीनि यानि भिक्खुना, निरन्तरं पवत्तेतब्बानि पुञ्ञानि, तेहि मा भायित्थ, मा भयं सन्तासं आपज्जित्थ, एकच्चस्स दिट्ठधम्मसुखस्स उपरोधभयेन सम्परायिकनिब्बानसुखदायकेहि पुञ्ञेहि मा भायित्थाति. निस्सक्के हि इदं सामिवचनं.

इदानि ततो अभायितब्बभावे कारणं दस्सेन्तो ‘‘सुखस्सेत’’न्तिआदिमाह. तत्थ सुखसद्दो ‘‘सुखो बुद्धानं उप्पादो, सुखा विरागता लोके’’तिआदीसु (ध. प. १९४) सुखमूले आगतो. ‘‘यस्मा च खो, महालि, रूपं सुखं सुखानुपतितं सुखावक्कन्त’’न्तिआदीसु (सं. नि. ३.६०) सुखारम्मणे. ‘‘यावञ्चिदं, भिक्खवे, न सुकरं अक्खानेन पापुणितुं याव सुखा सग्गा’’तिआदीसु (म. नि. ३.२५५) सुखपच्चयट्ठाने. ‘‘सुखो पुञ्ञस्स उच्चयो’’तिआदीसु (ध. प. ११८) सुखहेतुम्हि. ‘‘दिट्ठधम्मसुखविहारा एते धम्मा’’तिआदीसु (म. नि. १.८२) अब्यापज्जे. ‘‘निब्बानं परमं सुख’’न्तिआदीसु (ध. प. २०४; म. नि. २.२१५) निब्बाने. ‘‘सुखस्स च पहाना’’तिआदीसु (चूळनि. खग्गविसाणसुत्तनिद्देस १२५) सुखवेदनायं. ‘‘अदुक्खमसुखं सन्तं, सुखमिच्चेव भासित’’न्तिआदीसु (सं. नि. ४.२५३; इतिवु. ५३) उपेक्खावेदनायं. ‘‘द्वेपि मया, आनन्द, वेदना वुत्ता परियायेन सुखा वेदना, दुक्खा वेदना’’तिआदीसु (म. नि. २.८९) इट्ठसुखे. ‘‘सुखो विपाको पुञ्ञान’’न्तिआदीसु (पेटको. २३) सुखविपाके. इधापि इट्ठविपाके एव दट्ठब्बो. इट्ठस्सातिआदीसु एसितब्बतो अनिट्ठपटिक्खेपतो च इट्ठस्स, कमनीयतो मनस्मिञ्च कमनतो पविसनतो कन्तस्स, पियायितब्बतो सन्तप्पनतो च पियस्स, माननीयतो मनस्स पवड्ढनतो च मनापस्साति अत्थो वेदितब्बो. यदिदं पुञ्ञानीति ‘‘पुञ्ञानी’’ति यदिदं वचनं, एतं सुखस्स इट्ठस्स विपाकस्स अधिवचनं नामं, सुखमेव तं यदिदं पुञ्ञन्ति फलेन कारणस्स अभेदूपचारं वदति. तेन कतूपचितानं पुञ्ञानं अवस्संभाविफलं सुत्वा अप्पमत्तेन सक्कच्चं पुञ्ञानि कातब्बानीति पुञ्ञकिरियायं नियोजेति, आदरञ्च नेसं तत्थ उप्पादेति.

इदानि अत्तना सुनेत्तकाले कतेन पुञ्ञकम्मेन दीघरत्तं पच्चनुभूतं भवन्तरपटिच्छन्नं उळारतमं पुञ्ञविपाकं उदाहरित्वा तमत्थं पाकटं करोन्तो ‘‘अभिजानामि खो पनाह’’न्तिआदिमाह. तत्थ अभिजानामीति अभिविसिट्ठेन ञाणेन जानामि, पच्चक्खतो बुज्झामि. दीघरत्तन्ति चिरकालं. पुञ्ञानन्ति दानादिकुसलधम्मानं. सत्त वस्सानीति सत्त संवच्छरानि. मेत्तचित्तन्ति मिज्जतीति मेत्ता, सिनिय्हतीति अत्थो. मित्ते भवा, मित्तस्स वा एसा पवत्तीतिपि मेत्ता. लक्खणादितो पन हिताकारप्पवत्तिलक्खणा, हितूपसंहाररसा, आघातविनयपच्चुपट्ठाना, सत्तानं मनापभावदस्सनपदट्ठाना. ब्यापादूपसमो एतिस्सा सम्पत्ति, सिनेहासम्भवो विपत्ति. सा एतस्स अत्थीति मेत्तचित्तं. भावेत्वाति मेत्तासहगतं चित्तं, चित्तसीसेन समाधि वुत्तोति मेत्तासमाधिं मेत्ताब्रह्मविहारं उप्पादेत्वा चेव वड्ढेत्वा च. सत्त संवट्टविवट्टकप्पेति सत्त महाकप्पे. संवट्ट-विवट्टग्गहणेनेव हि संवट्टट्ठायि-विवट्टट्ठायिनोपि गहिता. इमं लोकन्ति कामलोकं. संवट्टमाने सुदन्ति संवट्टमाने. सुदन्ति निपातमत्तं विनस्समानेति अत्थो. ‘‘संवत्तमाने सुद’’न्ति च पठन्ति. कप्पेति काले. कप्पसीसेन हि कालो वुत्तो. काले खीयमाने कप्पोपि खीयतेव. यथाह –

‘‘कालो घसति भूतानि, सब्बानेव सहत्तना’’ति. (जा. १.२.१९०);

‘‘आभस्सरूपगो होमी’’ति वुत्तत्ता तेजोसंवट्टवसेनेत्थ कप्पवुट्ठानं वेदितब्बं. आभस्सरूपगोति तत्थ पटिसन्धिग्गहणवसेन आभस्सरब्रह्मलोकं उपगच्छामीति आभस्सरूपगो होमि. विवट्टमानेति सण्ठहमाने, जायमानेति अत्थो. सुञ्ञं ब्रह्मविमानं उपपज्जामीति कस्सचि सत्तस्स तत्थ निब्बत्तस्स अभावतो सुञ्ञं, यं पठमज्झानभूमिसङ्खातं ब्रह्मविमानं आदितो निब्बत्तं, तं पटिसन्धिग्गहणवसेन उपपज्जामि उपेमि. ब्रह्माति कामावचरसत्तेहि सेट्ठट्ठेन तथा तथा ब्रूहितगुणताय ब्रह्मविहारतो निब्बत्तट्ठेन च ब्रह्मा. ब्रह्मपारिसज्जब्रह्मपुरोहितेहि महन्तो ब्रह्माति महाब्रह्मा. ततो एव ते अभिभवित्वा ठितत्ता अभिभू. तेहि केनचि गुणेन न अभिभूतोति अनभिभूतो. अञ्ञदत्थूति एकंसवचने निपातो. दसोति दस्सनसीलो, सो अतीतानागतपच्चुप्पन्नानं दस्सनसमत्थो, अभिञ्ञाणेन पस्सितब्बं पस्सामीति अत्थो. सेसब्रह्मानं इद्धिपादभावनाबलेन अत्तनो चित्तञ्च मम वसे वत्तेमीति वसवत्ती होमीति योजेतब्बं. तदा किर बोधिसत्तो अट्ठसमापत्तिलाभीपि समानो तथा सत्तहितं अत्तनो पारमिपरिपूरणञ्च ओलोकेन्तो तासु एव द्वीसु झानभूमीसु निकन्तिं उप्पादेत्वा मेत्ताब्रह्मविहारवसेन अपरापरं संसरि. तेन वुत्तं ‘‘सत्तवस्सानि…पे… वसवत्ती’’ति.

