१२. सुमनसामणेरवत्थु
यो हवेति इमं धम्मदेसनं सत्था पुब्बारामे विहरन्तो सुमनसामणेरं आरब्भ कथेसि. तत्रायं अनुपुब्बी कथा –
पदुमुत्तरबुद्धकालस्मिञ्हि एको कुलपुत्तो सत्थारा चतुपरिसमज्झे एकं भिक्खुं दिब्बचक्खुकानं अग्गट्ठाने ठपेन्तं दिस्वा तं सम्पत्तिं पत्थयमानो सत्थारं निमन्तेत्वा सत्ताहं बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा, ‘‘भन्ते, अहम्पि अनागते एकस्स बुद्धस्स सासने दिब्बचक्खुकानं अग्गो भवेय्य’’न्ति पत्थनं ठपेसि. सत्था कप्पसतसहस्सं ओलोकेन्तो तस्स पत्थनाय समिज्झनभावं विदित्वा ‘‘इतो कप्पसतसहस्समत्थके गोतमबुद्धसासने दिब्बचक्खुकानं अग्गो अनुरुद्धो नाम भविस्ससी’’ति ब्याकासि. सो तं ब्याकरणं सुत्वा स्वे पत्तब्बं विय तं सम्पत्तिं मञ्ञमानो परिनिब्बुते सत्थरि भिक्खू दिब्बचक्खुपरिकम्मं पुच्छित्वा सत्तयोजनिकं कञ्चनथूपं परिक्खिपित्वा अनेकानि दीपरुक्खसहस्सानि कारेत्वा दीपपूजं कत्वा ततो चुतो देवलोके निब्बत्तित्वा देवमनुस्सेसु कप्पसतसहस्सानि संसरित्वा इमस्मिं कप्पे बाराणसियं दलिद्दकुले निब्बत्तो सुमनसेट्ठिं निस्साय तस्स तिणहारको हुत्वा जीविकं कप्पेसि. अन्नभारोतिस्स नामं अहोसि. सुमनसेट्ठीपि तस्मिं नगरे निच्चकालं महादानं देति.
अथेकदिवसं उपरिट्ठो नाम पच्चेकबुद्धो गन्धमादने निरोधसमापत्तितो वुट्ठाय ‘‘कस्स नु खो अज्ज अनुग्गहं करिस्सामी’’ति चिन्तेत्वा ‘‘अज्ज मया अन्नभारस्स अनुग्गहं कातुं वट्टति, इदानि च सो अटवितो तिणं आदाय गेहं आगमिस्सती’’ति ञत्वा पत्तचीवरमादाय इद्धिया गन्त्वा अन्नभारस्स सम्मुखे पच्चुट्ठासि. अन्नभारो तं तुच्छपत्तहत्थं दिस्वा ‘‘अपि, भन्ते, भिक्खं लभित्था’’ति पुच्छित्वा ‘‘लभिस्साम महापुञ्ञा’’ति वुत्ते ‘‘तेन हि, भन्ते, थोकं आगमेथा’’ति तिणकाजं छड्डेत्वा वेगेन गेहं गन्त्वा, ‘‘भद्दे, मय्हं ठपितभागभत्तं अत्थि, नत्थी’’ति भरियं पुच्छित्वा ‘‘अत्थि, सामी’’ति वुत्ते वेगेन पच्चागन्त्वा पच्चेकबुद्धस्स पत्तं आदाय ‘‘मय्हं दातुकामताय सति देय्यधम्मो न होति, देय्यधम्मे सति पटिग्गाहकं न लभामि. अज्ज पन मे पटिग्गाहको च दिट्ठो, देय्यधम्मो च अत्थि, लाभा वत मे’’ति गेहं गन्त्वा भत्तं पत्ते पक्खिपापेत्वा पच्चाहरित्वा पच्चेकबुद्धस्स हत्थे पतिट्ठपेत्वा –
‘‘इमिना पन दानेन, मा मे दालिद्दियं अहु;
नत्थीति वचनं नाम, मा अहोसि भवाभवे. –
भन्ते एवरूपा दुज्जीविता मुच्चेय्यं, नत्थीति पदमेव न सुणेय्य’’न्ति पत्थनं ठपेसि. पच्चेकबुद्धो ‘‘एवं होतु महापुञ्ञा’’ति वत्वा अनुमोदनं कत्वा पक्कामि.
