६. इस्सापकतित्थिवत्थु

अकतन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अञ्ञतरं इस्सापकतं इत्थिं आरब्भ कथेसि.

तस्सा किर सामिको एकाय गेहदासिया सद्धिं सन्थवं अकासि. सा इस्सापकता तं दासिं हत्थपादेसु बन्धित्वा तस्सा कण्णनासं छिन्दित्वा एकस्मिं गुळ्हगब्भे पक्खिपित्वा द्वारं पिदहित्वा तस्स कम्मस्स अत्तना कतभावं पटिच्छादेतुं ‘‘एहि, अय्य, विहारं गन्त्वा धम्मं सुणिस्सामा’’ति सामिकं आदाय विहारं गन्त्वा धम्मं सुणन्ती निसीदि. अथस्सा आगन्तुकञातका गेहं आगन्त्वा द्वारं विवरित्वा तं विप्पकारं दिस्वा दासिं मोचयिंसु. सा विहारं गन्त्वा चतुपरिसमज्झे ठिता तमत्थं दसबलस्स आरोचेसि. सत्था तस्सा वचनं सुत्वा ‘‘दुच्चरितं नाम ‘इदं मे अञ्ञे न जानन्ती’ति अप्पमत्तकम्पि न कातब्बं, अञ्ञस्मिं अजानन्तेपि सुचरितमेव कातब्बं. पटिच्छादेत्वा कतम्पि हि दुच्चरितं नाम पच्छानुतापं करोति, सुचरितं पामोज्जमेव जनेती’’ति वत्वा इमं गाथमाह –

३१४. ‘‘अकतं दुक्कटं सेय्यो, पच्छा तप्पति दुक्कटं;

कतञ्च सुकतं सेय्यो, यं कत्वा नानुतप्पती’’ति.

तत्थ दुक्कटन्ति सावज्जं अपायसंवत्तनिकं कम्मं अकतमेव सेय्यो वरं उत्तमं. पच्छा तप्पतीति तञ्हि अनुस्सरितानुस्सरितकाले तप्पतियेव. सुकतन्ति अनवज्जं पन सुखदायकं सुगतिसंवत्तनिकमेव कम्मं कतं सेय्यो. यं कत्वाति यं कम्मं कत्वा पच्छा अनुस्सरणकाले न तप्पति नानुतप्पति, सोमनस्सजातोव होति, तं कम्मं वरन्ति अत्थो.

देसनावसाने उपासको च सा च इत्थी सोतापत्तिफले पतिट्ठहिंसु. तञ्च पन दासिं तत्थेव भुजिस्सं कत्वा धम्मचारिनिं करिंसूति.

इस्सापकतित्थिवत्थु छट्ठं.