एवं भगवा रूपावचरपुञ्ञस्स विपाकमहन्ततं पकासेत्वा इदानि कामावचरपुञ्ञस्सापि तं दस्सेन्तो ‘‘छत्तिंसक्खत्तु’’न्तिआदिमाह. तत्थ सक्को अहोसिन्ति छत्तिंस वारे अञ्ञत्थ अनुपपज्जित्वा निरन्तरं सक्को देवानमिन्दो तावतिंसदेवराजा अहोसि. राजा अहोसिन्तिआदीसु चतूहि अच्छरियधम्मेहि चतूहि च सङ्गहवत्थूहि लोकं रञ्जेतीति राजा. चक्करतनं वत्तेति, चतूहि सम्पत्तिचक्केहि वत्तति, तेहि च परं वत्तेति, परहिताय च इरियापथचक्कानं वत्तो एतस्मिं अत्थीति चक्कवत्ती. राजाति चेत्थ सामञ्ञं, चक्कवत्तीति विसेसं. धम्मेन चरतीति धम्मिको. ञायेन समेन वत्ततीति अत्थो. धम्मेनेव रज्जं लभित्वा राजा जातोति धम्मराजा. परहितधम्मचरणेन वा धम्मिको, अत्तहितधम्मचरणेन धम्मराजा, चतुरन्ताय इस्सरोति चातुरन्तो, चतुसमुद्दन्ताय चतुब्बिधदीपविभूसिताय च पथविया इस्सरोति अत्थो. अज्झत्तं कोपादिपच्चत्थिके, बहिद्धा च सब्बराजानो अदण्डेन असत्थेन विजेसीति विजितावी. जनपदे थावरभावं धुवभावं पत्तो, न सक्का केनचि ततो चालेतुं जनपदो वा तम्हि थावरियप्पत्तो अनुयुत्तो सकम्मनिरतो अचलो असम्पवेधीति जनपदत्थावरियप्पत्तो.

चक्करतनं, हत्थिरतनं, अस्सरतनं, मणिरतनं, इत्थिरतनं, गहपतिरतनं, परिणायकरतनन्ति इमेहि सत्तहि रतनेहि समुपेतोति सत्तरतनसमन्नागतो. तेसु हि राजा चक्कवत्ति चक्करतनेन अजितं जिनाति, हत्थिअस्सरतनेहि विजिते सुखेनेव अनुविचरति, परिणायकरतनेन विजितमनुरक्खति, सेसेहि उपभोगसुखमनुभवति. पठमेन चस्स उस्साहसत्तियोगो, पच्छिमेन मन्तसत्तियोगो, हत्थिअस्सगहपतिरतनेहि पभूसत्तियोगो सुपरिपुण्णो होति, इत्थिमणिरतनेहि तिविधसत्तियोगफलं. सो इत्थिमणिरतनेहि परिभोगसुखमनुभवति, सेसेहि उपभोगसुखं. विसेसतो चस्स पुरिमानि तीणि अदोसकुसलमूलजनितकम्मानुभावेन सम्पज्जन्ति, मज्झिमानि अलोभकुसलमूलजनितकम्मानुभावेन, पच्छिममेकं अमोहकुसलमूलजनितकम्मानुभावेनाति वेदितब्बं पदेसरज्जस्साति खुद्दकरज्जस्स.

एतदहोसीति अत्तनो सम्पत्तियो पच्चवेक्खन्तस्स पच्छिमे चक्कवत्तिकाले एतं ‘‘किस्स नु खो मे इदं कम्मस्स फल’’न्तिआदिकं अहोसि. सब्बत्थकमेव तस्मिं तस्मिम्पि भवे एतदहोसियेव. तत्थायं चक्कवत्तिकालवसेन योजना. एवंमहिद्धिकोति मणिरतनहत्थिरतनादिप्पमुखाय कोसवाहनसम्पत्तिया जनपदत्थावरियप्पत्तिया च एवंमहिद्धिको. एवंमहानुभावोति चक्करतनादिसमन्नागमेन कस्सचिपि पीळं अकरोन्तोव सब्बराजूहि सिरसा सम्पटिच्छितसासनवेहासगमनादीहि एवं महानुभावो. दानस्साति अन्नादिदेय्यधम्मपरिच्चागस्स. दमस्साति चक्खादिइन्द्रियदमनस्स चेव समाधानवसेन रागादिकिलेसदमनस्स च. संयमस्साति कायवचीसंयमस्स. तत्थ यं समाधानवसेन किलेसदमनं, तं भावनामयं पुञ्ञं, तञ्च खो मेत्ताब्रह्मविहारभूतं इधाधिप्पेतं. तस्मिञ्च उपचारप्पनाभेदेन दुविधे यं अप्पनाप्पत्तं, तेनस्स यथावुत्तासु द्वीसु झानभूमीसु उपपत्ति अहोसि. इतरेन तिविधेनापि यथारहं पत्तचक्कवत्तिआदिभावोति वेदितब्बं.

इति भगवा अत्तानं कायसक्खि कत्वा पुञ्ञानं विपाकमहन्ततं पकासेत्वा इदानि तमेवत्थं गाथाबन्धेन दस्सेन्तो ‘‘पुञ्ञमेवा’’तिआदिमाह. तत्थ पुञ्ञमेव सो सिक्खेय्याति यो अत्थकामो कुलपुत्तो, सो पुञ्ञफलनिब्बत्तनतो, अत्तनो सन्तानं पुननतो च ‘‘पुञ्ञ’’न्ति लद्धनामं तिविधं कुसलमेव सिक्खेय्य निवेसेय्य उपचिनेय्य पसवेय्याति अत्थो. आयतग्गन्ति विपुलफलताय उळारफलताय आयतग्गं, पियमनापफलताय वा आयतिं उत्तमन्ति आयतग्गं, आयेन वा योनिसोमनसिकारादिप्पच्चयेन उळारतमेन अग्गन्ति आयतग्गं. तकारो पदसन्धिकरो. अथ वा आयेन पुञ्ञफलेन अग्गं पधानन्ति आयतग्गं. ततो एव सुखुद्रयं सुखविपाकन्ति अत्थो.

कतमं पन तं पुञ्ञं, कथञ्च नं सिक्खेय्याति आह ‘‘दानञ्च समचरियञ्च, मेत्तचित्तञ्च भावये’’ति. तत्थ समचरियन्ति कायविसमादीनि वज्जेत्वा कायसमादिचरितं, सुविसुद्धं सीलन्ति अत्थो. भावयेति अत्तनो सन्ताने उप्पादेय्य वड्ढेय्य. एते धम्मेति एते दानादिके सुचरितधम्मे. सुखसमुद्दयेति सुखानिसंसे, आनिसंसफलम्पि नेसं सुखमेवाति दस्सेति. अब्यापज्जं सुखं लोकन्ति कामच्छन्दादिब्यापादविरहितत्ता अब्यापज्जं निद्दुक्खं, परपीळाभावे पन वत्तब्बं नत्थि. झानसमापत्तिवसेन सुखबहुलत्ता सुखं, एकन्तसुखञ्च ब्रह्मलोकं झानपुञ्ञानं, इतरपुञ्ञानं पन तदञ्ञं सम्पत्तिभवसङ्खातं सुखं लोकं पण्डितो सप्पञ्ञो उपपज्जति उपेति. इति इमस्मिं सुत्ते गाथासु च वट्टसम्पत्ति एव कथिता.

दुतियसुत्तवण्णना निट्ठिता.

३. उभयत्थसुत्तवण्णना

२३. ततिये भावितोति उप्पादितो च वड्ढितो च. बहुलीकतोति पुनप्पुनं कतो. अत्थोति हितं. तञ्हि अरणीयतो उपगन्तब्बतो अत्थोति वुच्चति. समधिगय्ह तिट्ठतीति सम्मा परिग्गहेत्वा अविजहित्वा वत्तति. दिट्ठधम्मिकन्ति दिट्ठधम्मो वुच्चति पच्चक्खभूतो अत्तभावो, दिट्ठधम्मे भवं दिट्ठधम्मिकं, इधलोकपरियापन्नन्ति अत्थो. सम्परायिकन्ति धम्मवसेन सम्परेतब्बतो सम्परायो, परलोको, सम्पराये भवं सम्परायिकं, परलोकपरियापन्नन्ति वुत्तं होति.