सुमनसेट्ठिनोपि छत्ते अधिवत्था देवता ‘‘अहो दानं परमदानं, उपरिट्ठे सुपतिट्ठित’’न्ति वत्वा तिक्खत्तुं साधुकारमदासि. अथ नं सेट्ठि ‘‘किं मं एत्तकं कालं दानं ददमानं न पस्ससी’’ति आह. नाहं तव दानं आरब्भ साधुकारं देमि, अन्नभारेन पन उपरिट्ठस्स दिन्नपिण्डपाते पसीदित्वा मया एस साधुकारो पवत्तितोति. सो ‘‘अच्छरियं वत, भो, अहं एत्तकं कालं दानं ददन्तो देवतं साधुकारं दापेतुं नासक्खिं, अन्नभारो मं निस्साय जीवन्तो एकपिण्डपातेनेव साधुकारं दापेसि, तस्स दाने अनुच्छविकं कत्वा तं पिण्डपातं मम सन्तकं करिस्सामी’’ति चिन्तेत्वा तं पक्कोसापेत्वा ‘‘अज्ज तया कस्सचि किञ्चि दिन्न’’न्ति पुच्छि. ‘‘आम, सामि, उपरिट्ठपच्चेकबुद्धस्स मे अज्ज भागभत्तं दिन्न’’न्ति. ‘‘हन्द, भो, कहापणं गहेत्वा एतं मय्हं पिण्डपातं देही’’ति? ‘‘न देमि, सामी’’ति. सो याव सहस्सं वड्ढेसि, इतरो सहस्सेनापि नादासि. अथ नं ‘‘होतु, भो, यदि पिण्डपातं न देसि, सहस्सं गहेत्वा पत्तिं मे देही’’ति आह. सो ‘‘अय्येन सद्धिं मन्तेत्वा जानिस्सामी’’ति वेगेन पच्चेकबुद्धं सम्पापुणित्वा, ‘‘भन्ते सुमनसेट्ठि, सहस्सं दत्वा तुम्हाकं पिण्डपाते पत्तिं याचति, किं करोमी’’ति पुच्छि.
अथस्स सो उपमं आहरि ‘‘सेय्यथापि, पण्डित, कुलसतिके गामे एकस्मिं घरे दीपं जालेय्य, सेसा अत्तनो तेलेन वट्टिं तेमेत्वा जालापेत्वा गण्हेय्युं, पुरिमपदीपस्स पभा अत्थीति वत्तब्बा नत्थी’’ति. अतिरेकतरा, भन्ते, पभा होतीति. एवमेवं पण्डित उळुङ्कयागु वा होतु, कटच्छुभिक्खा वा, अत्तनो पिण्डपाते परेसं पत्तिं देन्तस्स यत्तकानं देति, तत्तकं वड्ढति. त्वञ्हि एकमेव पिण्डपातं अदासि, सेट्ठिस्स पन पत्तिया दिन्नाय द्वे पिण्डपाता होन्ति एको तव, एको तस्साति.
सो ‘‘साधु, भन्ते’’ति तं अभिवादेत्वा सेट्ठिस्स सन्तिकं गन्त्वा ‘‘गण्ह, सामि, पत्ति’’न्ति आह. तेन हि इमे कहापणे गण्हाति. नाहं पिण्डपातं विक्किणामि, सद्धाय ते पत्तिं दम्मीति. ‘‘त्वं सद्धाय देसि, अहम्पि तव गुणे पूजेमि, गण्ह, तात, इतो पट्ठाय च पन मा सहत्था कम्ममकासि, वीथियं घरं मापेत्वा वस. येन च ते अत्थो होति, सब्बं मम सन्तिका गण्हाही’’ति आह. निरोधा वुट्ठितस्स पन दिन्नपिण्डपातो तदहेव विपाकं देति. तस्मा राजापि तं पवत्तिं सुत्वा अन्नभारं पक्कोसापेत्वा पत्तिं गहेत्वा महन्तं भोगं दत्वा तस्स सेट्ठिट्ठानं दापेसि.
