१. पसादबहुलब्राह्मणवत्थु
छिन्द सोतन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो पसादबहुलं ब्राह्मणं आरब्भ कथेसि.
सो किर ब्राह्मणो भगवतो धम्मदेसनं सुत्वा पसन्नचित्तो अत्तनो गेहे सोळसमत्तानं भिक्खूनं निच्चभत्तं पट्ठपेत्वा भिक्खूनं आगतवेलाय पत्तं गहेत्वा ‘‘आगच्छन्तु भोन्तो अरहन्तो, निसीदन्तु भोन्तो अरहन्तो’’ति यंकिञ्चि वदन्तो अरहन्तवादपटिसंयुत्तमेव वदति. तेसु पुथुज्जना ‘‘अयं अम्हेसु अरहन्तसञ्ञी’’ति चिन्तयिंसु, खीणासवा ‘‘अयं नो खीणासवभावं जानाती’’ति. एवं ते सब्बेपि कुक्कुच्चायन्ता तस्स गेहं नागमिंसु. सो दुक्खी दुम्मनो ‘‘किन्नु खो, अय्या, नागच्छन्ती’’ति विहारं गन्त्वा सत्थारं वन्दित्वा तमत्थं आरोचेसि. सत्था भिक्खू आमन्तेत्वा ‘‘किं एतं, भिक्खवे’’ति पुच्छित्वा तेहि तस्मिं अत्थे आरोचिते ‘‘सादियथ पन तुम्हे, भिक्खवे, अरहन्तवाद’’न्ति आह. ‘‘न सादियाम मयं, भन्ते’’ति. ‘‘एवं सन्ते मनुस्सानं एतं पसादभञ्ञं, अनापत्ति, भिक्खवे, पसादभञ्ञे, अपि च खो पन ब्राह्मणस्स अरहन्तेसु अधिमत्तं पेमं, तस्मा तुम्हेहिपि तण्हासोतं छेत्वा अरहत्तमेव पत्तुं युत्त’’न्ति वत्वा धम्मं देसेन्तो इमं गाथमाह –
३८३. ‘‘छिन्द सोतं परक्कम्म, कामे पनुद ब्राह्मण;
सङ्खारानं खयं ञत्वा, अकतञ्ञूसि ब्राह्मणा’’ति.
तत्थ परक्कम्माति तण्हासोतं नाम न अप्पमत्तकेन वायामेन छिन्दितुं सक्का, तस्मा ञाणसम्पयुत्तेन महन्तेन परक्कमेन परक्कमित्वा तं सोतं छिन्द. उभोपि कामे पनुद नीहर. ब्राह्मणाति खीणासवानं आलपनमेतं. सङ्खारानन्ति पञ्चन्नं खन्धानं खयं जानित्वा. अकतञ्ञूति एवं सन्ते त्वं सुवण्णादीसु केनचि अकतस्स निब्बानस्स जाननतो अकतञ्ञू नाम होसीति.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
पसादबहुलब्राह्मणवत्थु पठमं.