को पनेस दिट्ठधम्मिको नाम अत्थो, को वा सम्परायिकोति? सङ्खेपेन ताव यं इधलोकसुखं, यञ्चेतरहि इधलोकसुखावहं, अयं दिट्ठधम्मिको अत्थो. सेय्यथिदं – गहट्ठानं ताव इध यं किञ्चि वित्तूपकरणं, अनाकुलकम्मन्तता, आरोग्यसंविधानं, वत्थुविसदकिरियायोगविहितानि सिप्पायतनविज्जाट्ठानानि सङ्गहितपरिजनताति एवमादि. पब्बजितानं पन ये इमे जीवितपरिक्खारा चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारा. तेसं अकिच्छलाभो, तत्थ च सङ्खाय पटिसेवना, सङ्खाय परिवज्जना, वत्थुविसदकिरिया, अप्पिच्छता, सन्तुट्ठि, पविवेको, असंसग्गोति एवमादि. पतिरूपदेसवाससप्पुरिसूपनिस्सयसद्धम्मस्सवनयोनिसोमनसिकारादयो पन उभयेसं साधारणा उभयानुरूपा चाति वेदितब्बा.

अप्पमादोति एत्थ अप्पमादो पमादप्पटिपक्खतो वेदितब्बो. को पनेस पमादो नाम? पमज्जनाकारो. वुत्तं हेतं –

‘‘तत्थ कतमो पमादो? कायदुच्चरिते वा वचीदुच्चरिते वा मनोदुच्चरिते वा पञ्चसु वा कामगुणेसु चित्तस्स वोस्सग्गो वोस्सग्गानुप्पादनं कुसलानं वा धम्मानं भावनाय असक्कच्चकिरियता असातच्चकिरियता अनट्ठितकिरियता ओलीनवुत्तिता निक्खित्तछन्दता निक्खित्तधुरता अनासेवना अभावना अबहुलीकम्मं अनधिट्ठानं अननुयोगोपमादो. यो एवरूपो पमादो पमज्जना पमज्जितत्तं. अयं वुच्चति पमादो’’ति (विभ. ८४६).

तस्मा वुत्तप्पटिपक्खतो अप्पमादो वेदितब्बो. अत्थतो हि सो सतिया अविप्पवासो, निच्चं उपट्ठितस्सतिया एतं नामं. अपरे पन ‘‘सतिसम्पजञ्ञयोगेन पवत्ता चत्तारो अरूपिनो खन्धा अप्पमादो’’ति वदन्ति.

‘‘भावितो बहूलीकतो’’ति वुत्तं, कथं पनायं अप्पमादो भावेतब्बोति? न अप्पमादभावना नाम विसुं एकभावना अत्थि. या हि काचि पुञ्ञकिरिया कुसलकिरिया, सब्बा सा अप्पमादभावनात्वेव वेदितब्बा. विसेसतो पन विवट्टूपनिस्सयं सरणगमनं कायिकवाचसिकसंवरञ्च उपादाय सब्बा सीलभावना, सब्बा समाधिभावना, सब्बा पञ्ञाभावना, सब्बा कुसलभावना, अनवज्जभावना, अप्पमादभावनाति वेदितब्बा. ‘‘अप्पमादो’’ति हि इदं महन्तं अत्थं दीपेति, महन्तं अत्थं परिग्गहेत्वा तिट्ठति. सकलम्पि तेपिटकं बुद्धवचनं आहरित्वा अप्पमादपदस्स अत्थं कत्वा कथेन्तो धम्मकथिको ‘‘अतित्थेन पक्खन्दो’’ति न वत्तब्बो. कस्मा? अप्पमादपदस्स महन्तभावतो. तथा हि सम्मासम्बुद्धो कुसिनारायं यमकसालानमन्तरे परिनिब्बानसमये निपन्नो अभिसम्बोधितो पट्ठाय पञ्चचत्तालीसाय वस्सेसु अत्तना भासितं धम्मं एकेन पदेन सङ्गहेत्वा दस्सेन्तो – ‘‘अप्पमादेन सम्पादेथा’’ति भिक्खूनं ओवादमदासि. तथा च वुत्तं –

‘‘सेय्यथापि, भिक्खवे, यानि कानिचि जङ्गलानं पाणानं पदजातानि, सब्बानि तानि हत्थिपदे समोधानं गच्छन्ति, हत्थिपदं तेसं अग्गमक्खायति यदिदं महन्तट्ठेन; एवमेव खो, भिक्खवे, ये केचि कुसला धम्मा, सब्बेते अप्पमादमूलका अप्पमादसमोसरणा, अप्पमादो तेसं धम्मानं अग्गमक्खायती’’ति (म. नि. १.३००).

गाथासु अप्पमादं पसंसन्तीति दानादिपुञ्ञकिरियासु अप्पमादं अप्पमज्जनं पण्डिता सप्पञ्ञा बुद्धादयो पसंसन्ति, वण्णेन्ति थोमेन्ति. कस्मा? यस्मा अप्पमत्तो उभो अत्थे अधिगण्हाति पण्डितो. के पन ते उभो अत्थाति आह – ‘‘दिट्ठे धम्मे च यो अत्थो, यो चत्थो सम्परायिको’’ति, एवमेत्थ पदयोजना वेदितब्बा. इधापि दिट्ठे धम्मे च यो अत्थोति गहट्ठस्स ताव ‘‘अनवज्जानि कम्मानि, अनाकुला च कम्मन्ता’’तिआदिना नयेन वुत्तो कसिगोरक्खादिविधिना लद्धब्बो अत्थो, पब्बजितस्स पन अविप्पटिसारादिअत्थो वेदितब्बो. यो चत्थो सम्परायिकोति पन उभयेसम्पि धम्मचरियाव वुत्ताति वेदितब्बा. अत्थाभिसमयाति दुविधस्सपि अत्थस्स हितस्स पटिलाभा, लद्धब्बेन समिति सङ्गति समोधानन्ति समयो, लाभो. समयो एव अभिसमयो, अभिमुखभावेन वा समयो अभिसमयोति एवमेत्थ अभिसमयो वेदितब्बो. धितिसम्पन्नत्ता धीरो. ततियेन चेत्थ अत्थ-सद्देन परमत्थस्स निब्बानस्सापि सङ्गहो वेदितब्बो. सेसं सुविञ्ञेय्यमेव. इति इमस्मिं सुत्ते वट्टसम्पत्ति एव कथिता. गाथायं पन विवट्टस्सपि सङ्गहो दट्ठब्बो. तथा हि वुत्तं –

‘‘अप्पमादो अमतपदं, पमादो मच्चुनो पदं;

अप्पमत्ता न मीयन्ति, ये पमत्ता यथा मता.

‘‘एवं विसेसतो ञत्वा, अप्पमादम्हि पण्डिता;

अप्पमादे पमोदन्ति, अरियानं गोचरे रता.

‘‘ते झायिनो साततिका, निच्चं दळ्हपरक्कमा;

फुसन्ति धीरा निब्बानं, योगक्खेमं अनुत्तर’’न्ति. (ध. प. २१-२३);

तस्मा ‘‘अत्थाभिसमया’’ति एत्थ लोकुत्तरत्थवसेनपि अत्थो वेदितब्बो.

ततियसुत्तवण्णना निट्ठिता.

४. अट्ठिपुञ्जसुत्तवण्णना

२४. चतुत्थे एकपुग्गलस्साति एत्थ पुग्गलोति अयं वोहारकथा. बुद्धस्स हि भगवतो दुविधा देसना सम्मुतिदेसना च परमत्थदेसना चाति. तत्थ ‘‘पुग्गलो, सत्तो, इत्थी, पुरिसो, खत्तियो, ब्राह्मणो, देवो, मारो’’ति एवरूपा सम्मुतिदेसना. ‘‘अनिच्चं, दुक्खं, अनत्ता, खन्धा, धातु, आयतना, सतिपट्ठाना’’ति एवरूपा परमत्थदेसना. तत्थ भगवा ये सम्मुतिवसेन देसनं सुत्वा विसेसमधिगन्तुं समत्था, नेसं सम्मुतिदेसनं देसेति. ये पन परमत्थवसेन देसनं सुत्वा विसेसमधिगन्तुं समत्था, तेसं परमत्थदेसनं देसेति.