सो सुमनसेट्ठिस्स सहायको हुत्वा यावजीवं पुञ्ञानि कत्वा ततो चुतो देवलोके निब्बत्तित्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कपिलवत्थुनगरे अमितोदनस्स सक्कस्स गेहे पटिसन्धिं गण्हि, अनुरुद्धोतिस्स नामं अकंसु. सो महानामसक्कस्स कनिट्ठभाता, सत्थु चूळपितु पुत्तो परमसुखुमालो महापुञ्ञो अहोसि. एकदिवसं किर छसु खत्तियेसु पूवे लक्खं कत्वा गुळेहि कीळन्तेसु अनुरुद्धो पराजितो पूवानं अत्थाय मातु सन्तिकं पहिणि. सा महन्तं सुवण्णथालं पूरेत्वा पूवे पेसेसि. पूवे खादित्वा पुन कीळन्तो पराजितो तथेव पहिणि. एवं तिक्खत्तुं पूवेसु आहटेसु चतुत्थे वारे माता ‘‘इदानि पूवा नत्थी’’ति पहिणि. तस्सा वचनं सुत्वा ‘‘नत्थी’’ति पदस्स असुतपुब्बताय ‘‘नत्थिपूवा नाम इदानि भविस्सन्ती’’ति सञ्ञं कत्वा ‘‘गच्छ नत्थिपूवे आहरा’’ति पेसेसि. अथस्स माता ‘‘नत्थिपूवे किर, अय्ये, देथा’’ति वुत्ते ‘‘मम पुत्तेन नत्थीति पदं न सुतपुब्बं, कथं नु खो नत्थिभावं जानापेय्य’’न्ति सुवण्णपातिं धोवित्वा अपराय सुवण्णपातिया पटिकुज्जित्वा ‘‘हन्द, तात, इमं मम पुत्तस्स देही’’ति पहिणि. तस्मिं खणे नगरपरिग्गाहिका देवता ‘‘अम्हाकं सामिना अन्नभारकाले उपरिट्ठस्स पच्चेकबुद्धस्स भागभत्तं दत्वा ‘नत्थीति पदमेव न सुणेय्य’न्ति पत्थना नाम ठपिता. सचे मयं तमत्थं ञत्वा अज्झुपेक्खेय्याम, मुद्धापि नो सत्तधा फलेय्या’’ति चिन्तेत्वा दिब्बपूवेहि पातिं पूरयिंसु. सो पुरिसो पातिं आहरित्वा तस्स सन्तिके ठपेत्वा विवरि. तेसं गन्धो सकलनगरं फरि. पूवो पन मुखे ठपितमत्तोव सत्तरसहरणिसहस्सानि फरित्वा अट्ठासि.
अनुरुद्धोपि चिन्तेसि – ‘‘न मं मञ्ञे इतो पुब्बे माता पियायति. न हि मे अञ्ञदा ताय नत्थिपूवा नाम पक्कपुब्बा’’ति. सो गन्त्वा मातरं एवमाह – ‘‘अम्म, नाहं तव पियो’’ति. तात, किं वदेसि, मम अक्खीहिपि हदयमंसतोपि त्वं पियतरोति. सचाहं, अम्म, तव पियो, कस्मा मम पुब्बे एवरूपे नत्थिपूवे नाम न अदासीति. सा तं पुरिसं पुच्छि – ‘‘तात, किञ्चि पातियं अहोसी’’ति. आम, अय्ये, पूवानं पाति परिपुण्णा अहोसि, न मे एवरूपा दिट्ठपुब्बाति. सा चिन्तेसि – ‘‘पुत्तो मे कतपुञ्ञो, देवताहिस्स दिब्बपूवा पहिता भविस्सन्ती’’ति. सोपि मातरं आह – ‘‘अम्म, न मया एवरूपा पूवा खादितपुब्बा, इतो पट्ठाय मे नत्थिपूवमेव पचेय्यासी’’ति. सा ततो पट्ठाय तेन ‘‘पूवे खादितुकामोम्ही’’ति वुत्तकाले सुवण्णपातिं धोवित्वा अञ्ञाय पातिया पटिकुज्जित्वा पहिणति, देवता पातिं पूरेन्ति. एवं सो अगारमज्झे वसन्तो नत्थीति पदस्स अत्थं अजानित्वा दिब्बपूवेयेव परिभुञ्जि.
