६. वज्जिपुत्तकभिक्खुवत्थु
दुप्पब्बज्जन्ति इमं धम्मदेसनं सत्था वेसालिं निस्साय महावने विहरन्तो अञ्ञतरं वज्जिपुत्तकं भिक्खुं आरब्भ कथेसि. तं सन्धाय वुत्तं – अञ्ञतरो वज्जिपुत्तको भिक्खु वेसालियं विहरति अञ्ञतरस्मिं वनसण्डे, तेन खो पन समयेन वेसालियं सब्बरत्तिछणो होति. अथ खो सो भिक्खु वेसालिया तूरियताळितवादितनिग्घोससद्दं सुत्वा परिदेवमानो तायं वेलायं इमं गाथं अभासि –
‘‘एकका मयं अरञ्ञे विहराम,
अपविद्धंव वनस्मिं दारुकं;
एतादिसिकाय रत्तिया,
कोसु नामम्हेहि पापियो’’ति. (सं. नि. १.२२९);
सो किर वज्जिरट्ठे राजपुत्तो वारेन सम्पत्तं रज्जं पहाय पब्बजितो वेसालियं चातुमहाराजिकेहि सद्धिं एकाबद्धं कत्वा सकलनगरे धजपटाकादीहि पटिमण्डिते कोमुदिया पुण्णमाय सब्बरत्तिं छणवारे वत्तमाने भेरियादीनं तूरियानं ताळितानं निग्घोसं वीणादीनञ्च वादितानं सद्दं सुत्वा यानि वेसालियं सत्त राजसहस्सानि सत्त राजसतानि सत्त राजानो, तत्तका एव च नेसं उपराजसेनापतिआदयो, तेसु अलङ्कतपटियत्तेसु नक्खत्तकीळनत्थाय वीथिं ओतिण्णेसु सट्ठिहत्थे महाचङ्कमे चङ्कममानो गगनमज्झे ठितं पुण्णचन्दं दिस्वा चङ्कमकोटियं फलकं निस्साय ठितो वेठनालङ्कारविरहितत्ता वने छड्डितदारुकं विय अत्तभावं ओलोकेत्वा ‘‘अत्थि नु खो अञ्ञो अम्हेहि लामकतरो’’ति चिन्तेन्तो पकतिया आरञ्ञकादिगुणयुत्तोपि तस्मिं खणे अनभिरतिया पीळितो एवमाह. सो तस्मिं वनसण्डे अधिवत्थाय देवताय ‘‘इमं भिक्खुं संवेजेस्सामी’’ति अधिप्पायेन –
‘‘एककोव त्वं अरञ्ञे विहरसि, अपविद्धंव वनस्मिं दारुकं;
तस्स ते बहुका पिहयन्ति, नेरयिका विय सग्गगामिन’’न्ति. (सं. नि. १.२२९) –
वुत्तं इमं गाथं सुत्वा पुनदिवसे सत्थारं उपसङ्कमित्वा वन्दित्वा निसीदि. सत्था तं पवत्तिं ञत्वा घरावासस्स दुक्खतं पकासेतुकामो पञ्च दुक्खानि समोधानेत्वा इमं गाथमाह –
३०२. ‘‘दुप्पब्बज्जं दुरभिरमं, दुरावासा घरा दुखा;
दुक्खोसमानसंवासो, दुक्खानुपतितद्धगू;
तस्मा न चद्धगू सिया, न च दुक्खानुपतितो सिया’’ति.
तत्थ दुप्पब्बज्जन्ति अप्पं वा महन्तं वा भोगक्खन्धञ्चेव ञातिपरिवट्टञ्च पहाय इमस्मिं सासने उरं दत्वा पब्बज्जं नाम दुक्खं. दुरभिरमन्ति एवं पब्बजितेनापि भिक्खाचरियाय जीवितवुत्तिं घटेन्तेन अपरिमाणसीलक्खन्धगोपनधम्मानुधम्मप्पटिपत्तिपूरणवसेन अभिरमितुं दुक्खं. दुरावासाति यस्मा पन घरं आवसन्तेन राजूनं राजकिच्चं, इस्सरानं इस्सरकिच्चं वहितब्बं, परिजना चेव धम्मिका समणब्राह्मणा च सङ्गहितब्बा. एवं सन्तेपि घरावासो छिद्दघटो विय महासमुद्दो विय च दुप्पूरो. तस्मा घरावासा नामेते दुरावासा दुक्खा आवसितुं, तेनेव कारणेन दुक्खाति अत्थो. दुक्खो समानसंवासोति गिहिनो वा हि ये जातिगोत्तकुलभोगेहि पब्बजिता वा सीलाचारबाहुसच्चादीहि समानापि हुत्वा ‘‘कोसि त्वं, कोस्मि अह’’न्तिआदीनि वत्वा अधिकरणपसुता होन्ति, ते असमाना नाम, तेहि सद्धिं संवासो दुक्खोति अत्थो. दुक्खानुपतितद्धगूति ये वट्टसङ्खातं अद्धानं पटिपन्नत्ता अद्धगू, ते दुक्खे अनुपतिताव. तस्मा न चद्धगूति यस्मा दुक्खानुपतितभावोपि दुक्खो अद्धगूभावोपि, तस्मा वट्टसङ्खातं अद्धानं गमनताय अद्धगू न भवेय्य, वुत्तप्पकारेन दुक्खेन अनुपतितोपि न भवेय्याति अत्थो.
देसनावसाने सो भिक्खु पञ्चसु ठानेसु दस्सिते दुक्खे निब्बिन्दन्तो पञ्चोरम्भागियानि पञ्च उद्धम्भागियानि संयोजनानि पदालेत्वा अरहत्ते पतिट्ठहीति.
वज्जिपुत्तकभिक्खुवत्थु छट्ठं.