तत्थायं उपमा – यथा हि देसभासाकुसलो तिण्णं वेदानं अत्थसंवण्णनको आचरियो ये दमिळभासाय वुत्ते अत्थं जानन्ति, तेसं दमिळभासाय आचिक्खति. ये अन्धकभासादीसु अञ्ञतराय, तेसं ताय ताय भासाय. एवं ते माणवका छेकं ब्यत्तं आचरियमागम्म खिप्पमेव सिप्पं उग्गण्हन्ति. तत्थ आचरियो विय बुद्धो भगवा, तयो वेदा विय कथेतब्बभावे ठितानि तीणि पिटकानि, देसभासाकोसल्लमिव सम्मुतिपरमत्थकोसल्लं, नानादेसभासा माणवका विय सम्मुतिपरमत्थवसेन पटिविज्झनसमत्था वेनेय्या, आचरियस्स दमिळभासादिआचिक्खनं विय भगवतो सम्मुतिपरमत्थवसेन देसना वेदितब्बा. आह चेत्थ –

‘‘दुवे सच्चानि अक्खासि, सम्बुद्धो वदतं वरो;

सम्मुतिं परमत्थञ्च, ततियं नूपलब्भति.

‘‘सङ्केतवचनं सच्चं, लोकसम्मुतिकारणा;

परमत्थवचनं सच्चं, धम्मानं भूतकारणा.

‘‘तस्मा वोहारकुसलस्स, लोकनाथस्स सत्थुनो;

सम्मुतिं वोहरन्तस्स, मुसावादो न जायती’’ति.

अपिच अट्ठहि कारणेहि भगवा पुग्गलकथं कथेति – हिरोत्तप्पदीपनत्थं, कम्मस्सकतादीपनत्थं, पच्चत्तपुरिसकारदीपनत्थं,, आनन्तरियदीपनत्थं, ब्रह्मविहारदीपनत्थं, पुब्बेनिवासदीपनत्थं, दक्खिणाविसुद्धिदीपनत्थं, लोकसम्मुतिया अप्पहानत्थं, चाति. ‘‘खन्धधातुआयतनानि हिरियन्ति ओत्तप्पन्ती’’ति हि वुत्ते महाजनो न जानाति, सम्मोहं आपज्जति, पटिसत्तु वा होति – ‘‘किमिदं खन्धधातुआयतनानि हिरियन्ति ओत्तप्पन्ति नामा’’ति? ‘‘इत्थी हिरियति ओत्तप्पति, पुरिसो, खत्तियो, ब्राह्मणो, देवो, मारो’’ति पन वुत्ते जानाति, न सम्मोहं आपज्जति, न पटिसत्तु वा होति. तस्मा भगवा हिरोत्तप्पदीपनत्थं पुग्गलकथं कथेति.

‘‘खन्धा कम्मस्सका, धातुयो आयतनानी’’ति वुत्तेपि एसेव नयो. तस्मा कम्मस्सकतादीपनत्थम्पि पुग्गलकथं कथेति.

‘‘वेळुवनादयो महाविहारा खन्धेहि कारापिता, धातूहि आयतनेही’’ति वुत्तेपि एसेव नयो. तथा ‘‘खन्धा मातरं जीविता वोरोपेन्ति, पितरं, अरहन्तं, रुहिरुप्पादकम्मं, सङ्घभेदकम्मं करोन्ति, धातुयो आयतनानी’’ति वुत्तेपि एसेव नयो. ‘‘खन्धा मेत्तायन्ति, धातुयो आयतनानी’’ति वुत्तेपि एसेव नयो. ‘‘खन्धा पुब्बेनिवासं अनुस्सरन्ति, धातुयो आयतनानी’’ति वुत्तेपि एसेव नयो. तस्मा भगवा पच्चत्तपुरिसकारदीपनत्थं आनन्तरियदीपनत्थं ब्रह्मविहारदीपनत्थं पुब्बेनिवासदीपनत्थञ्च पुग्गलकथं कथेति.

‘‘खन्धा दानं पटिग्गण्हन्ति, धातुयो आयतनानी’’ति वुत्तेपि महाजनो न जानाति, सम्मोहं आपज्जति, पटिसत्तु वा होति ‘‘किमिदं खन्धा धातुयो आयतनानि पटिग्गण्हन्ति नामा’’ति? ‘‘पुग्गला पटिग्गण्हन्ती’’ति पन वुत्ते जानाति, न सम्मोहं आपज्जति, न पटिसत्तु वा होति. तस्मा भगवा दक्खिणाविसुद्धिदीपनत्थं पुग्गलकथं कथेति.

लोकसम्मुतिञ्च बुद्धा भगवन्तो न पजहन्ति, लोकसमञ्ञाय लोकनिरुत्तिया लोकाभिलापे ठितायेव धम्मं देसेन्ति. तस्मा भगवा लोकसम्मुतिया अप्पहानत्थम्पि पुग्गलकथं कथेति. सो इधापि लोकवोहारवसेन देसेतब्बमत्थं दस्सेन्तो ‘‘एकपुग्गलस्सा’’तिआदिमाह.

तत्थ एकपुग्गलस्साति एकसत्तस्स. कप्पन्ति महाकप्पं. यदिपि अच्चन्तसंयोगे इदं उपयोगवचनं, यत्थ पन सत्तानं सन्धावनं संसरणं सम्भवति, तस्स वसेन गहेतब्बं. अट्ठिकङ्कलोति अट्ठिभागो. ‘‘अट्ठिखलो’’तिपि पठन्ति, अट्ठिसञ्चयोति अत्थो. अट्ठिपुञ्जोति अट्ठिसमूहो. अट्ठिरासीति तस्सेव वेवचनं. केचि पन ‘‘कटिप्पमाणतो हेट्ठा समूहो कङ्कलो नाम, ततो उपरि याव तालप्पमाणं पुञ्जो, ततो उपरि रासी’’ति वदन्ति. तं तेसं मतिमत्तं. सब्बमेतं समूहस्सेव परियायवचनं वेपुल्लस्सेव उपमाभावेन आहटत्ता.

सचे संहारको अस्साति अविप्पकिरणवसेन संहरित्वा ठपेता कोचि यदि सियाति परिकप्पनवसेन वदति. सम्भतञ्च न विनस्सेय्याति तथा केनचि सम्भतञ्च तं अट्ठिकङ्कलं अन्तरधानाभावेन पूतिभूतं चुण्णविचुण्णञ्च अहुत्वा सचे न विनस्सेय्याति परिकप्पनवसेनेव वदति. अयञ्हेत्थ अत्थो – भिक्खवे, एकस्स सत्तस्स कम्मकिलेसेहि अपरापरुप्पत्तिवसेन एकं महाकप्पं सन्धावन्तस्स संसरन्तस्स एवं महाअट्ठिसञ्चयो भवेय्य, आरोहपरिणाहेहि यत्तकोयं वेपुल्लपब्बतो. सचे पनस्स कोचि संहरित्वा ठपेता भवेय्य, सम्भतञ्च तं सचे अविनस्सन्तं तिट्ठेय्याति. अयञ्च नयो निब्बुतप्पदीपे विय भिज्जनसभावे कळेवरनिक्खेपरहिते ओपपातिकत्तभावे सब्बेन सब्बं अनट्ठिके च खुद्दकत्तभावे वज्जेत्वा वुत्तो. केचि पन ‘‘परिकप्पनवसेन इमस्स नयस्स आहटत्ता तेसम्पि यदि सिया अट्ठिकङ्कलो, तेनापि सहेव अयं अट्ठिपुञ्जपरिमाणो वुत्तो’’ति वदन्ति. अपरे पन ‘‘नयिदमेवं लब्भमानस्सेव अट्ठिपुञ्जस्स वसेन सब्बञ्ञुतञ्ञाणेन परिच्छिन्दित्वा इमस्स परिमाणस्स वुत्तता. तस्मा वुत्तनयेनेव अत्थो गहेतब्बो’’ति.

गाथासु महेसिनाति महन्ते सीलक्खन्धादयो एसति गवेसतीति महेसी, सम्मासम्बुद्धो. ‘‘इति वुत्तं महेसिना’’ति च भगवा ‘‘दसबलसमन्नागतो, भिक्खवे, तथागतो’’तिआदीसु विय अत्तानं अञ्ञं विय कत्वा दस्सेति. वेपुल्लोति राजगहं परिवारेत्वा ठितेसु पञ्चसु पब्बतेसु विपुलभावतो वेपुल्लोति लद्धनामो. ततो एव महा, ठितदिसाभागवसेन उत्तरो गिज्झकूटस्स. गिरिब्बजेति गिरिब्बजपुरनामकस्स राजगहस्स समीपे.