सत्थु पन परिवारत्थं कुलपटिपाटिया साकियकुमारेसु पब्बजन्तेसु महानामेन सक्केन, ‘‘तात, अम्हाकं कुला कोचि पब्बजितो नत्थि, तया वा पब्बजितब्बं, मया वा’’ति वुत्ते सो आह – ‘‘अहं अतिसुखुमालो पब्बजितुं न सक्खिस्सामी’’ति. तेन हि कम्मन्तं उग्गण्ह, अहं पब्बजिस्सामीति. को एस कम्मन्तो नामाति? सो हि भत्तस्स उट्ठानट्ठानम्पि न जानाति, कम्मन्तं किमेव जानिस्सति, तस्मा एवमाह. एकदिवसञ्हि अनुरुद्धो भद्दियो किमिलोति तयो जना ‘‘भत्तं नाम कहं उट्ठाती’’ति मन्तयिंसु. तेसु किमिलो ‘‘कोट्ठेसु उट्ठाती’’ति आह. सो किरेकदिवसं वीही कोट्ठम्हि पक्खिपन्ते अद्दस, तस्मा ‘‘कोट्ठे भत्तं उप्पज्जती’’ति सञ्ञाय एवमाह. अथ नं भद्दियो ‘‘त्वं न जानासी’’ति वत्वा ‘‘भत्तं नाम उक्खलियं उट्ठाती’’ति आह. सो किरेकदिवसं उक्खलितो भत्तं वड्ढेन्ते दिस्वा ‘‘एत्थेवेतं उप्पज्जती’’ति सञ्ञमकासि, तस्मा एवमाह. अनुरुद्धो ते उभोपि ‘‘तुम्हे न जानाथा’’ति वत्वा ‘‘भत्तं नाम रतनुब्बेधमकुळाय महासुवण्णपातियं उट्ठाती’’ति आह. तेन किर नेव वीहिं कोट्टेन्ता, न भत्तं पचन्ता दिट्ठपुब्बा, सुवण्णपातियं वड्ढेत्वा पुरतो ठपितभत्तमेव पस्सति, तस्मा ‘‘पातियंयेवेतं उप्पज्जती’’ति सञ्ञमकासि, तस्मा एवमाह. एवं भत्तुट्ठानट्ठानम्पि अजानन्तो महापुञ्ञो कुलपुत्तो कम्मन्ते किं जानिस्सति.
सो ‘‘एहि खो ते, अनुरुद्ध, घरावासत्थं अनुसासिस्सामि, पठमं खेत्तं कसापेतब्ब’’न्तिआदिना नयेन भातरा वुत्तानं कम्मन्तानं अपरियन्तभावं सुत्वा ‘‘न मे घरावासेन अत्थो’’ति मातरं आपुच्छित्वा भद्दियपमुखेहि पञ्चहि साकियकुमारेहि सद्धिं निक्खमित्वा अनुपियम्बवने सत्थारं उपसङ्कमित्वा पब्बजि. पब्बजित्वा च पन सम्मापटिपदं पटिपन्नो अनुपुब्बेन तिस्सो विज्जा सच्छिकत्वा दिब्बेन चक्खुना एकासने निसिन्नोव हत्थतले ठपितआमलकानि विय सहस्सलोकधातुयो ओलोकनसमत्थो हुत्वा –
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;
तेविज्जो इद्धिपत्तोम्हि, कतं बुद्धस्स सासन’’न्ति. (थेरगा. ३३२, ५६२) –
उदानं उदानेत्वा ‘‘किं नु खो मे कत्वा अयं सम्पत्ति लद्धा’’ति ओलोकेन्तो ‘‘पदुमुत्तरपादमूले पत्थनं ठपेसि’’न्ति ञत्वा पुन ‘‘संसारे संसरन्तो असुकस्मिं नाम काले बाराणसियं सुमनसेट्ठिं निस्साय जीवन्तो अन्नभारो नाम अहोसि’’न्तिपि ञत्वा –
‘‘अन्नभारो पुरे आसिं, दलिद्दो तिणहारको;
पिण्डपातो मया दिन्नो, उपरिट्ठस्स तादिनो’’ति. –
आह. अथस्स एतदहोसि – ‘‘यो सो तदा मया उपरिट्ठस्स दिन्नपिण्डपाततो कहापणे दत्वा पत्तिं अग्गहेसि, मम सहायको सुमनसेट्ठि कहं नु खो सो एतरहि निब्बत्तो’’ति. अथ नं ‘‘विञ्झाटवियं पब्बतपादे मुण्डनिगमो नाम अत्थि, तत्थ महामुण्डस्स नाम उपासकस्स महासुमनो चूळसुमनोति द्वे पुत्ता, तेसु सो चूळसुमनो हुत्वा निब्बत्तो’’ति अद्दस. दिस्वा च पन चिन्तेसि – ‘‘अत्थि नु खो तत्थ मयि गते उपकारो, नत्थी’’ति. सो उपधारेन्तो इदं अद्दस ‘‘सो तत्थ मयि गते सत्तवस्सिकोव निक्खमित्वा पब्बजिस्सति, खुरग्गेयेव च अरहत्तं पापुणिस्सती’’ति. दिस्वा च पन उपकट्ठे अन्तोवस्से आकासेन गन्त्वा गामद्वारे ओतरि. महामुण्डो पन उपासको थेरस्स पुब्बेपि विस्सासिको एव. सो थेरं पिण्डपातकाले चीवरं पारुपन्तं दिस्वा पुत्तं महासुमनं आह – ‘‘तात, अय्यो, मे अनुरुद्धत्थेरो आगतो, यावस्स अञ्ञो कोचि पत्तं न गण्हाति, तावस्स गन्त्वा पत्तं गण्ह, अहं आसनं पञ्ञापेस्सामी’’ति. सो तथा अकासि. उपासको थेरं अन्तोनिवेसने सक्कच्चं परिविसित्वा तेमासं वसनत्थाय पटिञ्ञं गण्हि, थेरोपि अधिवासेसि.
