७. सम्बहुलभिक्खुवत्थु
सचे लभेथाति इमं धम्मदेसनं सत्था पालिलेय्यकं निस्साय रक्खितवनसण्डे विहरन्तो सम्बहुले भिक्खू आरब्भ कथेसि. वत्थु यमकवग्गे ‘‘परे च न विजानन्ती’’ति गाथावण्णनाय आगतमेव. वुत्तञ्हेतं (ध. प. अट्ठ. १.५ कोसम्बकवत्थु) –
तथागतस्स तत्थ हत्थिनागेन उपट्ठियमानस्स वसनभावो सकलजम्बुदीपे पाकटो अहोसि. सावत्थिनगरतो ‘‘अनाथपिण्डिको विसाखा महाउपासिका’’ति एवमादीनि महाकुलानि आनन्दत्थेरस्स सासनं पहिणिंसु ‘‘सत्थारं नो, भन्ते, दस्सेथा’’ति. दिसावासिनोपि पञ्चसता भिक्खू वुट्ठवस्सा आनन्दत्थेरं उपसङ्कमित्वा ‘‘चिरस्सुता नो, आवुसो आनन्द, भगवतो सम्मुखा धम्मी कथा, साधु मयं, आवुसो आनन्द, लभेय्याम भगवतो सम्मुखा धम्मिं कथं सवनाया’’ति याचिंसु. थेरो ते भिक्खू आदाय तत्थ गन्त्वा ‘‘तेमासं एकविहारिनो तथागतस्स सन्तिकं एत्तकेहि भिक्खूहि सद्धिं उपसङ्कमनं अयुत्त’’न्ति चिन्तेत्वा ते भिक्खू बहि ठपेत्वा एककोव सत्थारं उपसङ्कमि. पालिलेय्यको तं दिस्वा दण्डमादाय पक्खन्दि. तं सत्था ओलोकेत्वा ‘‘अपेहि, अपेहि, पालिलेय्यक, मा वारयि, बुद्धुपट्ठाको एसो’’ति आह. सो तत्थेव दण्डं छड्डेत्वा पत्तचीवरपटिग्गहणं आपुच्छि. थेरो नादासि. नागो ‘‘सचे उग्गहितवत्तो भविस्सति, सत्थु निसीदनपासाणफलके अत्तनो परिक्खारं न ठपेस्सती’’ति चिन्तेसि. थेरो पत्तचीवरं भूमियं ठपेसि. वत्तसम्पन्ना हि गरूनं आसने वा सयने वा अत्तनो परिक्खारं न ठपेन्ति.
थेरो सत्थारं वन्दित्वा एकमन्तं निसीदि. सत्था ‘‘एककोव आगतोसी’’ति पुच्छित्वा पञ्चहि भिक्खुसतेहि आगतभावं सुत्वा ‘‘कहं पन ते’’ति पुच्छित्वा ‘‘तुम्हाकं चित्तं अजानन्तो बहि ठपेत्वा आगतोम्ही’’ति वुत्ते ‘‘पक्कोसाहि ने’’ति आह. थेरो तथा अकासि. सत्था तेहि भिक्खूहि सद्धिं पटिसन्थारं कत्वा तेहि भिक्खूहि, ‘‘भन्ते, भगवा बुद्धसुखुमालो चेव खत्तियसुखुमालो च, तुम्हेहि तेमासं एककेहि तिट्ठन्तेहि निसीदन्तेहि च दुक्करं कतं, वत्तपटिवत्तकारकोपि मुखोदकादिदायकोपि नाहोसि मञ्ञे’’ति वुत्ते, ‘‘भिक्खवे, पालिलेय्यकहत्थिना मम सब्बकिच्चानि कतानि. एवरूपञ्हि सहायं लभन्तेन एककोव वसितुं युत्तं, अलभन्तस्स एकचारिकभावोव सेय्यो’’ति वत्वा नागवग्गे इमा गाथा अभासि –
३२८. ‘‘सचे लभेथ निपकं सहायं,
सद्धिंचरं साधुविहारि धीरं;
अभिभुय्य सब्बानि परिस्सयानि,
चरेय्य तेनत्तमनो सतीमा.