एत्तावता भगवा ‘‘एत्तकेनापि कालेन अनुपच्छिन्नभवमूलस्स अपरिञ्ञातवत्थुकस्स पुथुज्जनस्स अयमीदिसी कटसिवड्ढना’’ति वट्टे आदीनवं दस्सेत्वा इदानि येसं अरियसच्चानं अननुबोधा अप्पटिवेधा अन्धपुथुज्जनस्स एवं कटसिवड्ढना, तानि अरियसच्चानि दिट्ठवतो अरियपुग्गलस्स अयं नत्थीति दस्सेन्तो ‘‘यतो च अरियसच्चानी’’तिआदिमाह.

तत्थ यतोति यदा. अरियसच्चानीति अरणीयतो अरियानि, अवितथभावेन सच्चानि चाति अरियसच्चानि, अरियभावकरानि वा सच्चानि अरियसच्चानि, अरियेहि वा बुद्धादीहि पटिविज्झितब्बानि सच्चानि अरियसच्चानि. अथ वा अरियस्स सच्चानि अरियसच्चानि. सदेवकेन हि लोकेन सरणन्ति अरणीयतो अरियो भगवा, तेन सयम्भुञाणेन दिट्ठत्ता तस्स सच्चानीति अरियसच्चानि. सम्मप्पञ्ञाय पस्सतीति सम्मा हेतुना ञायेन विपस्सनापञ्ञासहिताय मग्गपञ्ञाय परिञ्ञापहानसच्छिकिरियाभावनाभिसमयवसेन पस्सति. दुक्खन्तिआदि अरियसच्चानं सरूपदस्सनं. तत्थ अनेकूपद्दवाधिट्ठानताय कुच्छितभावतो बालजनपरिकप्पितधुवसुभसुखत्तविरहेन तुच्छभावतो च दुक्खं. दुक्खं समुप्पज्जति एतेनाति दुक्खसमुप्पादो, दुक्खसमुदयो. दुक्खं अतिक्कमति एतेन आरम्मणप्पच्चयभूतेन, एत्थ वाति दुक्खस्स अतिक्कमो, निब्बानं. आरकत्ता किलेसेहि अरणीयतो च अरियो. सम्मादिट्ठिआदीनं अट्ठन्नं अङ्गानं वसेन अट्ठङ्गिको. मारेन्तो किलेसे गच्छति, निब्बानत्थिकेहि मग्गीयति, सयं वा निब्बानं मग्गतीति मग्गो. ततो एव दुक्खस्स उपसमं निरोधं गच्छतीति दुक्खूपसमगामी. यतो सम्मप्पञ्ञाय पस्सतीति सम्बन्धो.

स सत्तक्खत्तुं परमं, सन्धावित्वान पुग्गलोति सो एवं चतुसच्चदस्सावी अरियपुग्गलो सोतापन्नो सब्बमुदिन्द्रियो समानो सत्तवारपरमंयेव भवादीसु अपरापरुप्पत्तिवसेन सन्धावित्वा संसरित्वा. एकबीजी, कोलंकोलो, सत्तक्खत्तुपरमोति इन्द्रियानं तिक्खमज्झिममुदुभावेन तयो हि सोतापन्ना. तेसु सब्बमुदिन्द्रियस्स वसेनिदं वुत्तं ‘‘स सत्तक्खत्तुं परमं, सन्धावित्वाना’’ति. दुक्खस्सन्तकरो होतीति वट्टदुक्खस्स अन्तकरो परियोसानकरो होति. कथं? सब्बसंयोजनक्खया अनुपुब्बेन अग्गमग्गं अधिगन्त्वा निरवसेसानं संयोजनानं खेपनाति अरहत्तफलेनेव देसनाय कूटं गण्हि.

चतुत्थसुत्तवण्णना निट्ठिता.

५. मुसावादसुत्तवण्णना

२५. पञ्चमे एकधम्मं अतीतस्साति का उप्पत्ति? भगवतो भिक्खुसङ्घस्स च महालाभसक्कारो उप्पज्जि, तित्थियानं परिहायि. ते हतलाभसक्कारा निप्पभा नित्तेजा इस्सापकता चिञ्चमाणविकं नाम परिब्बाजिकं उय्योजेसुं – ‘‘एहि, त्वं भगिनि, समणं गोतमं अभूतेन अब्भाचिक्खस्सू’’ति. सा भगवन्तं चतुपरिसमज्झे धम्मं देसेन्तं उपगन्त्वा अभूतेन अब्भाचिक्खित्वा सक्केनस्सा अभूतभावे पकासिते महाजनेन ‘‘धी काळकण्णी’’ति विहारतो निक्कड्ढापिता पथविया विवरे दिन्ने अवीचिजालानं इन्धनं हुत्वाव अवीचिनिरये निब्बत्ति, भिय्योसोमत्ताय तित्थियानं लाभसक्कारो परिहायि. भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, चिञ्चमाणविका एवं उळारगुणं अग्गदक्खिणेय्यं सम्मासम्बुद्धं अभूतेन अक्कोसित्वा महाविनासं पत्ता’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि सा मं अभूतेन अक्कोसित्वा महाविनासं पत्तायेवा’’ति महापदुमजातकम्पि वित्थारेत्वा उपरि धम्मं देसेन्तो इमिस्सा अट्ठुप्पत्तिया ‘‘एकधम्मं अतीतस्सा’’ति इदं सुत्तं देसेसि.

तत्थ एकधम्मन्ति एकं वचीसच्चसङ्खातं धम्मं. अतीतस्साति या सा अट्ठ अनरियवोहारे वज्जेत्वा अट्ठसु अरियवोहारेसु पतिट्ठापनत्थं ‘‘सच्चं, भणे, नालिक’’न्ति अरियेहि ठपिता मरियादा, तं अतिक्कमित्वा ठितस्स. पुरिसो एव पुग्गलोति पुरिसपुग्गलो, तस्स. अकरणीयन्ति कातुं असक्कुणेय्यं. सम्पजानमुसावादी हि पुग्गलो किञ्चि पापकम्मं कत्वा ‘‘इदं नाम तया कत’’न्ति वुत्ते ‘‘न मया कत’’न्ति मुसावादेनेव परिहरिस्सति. एवञ्च पटिपज्जन्तो किञ्चि पापकम्मं करोतियेव, न तत्थ लज्जति सच्चमरियादाय समतिक्कन्तत्ता. तेन वुत्तं ‘‘कतमं एकधम्मं, यदिदं, भिक्खवे, सम्पजानमुसावादो’’ति.

गाथायं मुसावादिस्साति मुसा अभूतं अतच्छं परेसं विञ्ञापनवसेन वदनसीलस्स. यस्स दससु वचनेसु एकम्पि सच्चं नत्थि, एवरूपे वत्तब्बमेव नत्थि. जन्तुनोति सत्तस्स. सत्तो हि जायनट्ठेन ‘‘जन्तू’’ति वुच्चति. वितिण्णपरलोकस्साति विस्सट्ठपरलोकस्स. ईदिसो हि मनुस्ससम्पत्ति देवलोकसम्पत्ति अवसाने निब्बानसम्पत्तीति इमा तिस्सोपि सम्पत्तियो न पस्सति. नत्थि पापन्ति तस्स तादिसस्स इदं नाम पापं न कत्तब्बन्ति नत्थीति.

पञ्चमसुत्तवण्णना निट्ठिता.