अथ नं एकदिवसं पटिजग्गन्तो विय तेमासं पटिजग्गित्वा महापवारणाय तिचीवरञ्चेव गुळतेलतण्डुलादीनि च आहरित्वा थेरस्स पादमूले ठपेत्वा ‘‘गण्हथ, भन्ते’’ति आह. ‘‘अलं, उपासक, न मे इमिना अत्थो’’ति. ‘‘तेन हि, भन्ते, वस्सावासिकलाभो नामेस, गण्हथ न’’न्ति? ‘‘न गण्हामि, उपासका’’ति. ‘‘किमत्थं न गण्हथ, भन्ते’’ति? ‘‘मय्हं सन्तिके कप्पियकारको सामणेरोपि नत्थी’’ति. ‘‘तेन हि, भन्ते, मम पुत्तो महासुमनो सामणेरो भविस्सती’’ति. ‘‘न मे, उपासक, महासुमनेनत्थो’’ति. ‘‘तेन हि, भन्ते, चूळसुमनं पब्बाजेथा’’ति. थेरो ‘‘साधू’’ति सम्पटिच्छित्वा चूळसुमनं पब्बाजेसि. सो खुरग्गेयेव अरहत्तं पापुणि. थेरो तेन सद्धिं अड्ढमासमत्तं तत्थेव वसित्वा ‘‘सत्थारं पस्सिस्सामी’’ति तस्स ञातके आपुच्छित्वा आकासेनेव गन्त्वा हिमवन्तपदेसे अरञ्ञकुटिकाय ओतरि.
थेरो पन पकतियापि आरद्धवीरियो, तस्स तत्थ पुब्बरत्तापररत्तं चङ्कमन्तस्स उदरवातो समुट्ठहि. अथ नं किलन्तरूपं दिस्वा सामणेरो पुच्छि – ‘‘भन्ते, किं वो रुज्जती’’ति? ‘‘उदरवातो मे समुट्ठितो’’ति. ‘‘अञ्ञदापि समुट्ठितपुब्बो, भन्ते’’ति? ‘‘आमावुसो’’ति. ‘‘केन फासुकं होति, भन्ते’’ति? ‘‘अनोतत्ततो पानीये लद्धे फासुकं होति, आवुसो’’ति. ‘‘तेन हि, भन्ते, आहरामी’’ति. ‘‘सक्खिस्ससि सामणेरा’’ति? ‘‘आम, भन्ते’’ति. तेन हि अनोतत्ते पन्नगो नाम नागराजा मं जानाति, तस्स आचिक्खित्वा भेसज्जत्थाय एकं पानीयवारकं आहराति. सो साधूति उपज्झायं वन्दित्वा वेहासं अब्भुग्गन्त्वा पञ्चयोजनसतं ठानं अगमासि. तं दिवसं पन नागराजा नागनाटकपरिवुतो उदककीळं कीळितुकामो होति. सो सामणेरं आगच्छन्तं दिस्वाव कुज्झि, ‘‘अयं मुण्डकसमणो अत्तनो पादपंसुं मम मत्थके ओकिरन्तो विचरति, अनोतत्ते पानीयत्थाय आगतो भविस्सति, न दानिस्स पानीयं दस्सामी’’ति पण्णासयोजनिकं अनोतत्तदहं महापातिया उक्खलिं पिदहन्तो विय फणेन पिदहित्वा निपज्जि. सामणेरो नागराजस्स आकारं ओलोकेत्वाव ‘‘कुद्धो अय’’न्ति ञत्वा इमं गाथमाह –
‘‘सुणोहि मे नागराज, उग्गतेज महब्बल;
देहि मे पानीयघटं, भेसज्जत्थम्हि आगतो’’ति.