३२९. ‘‘नो चे लभेथ निपकं सहायं,
सद्धिंचरं साधुविहारि धीरं;
राजाव रट्ठं विजितं पहाय,
एको चरे मातङ्गरञ्ञेव नागो.
३३०. ‘‘एकस्स चरितं सेय्यो,
नत्थि बाले सहायता;
एको चरे न च पापानि कयिरा,
अप्पोस्सुक्को मातङ्गरञ्ञेव नागो’’ति.
तत्थ निपकन्ति नेपक्कपञ्ञाय समन्नागतं. साधुविहारि धीरन्ति भद्दकविहारिं पण्डितं. परिस्सयानीति तादिसं मेत्ताविहारिं सहायं लभन्तो सीहब्यग्घादयो पाकटपरिस्सये च रागभयदोसभयमोहभयादयो पटिच्छन्नपरिस्सये चाति सब्बेव परिस्सये अभिभवित्वा तेन सद्धिं अत्तमनो उपट्ठितसती हुत्वा चरेय्य, विहरेय्याति अत्थो.
राजाव रट्ठन्ति रट्ठं हित्वा गतो महाजनकराजा विय. इदं वुत्तं होति – यथा विजितभूमिपदेसो राजा ‘‘इदं रज्जं नाम महन्तं पमादट्ठानं, किं मे रज्जेन कारितेना’’ति विजितं रट्ठं पहाय एककोव महारञ्ञं पविसित्वा तापसपब्बज्जं पब्बजित्वा चतूसु इरियापथेसु एककोव चरति, एवं एककोव चरेय्याति. मातङ्गरञ्ञेव नागोति यथा च ‘‘अहं खो आकिण्णो विहरामि हत्थीहि हत्थिनीहि हत्थिकळभेहि हत्थिच्छापेहि, छिन्नग्गानि चेव तिणानि खादामि, ओभग्गोभग्गञ्च मे साखाभङ्गं खादन्ति, आविलानि च पानीयानि पिवामि, ओगाहा च मे उत्तिण्णस्स हत्थिनियो कायं उपनिघंसन्तियो गच्छन्ति, यंनूनाहं एककोव गणम्हा वूपकट्ठो विहरेय्य’’न्ति (महाव. ४६७; उदा. ३५) एवं पटिसञ्चिक्खित्वा गमनतो मातङ्गोति लद्धनामो इमस्मिं अरञ्ञे अयं हत्थिनागो यूथं पहाय सब्बिरियापथेसु एककोव सुखं चरति, एवम्पि एकोव चरेय्याति अत्थो.
एकस्साति पब्बजितस्स हि पब्बजितकालतो पट्ठाय एकीभावाभिरतस्स एककस्सेव चरितं सेय्यो. नत्थि बाले सहायताति चूळसीलं मज्झिमसीलं महासीलं दस कथावत्थूनि तेरस धुतङ्गगुणानि विपस्सनाञाणं चत्तारो मग्गा चत्तारि फलानि तिस्सो विज्जा छ अभिञ्ञा अमतमहानिब्बानन्ति अयञ्हि सहायता नाम. सा बाले निस्साय अधिगन्तुं न सक्काति नत्थि बाले सहायता. एकोति इमिना कारणेन सब्बिरियापथेसु एककोव चरेय्य, अप्पमत्तकानिपि न च पापानि कयिरा. यथा सो अप्पोस्सुक्को निरालयो इमस्मिं अरञ्ञे मातङ्गनागो इच्छितिच्छितट्ठाने सुखं चरति, एवं एककोव हुत्वा चरेय्य, अप्पमत्तकानिपि न च पापानि करेय्याति अत्थो. तस्मा तुम्हेहि पतिरूपं सहायं अलभन्तेहि एकचारीहेव भवितब्बन्ति इममत्थं दस्सेन्तो सत्था तेसं भिक्खूनं इमं धम्मदेसनं देसेसि.
देसनावसाने पञ्चसतापि ते भिक्खू अरहत्ते पतिट्ठहिंसूति.
सम्बहुलभिक्खुवत्थु सत्तमं.