७. सब्बपरिञ्ञासुत्तवण्णना
७. सत्तमे सब्बन्ति अनवसेसं. अनवसेसवाचको हि अयं सब्ब-सद्दो. सो येन येन सम्बन्धं गच्छति, तस्स तस्स अनवसेसतं दीपेति; यथा ‘‘सब्बं रूपं, सब्बा वेदना, सब्बसक्कायपरियापन्नेसु धम्मेसू’’ति. सो पनायं सब्ब-सद्दो सप्पदेसनिप्पदेसविसयताय दुविधो. तथा हेस सब्बसब्बं, पदेससब्बं, आयतनसब्बं, सक्कायसब्बन्ति चतूसु विसयेसु दिट्ठप्पयोगो. तत्थ ‘‘सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथमागच्छन्ती’’तिआदीसु (चूळनि. मोघराजमाणवपुच्छानिद्देस ८५) सब्बसब्बस्मिं आगतो. ‘‘सब्बेसं वो, सारिपुत्ता, सुभासितं परियायेना’’तिआदीसु (म. नि. १.३४५) पदेससब्बस्मिं. ‘‘सब्बं वो, भिक्खवे, देसेस्सामि, चक्खुञ्चेव रूपञ्च…पे…. मनञ्चेव धम्मे चा’’ति (सं. नि. ४.२३-२५) एत्थ आयतनसब्बस्मिं. ‘‘सब्बधम्ममूलपरियायं वो, भिक्खवे, देसेस्सामी’’तिआदीसु (म. नि. १.१) सक्कायसब्बस्मिं. तत्थ सब्बसब्बस्मिं आगतो निप्पदेसविसयो, इतरेसु तीसुपि आगतो सप्पदेसविसयो. इध पन सक्कायसब्बस्मिं वेदितब्बो. विपस्सनाय आरम्मणभूता तेभूमकधम्मा हि इध ‘‘सब्ब’’न्ति अनवसेसतो गहिता.
अनभिजानन्ति ‘‘इमे धम्मा कुसला, इमे अकुसला, इमे सावज्जा, इमे अनवज्जा’’तिआदिना ‘‘इमे पञ्चक्खन्धा, इमानि द्वादसायतनानि, इमा अट्ठारस धातुयो, इदं दुक्खं अरियसच्चं, अयं दुक्खसमुदयो अरियसच्च’’न्ति च आदिना सब्बे अभिञ्ञेय्ये धम्मे अविपरीतसभावतो अनभिजानन्तो अभिविसिट्ठेन ञाणेन न जानन्तो. अपरिजानन्ति न परिजानन्तो. यो हि सब्बं तेभूमकधम्मजातं परिजानाति, सो तीहि परिञ्ञाहि परिजानाति – ञातपरिञ्ञाय, तीरणपरिञ्ञाय, पहानपरिञ्ञाय. तत्थ कतमा ञातपरिञ्ञा? सब्बं तेभूमकं नामरूपं – ‘‘इदं रूपं, एत्तकं रूपं, न इतो भिय्यो. इदं नामं, एत्तकं नामं, न इतो भिय्यो’’ति भूतप्पसादादिप्पभेदं रूपं, फस्सादिप्पभेदं नामञ्च, लक्खणरसपच्चुपट्ठानपदट्ठानतो ववत्थपेति. तस्स अविज्जादिकञ्च पच्चयं परिग्गण्हाति. अयं ञातपरिञ्ञा. कतमा तीरणपरिञ्ञा? एवं ञातं कत्वा तं सब्बं तीरेति अनिच्चतो दुक्खतो रोगतोति द्वाचत्तालीसाय आकारेहि. अयं तीरणपरिञ्ञा. कतमा पहानपरिञ्ञा? एवं तीरयित्वा अग्गमग्गेन सब्बस्मिं छन्दरागं पजहति. अयं पहानपरिञ्ञा.
दिट्ठिविसुद्धिकङ्खावितरणविसुद्धियोपि ञातपरिञ्ञा. मग्गामग्गपटिपदाञाणदस्सनविसुद्धियो कलापसम्मसनादिअनुलोमपरियोसाना वा पञ्ञा तीरणपरिञ्ञा. अरियमग्गेन पजहनं पहानपरिञ्ञा. यो सब्बं परिजानाति, सो इमाहि तीहि परिञ्ञाहि परिजानाति. इध पन विरागप्पहानानं पटिक्खेपवसेन विसुं गहितत्ता ञातपरिञ्ञाय तीरणपरिञ्ञाय च वसेन परिजानना वेदितब्बा. यो पनेवं न परिजानाति, तं सन्धाय वुत्तं ‘‘अपरिजान’’न्ति.