तं सुत्वा नागराजा इमं गाथमाह –
‘‘पुरत्थिमस्मिं दिसाभागे, गङ्गा नाम महानदी;
महासमुद्दमप्पेति, ततो त्वं पानीयं हरा’’ति.
तं सुत्वा सामणेरो ‘‘अयं नागराजा अत्तनो इच्छाय न दस्सति, अहं बलक्कारं कत्वा आनुभावं जानापेत्वा इमं अभिभवित्वाव पानीयं गण्हिस्सामी’’ति चिन्तेत्वा, ‘‘महाराज, उपज्झायो मं अनोतत्ततोव पानीयं आहरापेति, तेनाहं इदमेव हरिस्सामि, अपेहि, मा मं वारेही’’ति वत्वा इमं गाथमाह –
‘‘इतोव पानीयं हास्सं, इमिनावम्हि अत्थिको;
यदि ते थामबलं अत्थि, नागराज निवारया’’ति.
अथ नं नागराजा आह –
‘‘सामणेर सचे अत्थि, तव विक्कम पोरिसं;
अभिनन्दामि ते वाचं, हरस्सु पानीयं ममा’’ति.
अथ नं सामणेरो ‘‘एवं, महाराज, हरामी’’ति वत्वा ‘‘यदि सक्कोन्तो हराही’’ति वुत्ते – ‘‘तेन हि सुट्ठु जानस्सू’’ति तिक्खत्तुं पटिञ्ञं गहेत्वा ‘‘बुद्धसासनस्स आनुभावं दस्सेत्वा मया पानीयं हरितुं वट्टती’’ति चिन्तेत्वा आकासट्ठदेवतानं ताव सन्तिकं अगमासि. ता आगन्त्वा वन्दित्वा ‘‘किं, भन्ते’’ति वत्वा अट्ठंसु. ‘‘एतस्मिं अनोतत्तदहपिट्ठे पन्नगनागराजेन सद्धिं मम सङ्गामो भविस्सति, तत्थ गन्त्वा जयपराजयं ओलोकेथा’’ति आह. सो एतेनेव नीहारेन चत्तारो लोकपाले सक्कसुयामसन्तुसितपरनिम्मितवसवत्ती च उपसङ्कमित्वा तमत्थं आरोचेसि. ततो परं पटिपाटिया याव ब्रह्मलोकं गन्त्वा तत्थ तत्थ ब्रह्मेहि आगन्त्वा वन्दित्वा ठितेहि ‘‘किं, भन्ते’’ति पुट्ठो तमत्थं आरोचेसि. एवं सो असञ्ञे च अरूपिब्रह्मानो च ठपेत्वा सब्बत्थ मुहुत्तेनेव आहिण्डित्वा आरोचेसि. तस्स वचनं सुत्वा सब्बापि देवता अनोतत्तदहपिट्ठे नाळियं पक्खित्तानि पिट्ठचुण्णानि विय आकासं निरन्तरं पूरेत्वा सन्निपतिंसु. सन्निपतिते देवसङ्घे सामणेरो आकासे ठत्वा नागराजं आह –
‘‘सुणोहि मे नागराज, उग्गतेज महब्बल;
देहि मे पानीयघटं, भेसज्जत्थम्हि आगतो’’ति.
अथ नं नागो आह –
‘‘सामणेर सचे अत्थि, तव विक्कम पोरिसं;
अभिनन्दामि ते वाचं, हरस्सु पानीयं ममा’’ति.