६. दानसुत्तवण्णना

२६. छट्ठे एवञ्चेति एत्थ एवन्ति उपमाकारे निपातो, चेति परिकप्पने. सत्ताति रूपादीसु सत्ता विसत्ता. जानेय्युन्ति बुज्झेय्युं. दानसंविभागस्साति याय हि चेतनाय अन्नादिदेय्यधम्मं संहरित्वा अनुकम्पापूजासु अञ्ञतरवसेन परेसं दीयति, तं दानं. याय पन अत्तना परिभुञ्जितब्बभावेन गहितवत्थुस्स एकदेसो संविभजित्वा दीयति, अयं संविभागो. विपाकन्ति फलं. यथाहं जानामीति यथा अहं जानामि. इदं वुत्तं होति – तिरच्छानगतस्सपि दानं दत्वा अत्तभावसते पवत्तसुखविपच्चनवसेन सतगुणा दक्खिणा होतीति एवमादिना, भिक्खवे, येन पकारेन अहं दानस्स संविभागस्स च विपाकं कम्मविपाकं ञाणबलेन पच्चक्खतो जानामि, एवं इमे सत्ता यदि जानेय्युन्ति. न अदत्वा भुञ्जेय्युन्ति यं भुञ्जितब्बयुत्तकं अत्तनो अत्थि, ततो परेसं न अदत्वा मच्छरियचित्तेन च तण्हालोभवसेन च भुञ्जेय्युं, दत्वाव भुञ्जेय्युं. न च नेसं मच्छेरमलं चित्तं परियादाय तिट्ठेय्याति अत्तनो सम्पत्तीनं परेहि साधारणभावासहनलक्खणं चित्तस्स पभस्सरभावदूसकानं उपक्किलेसभूतानं कण्हधम्मानं अञ्ञतरं मच्छेरमलं. अथ वा यथावुत्तमच्छेरञ्चेव अञ्ञम्पि दानन्तरायकरं इस्सालोभदोसादिमलञ्च नेसं सत्तानं चित्तं यथा दानचेतना न पवत्तति, न वा सुपरिसुद्धा होति, एवं परियादाय परितो गहेत्वा अभिभवित्वा न तिट्ठेय्य. को हि सम्मदेव दानफलं जानन्तो अत्तनो चित्ते मच्छेरमलस्स ओकासं ददेय्य.

योपि नेसं अस्स चरिमो आलोपोति नेसं सत्तानं यो सब्बपच्छिमको आलोपो सिया. चरिमं कबळन्ति तस्सेव वेवचनं. इदं वुत्तं होति – इमे सत्ता पकतिया यत्तकेहि आलोपेहि सयं यापेय्युं, तेसु एकमेव आलोपं अत्तनो अत्थाय ठपेत्वा तदञ्ञे सब्बे आलोपे आगतागतानं अत्थिकानं दत्वा यो ठपितो आलोपो अस्स, सो इध चरिमो आलोपो नाम. ततोपि न असंविभजित्वा भुञ्जेय्युं, सचे नेसं पटिग्गाहका अस्सूति नेसं सत्तानं पटिग्गाहका यदि सियुं, ततोपि यथावुत्तचरिमालोपतोपि संविभजित्वाव एकदेसं दत्वाव भुञ्जेय्युं, यथाहं दानसंविभागस्स विपाकं पच्चक्खतो जानामि, एवं यदि जानेय्युन्ति. यस्मा च खोतिआदिना कम्मफलस्स अप्पच्चक्खभावतो एवमेते सत्ता दानसंविभागेसु न पवत्तन्तीति यथाधिप्पेतमत्थं कारणेन सम्पटिपादेति. एतेनेव तेसं तदञ्ञपुञ्ञेसु च अप्पटिपत्तिया अपुञ्ञेसु च पटिपत्तिया कारणं दस्सितन्ति दट्ठब्बं.

गाथासु यथावुत्तं महेसिनाति महेसिना भगवता ‘‘तिरच्छानगते दानं दत्वा सतगुणा दक्खिणा पाटिकङ्खितब्बा’ तिआदिना, इधेव वा ‘‘एवं चे सत्ता जानेय्यु’’न्तिआदिना यथावुत्तं, ञाणचारेन तं यथावुत्तं चित्तं ञातन्ति अत्थो. विपाकं संविभागस्साति संविभागस्सपि विपाकं, को पन वादो दानस्स. यथा होति महप्फलन्ति यथा सो विपाको महन्तं फलं होति, एवं इमे सत्ता यदि जानेय्युन्ति सम्बन्धो. विनेय्य मच्छेरमलन्ति मच्छरियमलं अपनेत्वा कम्मफलसद्धाय रतनत्तयसद्धाय च विसेसतो पसन्नेन चित्तेन येसु किलेसेहि आरकत्ता अरियेसु सीलादिगुणसम्पन्नेसु दिन्नं अप्पकम्पि दानं महप्फलं होति, तेसु युत्तकालेन दज्जुं ददेय्युं.

महप्फलभावकरणतो दक्खिणं अरहन्तीति दक्खिणेय्या, सम्मापटिपन्ना, तेसु दक्खिणेय्येसु. दक्खिणं परलोकं सद्दहित्वा दातब्बं देय्यधम्मं यथा तं दानं होति महादानं, एवं दत्वा. अथ वा बहुनो अन्नं दत्वा, कथं पन अन्नं दातब्बन्ति आह ‘‘दक्खिणेय्येसु दक्खिण’’न्ति. इतो मनुस्सत्ता मनुस्सत्तभावतो चुता पटिसन्धिवसेन सग्गं गच्छन्ति दायका. कामकामिनोति कामेतब्बानं उळारानं देवभोगानं पटिलद्धरूपविभवेन कम्मुना उपगमने साधुकारिताय कामकामिनो सब्बकामसमङ्गिनो. मोदन्ति यथारुचि परिचारेन्तीति अत्थो.

छट्ठसुत्तवण्णना निट्ठिता.

७. मेत्ताभावनासुत्तवण्णना

२७. सत्तमे यानि कानिचीति अनवसेसपरियादानं. ओपधिकानि पुञ्ञकिरियवत्थूनीति

तेसं नियमनं. तत्थ उपधि वुच्चन्ति खन्धा, उपधिस्स करणं सीलं एतेसं, उपधिप्पयोजनानि वा ओपधिकानि. सम्पत्तिभवे अत्तभावजनकानि पटिसन्धिपवत्तिविपाकदायकानि. पुञ्ञकिरियवत्थूनीति पुञ्ञकिरिया च ता तेसं तेसं फलानिसंसानं वत्थूनि चाति पुञ्ञकिरियवत्थूनि. तानि पन सङ्खेपतो दानमयं, सीलमयं, भावनामयन्ति तिविधानि होन्ति. तत्थ यं वत्तब्बं, तं परतो तिकनिपातवण्णनायं आवि भविस्सति. मेत्ताय चेतोविमुत्तियाति मेत्ताभावनावसेन पटिलद्धतिकचतुक्कज्झानसमापत्तिया. ‘‘मेत्ता’’ति हि वुत्ते उपचारोपि लब्भति अप्पनापि, ‘‘चेतोविमुत्ती’’ति पन वुत्ते अप्पनाझानमेव लब्भति. तञ्हि नीवरणादिपच्चनीकधम्मतो चित्तस्स सुट्ठु विमुत्तिभावेन चेतोविमुत्तीति वुच्चति. कलं नाग्घन्ति सोळसिन्ति मेत्ताब्रह्मविहारस्स सोळसभागं ओपधिकानि पुञ्ञकिरियवत्थूनि न अग्घन्ति. इदं वुत्तं होति – मेत्ताय चेतोविमुत्तिया यो विपाको, तं सोळस कोट्ठासे कत्वा ततो एकं पुन सोळस कोट्ठासे कत्वा तत्थ यो एककोट्ठासो, न तं अञ्ञानि ओपधिकानि पुञ्ञकिरियवत्थूनि अग्घन्तीति. अधिग्गहेत्वाति अभिभवित्वा. भासतेति उपक्किलेसविसुद्धिया दिप्पति. तपतेति ततो एव अनवसेसे पटिपक्खधम्मे सन्तपति. विरोचतीति उभयसम्पत्तिया विरोचति. मेत्ता हि चेतोविमुत्ति चन्दालोकसङ्खाता विगतूपक्किलेसा जुण्हा विय दिप्पति, आतपो विय अन्धकारं पच्चनीकधम्मे विधमन्ती तपति, ओसधितारका विय विज्जोतमाना विरोचति च.

सेय्यथापीति ओपम्मदस्सनत्थे निपातो. तारकरूपानन्ति जोतीनं. चन्दियाति चन्दस्स अयन्ति चन्दी, तस्सा चन्दिया, पभाय जुण्हायाति अत्थो. वस्सानन्ति वस्सानं बहुवसेन लद्धवोहारस्स उतुनो. पच्छिमे मासेति कत्तिकमासे. सरदसमयेति सरदकाले. अस्सयुजकत्तिकमासा हि लोके ‘‘सरदउतू’’ति वुच्चन्ति. विद्धेति उब्बिद्धे, मेघविगमेन दूरीभूतेति अत्थो. तेनेवाह ‘‘विगतवलाहके’’ति. देवेति आकासे. नभं अब्भुस्सक्कमानोति उदयट्ठानतो आकासं उल्लङ्घन्तो. तमगतन्ति तमं. अभिविहच्चाति अभिहन्त्वा विधमित्वा. ओसधितारकाति उस्सन्ना पभा एताय धीयति, ओसधीनं वा अनुबलप्पदायिकत्ता ओसधीति लद्धनामा तारका.