तत्थ चित्तं अविराजयन्ति तस्मिं अभिञ्ञेय्यविसेसे परिञ्ञेय्ये अत्तनो चित्तसन्तानं न विराजयं, न विरज्जन्तो; यथा तत्थ रागो न होति, एवं विरागानुपस्सनं न उप्पादेन्तोति अत्थो. अप्पजहन्ति विपस्सनापञ्ञासहिताय मग्गपञ्ञाय तत्थ पहातब्बयुत्तकं किलेसवट्टं अनवसेसतो न पजहन्तो. यथा चेतं, एवं अभिजाननादयोपि मिस्सकमग्गवसेन वेदितब्बा. पुब्बभागे हि नानाचित्तवसेन ञाततीरणपहानपरिञ्ञाहि कमेन अभिजाननादीनि सम्पादेत्वा मग्गकाले एकक्खणेनेव किच्चवसेन तं सब्बं निप्फादेन्तं एकमेव ञाणं पवत्ततीति. अभब्बो दुक्खक्खयायाति निब्बानाय सकलस्स वट्टदुक्खस्स खेपनाय न भब्बो, नालं न समत्थोति अत्थो.
सब्बञ्च खोति एत्थ च-सद्दो ब्यतिरेके, खो-सद्दो अवधारणे. तदुभयेन अभिजाननादितो लद्धब्बं विसेसं दुक्खक्खयस्स च एकन्तकारणं दीपेति. अभिजाननादीसु यं वत्तब्बं, तं वुत्तमेव. तत्थ पन पटिक्खेपवसेन वुत्तं, इध विधानवसेन वेदितब्बं. अयमेव विसेसो. अपिच अभिजानन्ति उपादानक्खन्धपञ्चकसङ्खातं सक्कायसब्बं सरूपतो पच्चयतो च ञाणस्स अभिमुखीकरणवसेन अभिजानन्तो हुत्वा अभावाकारादिपरिग्गहेन तं अनिच्चादिलक्खणेहि परिच्छिज्जमानवसेन परिजानन्तो. विराजयन्ति सम्मदेवस्स अनिच्चतादिअवबोधेन उप्पन्नभयादीनवनिब्बिदादिञाणानुभावेन अत्तनो चित्तं विरत्तं करोन्तो तत्थ अणुमत्तम्पि रागं अनुप्पादेन्तो. पजहन्ति वुट्ठानगामिनिविपस्सनासहिताय मग्गपञ्ञाय समुदयपक्खियं किलेसवट्टं पजहन्तो समुच्छिन्दन्तो. भब्बो दुक्खक्खयायाति एवं किलेसमलप्पहानेनेव सब्बस्स कम्मवट्टस्स परिक्खीणत्ता अनवसेसविपाकवट्टखेपनाय सकलसंसारवट्टदुक्खपरिक्खयभूताय वा अनुपादिसेसाय निब्बानधातुया भब्बो एकन्तेनेतं पापुणितुन्ति एवमेत्थ अत्थो दट्ठब्बो.
यो सब्बं सब्बतो ञत्वाति यो युत्तयोगो आरद्धविपस्सको सब्बं तेभूमकधम्मजातं सब्बतो सब्बभागेन कुसलादिक्खन्धादिविभागतो दुक्खादिपीळनादिविभागतो च. अथ वा सब्बतोति सब्बस्मा कक्खळफुसनादिलक्खणादितो अनिच्चादितो चाति सब्बाकारतो जानित्वा विपस्सनापुब्बङ्गमेन मग्गञाणेन पटिविज्झित्वा, विपस्सनाञाणेनेव वा जाननहेतु. सब्बत्थेसु न रज्जतीति सब्बेसु अतीतादिवसेन अनेकभेदभिन्नेसु सक्कायधम्मेसु न रज्जति, अरियमग्गाधिगमेन रागं न जनेति. इमिनास्स तण्हागाहस्स अभावं दस्सेन्तो तं निमित्तत्ता दिट्ठमानग्गाहानं ‘‘एतं मम एसोहमस्मि, एसो मे अत्ता’’ति इमस्स मिच्छागाहत्तयस्सपि अभावं दस्सेति. स वेति एत्थ स-इति निपातमत्तं. वे-ति ब्यत्तं, एकंसेनाति वा एतस्मिं अत्थे निपातो. सब्बपरिञ्ञाति सब्बपरिजाननतो, यथावुत्तस्स सब्बस्स अभिसमयवसेन परिजाननतो. सोति यथावुत्तो योगावचरो, अरियो एव वा. सब्बदुक्खमुपच्चगाति सब्बं वट्टदुक्खं अच्चगा अतिक्कमि, समतिक्कमीति अत्थो.
सत्तमसुत्तवण्णना निट्ठिता.