सो तिक्खत्तुं नागराजस्स पटिञ्ञं गहेत्वा आकासे ठितकोव द्वादसयोजनिकं ब्रह्मत्तभावं मापेत्वा आकासतो ओरुय्ह नागराजस्स फणे अक्कमित्वा अधोमुखं निप्पीळेसि, तावदेव बलवता पुरिसेन अक्कन्तअल्लचम्मं विय नागराजस्स फणे अक्कन्तमत्ते ओगलित्वा दब्बिमत्ता फणपुटका अहेसुं. नागराजस्स फणेहि मुत्तमुत्तट्ठानतो तालक्खन्धपमाणा उदकवट्टियो उग्गञ्छिंसु. सामणेरो आकासेयेव पानीयवारकं पूरेसि. देवसङ्घो साधुकारमदासि. अथ नागराजा लज्जित्वा सामणेरस्स कुज्झि, जयकुसुमवण्णानिस्स अक्खीनि अहेसुं. सो ‘‘अयं मं देवसङ्घं सन्निपातेत्वा पानीयं गहेत्वा लज्जापेसि, एतं गहेत्वा मुखे हत्थं पक्खिपित्वा हदयमंसं वास्स मद्दामि, पादे वा नं गहेत्वा पारगङ्गायं खिपामी’’ति वेगेन अनुबन्धि. अनुबन्धन्तोपि नं पापुणितुं नासक्खियेव. सामणेरो गन्त्वा उपज्झायस्स हत्थे पानीयं ठपेत्वा ‘‘पिवथ, भन्ते’’ति आह. नागराजापि पच्छतो आगन्त्वा, ‘‘भन्ते अनुरुद्ध, सामणेरो मया अदिन्नमेव पानीयं गहेत्वा आगतो, मा पिवित्था’’ति आह. एवं किर सामणेराति. ‘‘पिवथ, भन्ते, इमिना मे दिन्नं पानीयं आहट’’न्ति आह. थेरो ‘‘खीणासवसामणेरस्स मुसाकथनं नाम नत्थी’’ति ञत्वा पानीयं पिवि. तङ्खणञ्ञेवस्स आबाधो पटिपस्सम्भि. पुन नागो थेरं आह – ‘‘भन्ते, सामणेरेनम्हि सब्बं देवगणं सन्निपातेत्वा लज्जापितो, अहमस्स हदयं वा फालेस्सामि, पादे वा नं गहेत्वा पारगङ्गाय खिपिस्सामी’’ति. महाराज, सामणेरो महानुभावो, तुम्हे सामणेरेन सद्धिं सङ्गामेतुं न सक्खिस्सथ, खमापेत्वा नं गच्छथाति. सो सयम्पि सामणेरस्स आनुभावं जानातियेव, लज्जाय पन अनुबन्धित्वा आगतो. अथ नं थेरस्स वचनेन खमापेत्वा तेन सद्धिं मित्तसन्थवं कत्वा ‘‘इतो पट्ठाय अनोतत्तउदकेन अत्थे सति तुम्हाकं आगमनकिच्चं नत्थि, मय्हं पहिणेय्याथ, अहमेव आहरित्वा दस्सामी’’ति वत्वा पक्कामि.
थेरोपि सामणेरं आदाय पायासि. सत्था थेरस्स आगमनभावं ञत्वा मिगारमातुपासादे थेरस्स आगमनं ओलोकेन्तो निसीदि. भिक्खूपि थेरं आगच्छन्तं दिस्वा पच्चुग्गन्त्वा पत्तचीवरं पटिग्गहेसुं. अथेकच्चे सामणेरं सीसेपि कण्णेसुपि बाहायम्पि गहेत्वा सञ्चालेत्वा ‘‘किं, सामणेर चूळकनिट्ठ, न उक्कण्ठितोसी’’ति आहंसु. सत्था तेसं किरियं दिस्वा चिन्तेसि – ‘‘भारियं वतिमेसं भिक्खूनं कम्मं आसीविसं गीवाय गण्हन्ता विय सामणेरं गण्हन्ति, नास्स आनुभावं जानन्ति, अज्ज मया सुमनसामणेरस्स गुणं पाकटं कातुं वट्टती’’ति. थेरोपि आगन्त्वा सत्थारं वन्दित्वा निसीदि. सत्था तेन सद्धिं पटिसन्थारं कत्वा आनन्दत्थेरं आमन्तेसि – ‘‘आनन्द, अनोतत्तउदकेनम्हि पादे धोवितुकामो, सामणेरानं घटं दत्वा पानीयं आहरापेही’’ति. थेरो विहारे पञ्चमत्तानि सामणेरसतानि सन्निपातेसि. तेसु सुमनसामणेरो सब्बनवको अहोसि. थेरो