एत्थाह – कस्मा पन भगवता समानेपि ओपधिकभावे मेत्ता इतरेहि ओपधिकपुञ्ञेहि विसेसेत्वा वुत्ताति? वुच्चते – सेट्ठट्ठेन निद्दोसभावेन च सत्तेसु सुप्पटिपत्तिभावतो. सेट्ठा हि एते विहारा, सब्बसत्तेसु सम्मापटिपत्तिभूतानि यदिदं मेत्ताझानानि. यथा च ब्रह्मानो निद्दोसचित्ता विहरन्ति, एवं एतेहि समन्नागता योगिनो ब्रह्मसमाव हुत्वा विहरन्ति. तथा हिमे ‘‘ब्रह्मविहारा’’ति वुच्चन्ति. इति सेट्ठट्ठेन निद्दोसभावेन च सत्तेसु सुप्पटिपत्तिभावतो मेत्ताव इतरेहि ओपधिकपुञ्ञेहि विसेसेत्वा वुत्ता.

एवम्पि कस्मा मेत्ताव एवं विसेसेत्वा वुत्ता? इतरेसं ब्रह्मविहारानं अधिट्ठानभावतो दानादीनं सब्बेसं कल्याणधम्मानं परिपूरिकत्ता च. अयञ्हि सत्तेसु हिताकारप्पवत्तिलक्खणा मेत्ता, हितूपसंहारसा, आघातविनयपच्चुपट्ठाना. यदि अनोधिसो भाविता बहुलीकता, अथ सुखेनेव करुणादिभावना सम्पज्जन्तीति मेत्ता इतरेसं ब्रह्मविहारानं अधिट्ठानं. तथा हि सत्तेसु हितज्झासयताय सति नेसं दुक्खासहनता, सम्पत्तिविसेसानं चिरट्ठितिकामता, पक्खपाताभावेन सब्बत्थ समप्पवत्तचित्तता च सुखेनेव इज्झन्ति. एवञ्च सकललोकहितसुखविधानाधिमुत्ता महाबोधिसत्ता ‘‘इमस्स दातब्बं, इमस्स न दातब्ब’’न्ति उत्तमविचयवसेन विभागं अकत्वा सब्बसत्तानं निरवसेससुखनिदानं दानं देन्ति, हितसुखत्थमेव नेसं सीलं समादियन्ति, सीलपरिपूरणत्थं नेक्खम्मं भजन्ति, तेसं हितसुखेसु असम्मोहत्थाय पञ्ञं परियोदपेन्ति, हितसुखाभिवड्ढनत्थमेव दळ्हं वीरियमारभन्ति, उत्तमवीरियवसेन वीरभावं पत्तापि सत्तानं नानप्पकारं हितज्झासयेनेव अपराधं खमन्ति, ‘‘इदं वो दस्साम, करिस्सामा’’तिआदिना कतं पटिञ्ञातं न विसंवादेन्ति, तेसं हितसुखायेव अचलाधिट्ठाना होन्ति. तेसु अचलाय मेत्ताय पुब्बकारिनो हितज्झासयेनेव नेसं विप्पकारे उदासीना होन्ति, पुब्बकारितायपि न पच्चुपकारमासिसन्तीति. एवं ते पारमियो पूरेत्वा याव दसबलचतु-वेसारज्ज-छअसाधारणञाण-अट्ठारसावेणिकबुद्धधम्मप्पभेदे सब्बेपि कल्याणधम्मे परिपूरेन्ति. एवं दानादीनं सब्बेसं कल्याणधम्मानं पारिपूरिका मेत्ताति च इमस्स विसेसस्स दस्सनत्थं सा इतरेहि विसेसेत्वा वुत्ता.

अपिच मेत्ताय इतरेहि ओपधिकपुञ्ञेहि महानुभावता वेलामसुत्तेन दीपेतब्बा. तत्थ हि यथा नाम महता वेलामस्स दानतो एकस्स सोतापन्नस्स दानं महप्फलतरं वुत्तं, एवं सोतापन्नसततो एकस्स सकदागामिस्स दानं…पे… पच्चेकबुद्धसततो भगवतो, ततोपि बुद्धप्पमुखस्स सङ्घस्स दानं, ततोपि चातुद्दिसस्स सङ्घस्स विहारदानं, ततोपि सरणगमनं, ततोपि सीलसमादानं, ततोपि गद्दूहनमत्तं कालं मेत्ताभावना महप्फलतरा वुत्ता. यथाह –

‘‘यं गहपति वेलामो ब्राह्मणो दानं अदासि महादानं. यो चेकं दिट्ठिसम्पन्नं भोजेय्य, इदं ततो महप्फलतरं. यो च सतं दिट्ठिसम्पन्नं भोजेय्य…पे… सुरामेरयमज्जप्पमादट्ठाना वेरमणिं. यो च अन्तमसो गद्दूहनमत्तम्पि मेत्तचित्तं भावेय्य, इदं ततो महप्फलतर’’न्ति (अ. नि. ९.२०).

महग्गतपुञ्ञभावेन पनस्सा परित्तपुञ्ञतो सातिसयताय वत्तब्बमेव नत्थि. वुत्तञ्हेतं ‘‘यं पमाणकतं कम्मं, न तं तत्रावसिस्सति, न तं तत्रावतिट्ठती’’ति (दी. नि. १.५५६; सं. नि. ४.३६०). कामावचरकम्मञ्हि पमाणकतं नाम, महग्गतकम्मं पन पमाणं अतिक्कमित्वा ओधिसकानोधिसकफरणवसेन वड्ढित्वा कतत्ता अप्पमाणकतं नाम. कामावचरकम्मं तस्स महग्गतकम्मस्स अन्तरा लग्गितुं वा तं कम्मं अभिभवित्वा अत्तनो विपाकस्स ओकासं गहेत्वा ठातुं वा न सक्कोति, अथ खो महग्गतकम्ममेव तं परित्तकम्मं महोघो विय परित्तं उदकं अभिभवित्वा अत्तनो ओकासं गहेत्वा तिट्ठति, तस्स विपाकं पटिबाहित्वा सयमेव ब्रह्मसहब्यतं उपनेतीति अयञ्हि तस्स अत्थोति.

गाथासु योति यो कोचि गहट्ठो वा पब्बजितो वा. मेत्तन्ति मेत्ताझानं. अप्पमाणन्ति भावनावसेन आरम्मणवसेन च अप्पमाणं. असुभभावनादयो विय हि आरम्मणे एकदेसग्गहणं अकत्वा अनवसेसफरणवसेन अनोधिसोफरणवसेन च अप्पमाणारम्मणताय पगुणभावनावसेन अप्पमाणं. तनू संयोजना होन्तीति मेत्ताझानं पादकं कत्वा सम्मसित्वा हेट्ठिमे अरियमग्गे अधिगच्छन्तस्स सुखेनेव पटिघसंयोजनादयो पहीयमाना तनू होन्ति. तेनाह ‘‘पस्सतो उपधिक्खय’’न्ति. ‘‘उपधिक्खयो’’ति हि निब्बानं वुच्चति. तञ्चस्स सच्छिकिरियाभिसमयवसेन मग्गञाणेन पस्सति. अथ वा तनू संयोजना होन्तीति मेत्ताझानपदट्ठानाय विपस्सनाय अनुक्कमेन उपधिक्खयसङ्खातं अरहत्तं पत्वा तं पस्सतो पगेव दसपि संयोजना तनू होन्ति, पहीयन्तीति अत्थो. अथ वा तनू संयोजना होन्तीति पटिघो चेव पटिघसम्पयुत्तसंयोजना च तनुका होन्ति. पस्सतो उपधिक्खयन्ति तेसंयेव किलेसूपधीनं खयसङ्खातं मेत्तं अधिगमवसेन पस्सन्त स्साति एवमेत्थ अत्थो दट्ठब्बो.