सब्बमहल्लकं सामणेरं आह – ‘‘सामणेर, सत्था अनोकत्तदहउदकेन पादे धोवितुकामो, घटं आदाय गन्त्वा पानीयं आहरा’’ति. सो ‘‘न सक्कोमि, भन्ते’’ति न इच्छि. थेरो सेसेपि पटिपाटिया पुच्छि, तेपि तथेव वत्वा पटिक्खिपिंसु. ‘‘किं पनेत्थ खीणासवसामणेरा नत्थी’’ति? अत्थि, ते पन ‘‘नायं अम्हाकं बद्धो मालापुटो, सुमनसामणेरस्सेव बद्धो’’ति न इच्छिंसु, पुथुज्जना पन अत्तनो असमत्थतायेव न इच्छिंसु. परियोसाने पन सुमनस्स वारे सम्पत्ते, ‘‘सामणेर, सत्था अनोतत्तदहउदकेन पादे धोवितुकामो, कुटं आदाय किर उदकं आहरा’’ति आह. सो ‘‘सत्थरि आहरापेन्ते आहरिस्सामी’’ति सत्थारं वन्दित्वा, ‘‘भन्ते, अनोतत्ततो किर मं उदकं आहारापेथा’’ति आह. ‘‘आम, सुमना’’ति. सो विसाखाय कारितेसु घनसुवण्णकोट्टिमेसु सेनासनकुटेसु एकं सट्ठिकुटउदकगण्हनकं महाघटं हत्थेन गहेत्वा ‘‘इमिना मे उक्खिपित्वा अंसकूटे ठपितेन अत्थो नत्थी’’ति ओलम्बकं कत्वा वेहासं अब्भुग्गन्त्वा हिमवन्ताभिमुखो पक्खन्दि.
नागराजा सामणेरं दूरतोव आगच्छन्तं दिस्वा पच्चुग्गन्त्वा कुटं अंसकूटेन आदाय, ‘‘भन्ते, तुम्हे मादिसे दासे विज्जमाने कस्मा सयं आगता, उदकेनत्थे सति कस्मा सासनमत्तम्पि न पहिणथा’’ति कुटेन उदकं आदाय सयं उक्खिपित्वा ‘‘पुरतो होथ, भन्ते, अहमेव आहरिस्सामी’’ति आह. ‘‘तिट्ठथ तुम्हे, महाराज, अहमेव सम्मासम्बुद्धेन आणत्तो’’ति नागराजानं निवत्तापेत्वा कुटं मुखवट्टियं हत्थेन गहेत्वा आकासेनागञ्छि. अथ नं सत्था आगच्छन्तं ओलोकेत्वा भिक्खू आमन्तेसि – ‘‘पस्सथ, भिक्खवे, सामणेरस्स लीलं, आकासे हंसराजा विय सोभती’’ति आह. सोपि पानीयघटं ठपेत्वा सत्थारं वन्दित्वा अट्ठासि. अथ नं सत्था आह – ‘‘कतिवस्सोसि त्वं, सुमना’’ति? ‘‘सत्तवस्सोम्हि, भन्तेति. ‘‘तेन हि, सुमन, अज्ज पट्ठाय भिक्खु होही’’ति वत्वा दायज्जउपसम्पदं अदासि. द्वेयेव किर सामणेरा सत्तवस्सिका उपसम्पदं लभिंसु – अयञ्च सुमनो सोपाको चाति.
एवं तस्मिं उपसम्पन्ने धम्मसभायं कथं समुट्ठापेसुं, ‘‘अच्छरियं आवुसो, एवरूपो हि नाम दहरसामणेरस्स आनुभावो होति, न नो इतो पुब्बे एवरूपो आनुभावो दिट्ठपुब्बो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, मम सासने दहरोपि सम्मा पटिपन्नो एवरूपं सम्पत्तिं लभतियेवा’’ति वत्वा धम्मं देसेन्तो इमं गाथमाह –
३८२. ‘‘यो हवे दहरो भिक्खु, युञ्जति बुद्धसासने;
सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा’’ति.
तत्थ युञ्जतीति घटति वायमति. पभासेतीति सो भिक्खु अत्तनो अरहत्तमग्गञाणेन अब्भादीहि मुत्तो चन्दिमा विय लोकं खन्धादिभेदं लोकं ओभासेति, एकालोकं करोतीति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
सुमनसामणेरवत्थु द्वादसमं.
भिक्खुवग्गवण्णना निट्ठिता.
पञ्चवीसतिमो वग्गो.