एवं किलेसप्पहानं निब्बानाधिगमञ्च मेत्ताभावनाय सिखाप्पत्तमानिसंसं दस्सेत्वा इदानि अञ्ञे आनिसंसे दस्सेतुं ‘‘एकम्पि चे’’तिआदिमाह. तत्थ अदुट्ठचित्तोति मेत्ताबलेन सुट्ठु विक्खम्भितब्यापादताय ब्यापादेन अदूसितचित्तो. मेत्तायतीति हितफरणवसेन मेत्तं करोति. कुसलोति अतिसयेन कुसलवा महापुञ्ञो, पटिघादिअनत्थविगमेन वो. खेमी तेनाति तेन मेत्तायितेन. सब्बे च पाणेति चसद्दो ब्यतिरेके. मनसानुकम्पन्ति चित्तेन अनुकम्पन्तो. इदं वुत्तं होति – एकसत्तविसयापि ताव मेत्ता महाकुसलरासि, सब्बे पन पाणे अत्तनो पियपुत्तं विय हितफरणेन मनसा अनुकम्पन्तो पहूतं बहुं अनप्पकं अपरियन्तं चतुसट्ठिमहाकप्पेपि अत्तनो विपाकप्पबन्धं पवत्तेतुं समत्थं उळारपुञ्ञं अरियो परिसुद्धचित्तो पुग्गलो पकरोति निप्फादेति.

सत्तसण्डन्ति सत्तसङ्खातेन सण्डेन समन्नागतं भरितं, सत्तेहि अविरळं आकिण्णमनुस्सन्ति अत्थो. विजित्वाति अदण्डेन असत्थेन धम्मेनेव विजिनित्वा. राजिसयोति इसिसदिसा धम्मिकराजानो. यजमानाति दानानि ददमाना. अनुपरियगाति विचरिंसु.

अस्समेधन्तिआदीसु पोराणकराजकाले किर सस्समेधं, पुरिसमेधं, सम्मापासं, वाचापेय्यन्ति चत्तारि सङ्गहवत्थूनि अहेसुं, येहि राजानो लोकं सङ्गण्हिंसु. तत्थ निप्फन्नसस्सतो दसमभागग्गहणं सस्समेधं नाम, सस्ससम्पादने, मेधाविताति अत्थो. महायोधानं छमासिकं भत्तवेतनानुप्पदानं पुरिसमेधं नाम, पुरिससङ्गण्हने मेधाविताति अत्थो. दलिद्दमनुस्सानं पोत्थके लेखं गहेत्वा तीणि वस्सानि विना वड्ढिया सहस्सद्विसहस्समत्तधनानुप्पदानं सम्मापासं नाम. तञ्हि सम्मा मनुस्से पासेति हदये बन्धित्वा विय ठपेति, तस्मा ‘‘सम्मापास’’न्ति वुच्चति. ‘‘तात मातुला’’तिआदिना पन सण्हवाचाय सङ्गहणं वाचापेय्यं नाम, पेय्यवज्जं पियवाचताति अत्थो. एवं चतूहि सङ्गहवत्थूहि सङ्गहितं रट्ठं इद्धञ्चेव होति फीतञ्च पहूतअन्नपानं खेमं निरब्बुदं. मनुस्सा मुदा मोदमाना उरे पुत्ते नच्चेन्ता अपारुतघरा विहरन्ति. इदं घरद्वारेसु अग्गळानं अभावतो ‘‘निरग्गळ’’न्ति वुच्चति. अयं पोराणिका पवेणि, अयं पोराणिका पकति.

अपरभागे पन ओक्काकराजकाले ब्राह्मणा इमानि चत्तारि सङ्गहवत्थूनि इमञ्च रट्ठसम्पत्तिं परिवत्तेन्ता उद्धम्मूलं कत्वा अस्समेधं पुरिसमेधन्तिआदिके पञ्च यञ्ञे नाम अकंसु. वुत्तञ्हेतं भगवता ब्राह्मणधम्मियसुत्ते –

‘‘तेसं आसि विपल्लासो, दिस्वान अणुतो अणुं…पे….

‘‘ते तत्थ मन्ते गन्थेत्वा, ओक्काकं तदुपागमु’’न्ति. (सु. नि. ३०१-३०४);

तत्थ अस्समेत्थ मेधन्ति बाधेन्तीति अस्समेधो. द्वीहि परियञ्ञेहि यजितब्बस्स एकवीसतियूपस्स एकस्मिं पच्छिमदिवसे एव सत्तनवुतिपञ्चपसुसतघातभीसनस्स ठपेत्वा भूमिञ्च पुरिसे च अवसेससब्बविभवदक्खिणस्स यञ्ञस्सेतं अधिवचनं. पुरिसमेत्थ मेधन्ति बाधेन्तीति पुरिसमेधो. चतूहि परियञ्ञेहि यजितब्बस्स सद्धिंभूमिया अस्समेधे वुत्तविभवदक्खिणस्स यञ्ञस्सेतं अधिवचनं. सम्ममेत्थ पासन्ति खिपन्तीति सम्मापासो. युगच्छिग्गळे पवेसनदण्डकसङ्खातं सम्मं खिपित्वा तस्स पतितोकासे वेदिं कत्वा संहारिमेहि यूपादीहि सरस्सतिनदिया निमुग्गोकासतो पभुति पटिलोमं गच्छन्तेन यजितब्बस्स सत्रयागस्सेतं अधिवचनं वाजमेत्थ पिवन्तीति वाजपेय्यो. एकेन परियञ्ञेन सत्तरसहि पसूहि यजितब्बस्स बेळुवयूपस्स सत्तरसकदक्खिणस्स यञ्ञस्सेतं अधिवचनं. नत्थि एत्थ अग्गळोति निरग्गळो. नवहि परियञ्ञेहि यजितब्बस्स सद्धिं भूमिया पुरिसेहि च अस्समेधे वुत्तविभवदक्खिणस्स सब्बमेधपरियायनामस्स अस्समेधविकप्पस्सेतं अधिवचनं.

चन्दप्पभाति चन्दप्पभाय. तारगणाव सब्बेति यथा सब्बेपि तारागणा चन्दिमसोभाय सोळसिम्पि कलं नाग्घन्ति, एवं ते अस्समेधादयो यञ्ञा मेत्तचित्तस्स वुत्तलक्खणेन सुभावितस्स सोळसिम्पि कलं नानुभवन्ति, न पापुणन्ति, नाग्घन्तीति अत्थो.

इदानि अपरेपि दिट्ठधम्मिकसम्परायिके मेत्ताभावनाय आनिसंसे दस्सेतुं ‘‘यो न हन्ती’’तिआदि वुत्तं. तत्थ योति मेत्ताब्रह्मविहारभावनानुयुत्तो पुग्गलो. न हन्तीति तेनेव मेत्ताभावनानुभावेन दूरविक्खम्भितब्यापादताय न कञ्चि सत्तं हिंसति, लेड्डुदण्डादीहि न विबाधति वा. न घातेतीति परं समादपेत्वा न सत्ते हनापेति न विबाधापेति च. न जिनातीति सारम्भविग्गाहिककथादिवसेन न कञ्चि जिनाति सारम्भस्सेव अभावतो, जानिकरणवसेन वा अड्डकरणादिना न कञ्चि जिनाति. न जापयेति परेपि पयोजेत्वा परेसं धनजानिं न कारापेय्य. मेत्तंसोति मेत्तामयचित्तकोट्ठासो, मेत्ताय वा अंसो अविजहनट्ठेन अवयवभूतोति मेत्तंसो. सब्बभूतेसूति सब्बसत्तेसु. ततो एव वेरं तस्स न केनचीति अकुसलवेरं तस्स केनचिपि कारणेन नत्थि, पुग्गलवेरसङ्खातो विरोधो केनचि पुरिसेन सद्धिं तस्स मेत्ताविहारिस्स नत्थीति.

एवमेतस्मिं एककनिपाते पटिपाटिया तेरससु सुत्तेसु सिक्खासुत्तद्वये चाति पन्नरससु सुत्तेसु विवट्टं कथितं, नीवरणसुत्तं संयोजनसुत्तं अप्पमादसुत्तं अट्ठिसञ्चयसुत्तन्ति एतेसु चतूसु सुत्तेसु वट्टविवट्टं कथितं. इतरेसु पन वट्टमेव कथितन्ति.

सत्तमसुत्तवण्णना निट्ठिता.

परमत्थदीपनिया

खुद्दकनिकाय-अट्ठकथाय

इतिवुत्तकस्स एककनिपातवण्णना निट्ठिता.