९. सुवण्णकारत्थेरवत्थु
उच्छिन्दाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सारिपुत्तत्थेरस्स सद्धिविहारिकं आरब्भ कथेसि.
एको किर सुवण्णकारपुत्तो अभिरूपो सारिपुत्तत्थेरस्स सन्तिके पब्बजि. थेरो ‘‘तरुणानं रागो उस्सन्नो होती’’ति चिन्तेत्वा तस्स रागपटिघाताय असुभकम्मट्ठानं अदासि. तस्स पन तं असप्पायं. तस्मा अरञ्ञं पविसित्वा तेमासं वायमन्तो चित्तेकग्गमत्तम्पि अलभित्वा पुन थेरस्स सन्तिकं आगन्त्वा थेरेन ‘‘उपट्ठितं ते, आवुसो, कम्मट्ठान’’न्ति वुत्ते तं पवत्तिं आरोचेसि. अथस्स थेरो ‘‘कम्मट्ठानं न सम्पज्जतीति वोसानं आपज्जितुं न वट्टती’’ति वत्वा पुन तदेव कम्मट्ठानं साधुकं कथेत्वा अदासि. सो दुतियवारेपि किञ्चि विसेसं निब्बत्तेतुं असक्कोन्तो आगन्त्वा थेरस्स आरोचेसि. अथस्स थेरोपि सकारणं सउपमं कत्वा तदेव कम्मट्ठानं आचिक्खि. सो पुनपि आगन्त्वा कम्मट्ठानस्स असम्पज्जनभावं कथेसि. थेरो चिन्तेसि – ‘‘कारको भिक्खु अत्तनि विज्जमाने कामच्छन्दादयो विज्जमानाति अविज्जमाने अविज्जमानाति पजानाति. अयं भिक्खु कारको, नो अकारको, पटिपन्नो, नो अप्पटिपन्नो, अहं पनेतस्स अज्झासयं न जानामि, बुद्धवेनेय्यो एसो भविस्सती’’ति तं आदाय सायन्हसमये सत्थारं उपसङ्कमित्वा ‘‘अयं, भन्ते, मम सद्धिविहारिको, इमस्स मया इमिना कारणेन इदं नाम कम्मट्ठानं दिन्न’’न्ति सब्बं तं पवत्तिं आरोचेसि.
अथ नं सत्था ‘‘आसयानुसयञाणं नामेतं पारमियो पूरेत्वा दससहस्सिलोकधातुं उन्नादेत्वा सब्बञ्ञुतं पत्तानं बुद्धानंयेव विसयो’’ति वत्वा ‘‘कतरकुला नु खो एस पब्बजितो’’ति आवज्जेन्तो ‘‘सुवण्णकारकुला’’ति ञत्वा अतीते अत्तभावे ओलोकेन्तो तस्स सुवण्णकारकुलेयेव पटिपाटिया निब्बत्तानि पञ्च अत्तभावसतानि दिस्वा ‘‘इमिना दहरेन दीघरत्तं सुवण्णकारकम्मं करोन्तेन कणिकारपुप्फपदुमपुप्फादीनि करिस्सामीति रत्तसुवण्णमेव सम्परिवत्तितं, तस्मा इमस्स असुभपटिकूलकम्मट्ठानं न वट्टति, मनापमेवस्स कम्मट्ठानं सप्पाय’’न्ति चिन्तेत्वा, ‘‘सारिपुत्त, तया कम्मट्ठानं दत्वा चत्तारो मासे किलमितं भिक्खुं अज्ज पच्छाभत्तेयेव अरहत्तं पत्तं पस्सिस्ससि, गच्छ त्व’’न्ति थेरं उय्योजेत्वा इद्धिया चक्कमत्तं सुवण्णपदुमं मापेत्वा पत्तेहि चेव नालेहि च उदकबिन्दूनि मुञ्चन्तं विय कत्वा ‘‘भिक्खु इमं पदुमं आदाय विहारपच्चन्ते वालुकरासिम्हि ठपेत्वा सम्मुखट्ठाने पल्लङ्केन निसीदित्वा ‘लोहितकं लोहितक’न्ति परिकम्मं करोही’’ति अदासि. तस्स सत्थुहत्थतो पदुमं गण्हन्तस्सेव चित्तं पसीदि. सो विहारपच्चन्तं गन्त्वा वालुकं उस्सापेत्वा तत्थ पदुमनालं पवेसेत्वा सम्मुखे पल्लङ्केन निसिन्नो ‘‘लोहितकं लोहितक’’न्ति परिकम्मं आरभि. अथस्स तङ्खणञ्ञेव नीवरणानि विक्खम्भिंसु, उपचारज्झानं उप्पज्जि. तदनन्तरं पठमज्झानं निब्बत्तेत्वा पञ्चहाकारेहि वसीभावं पापेत्वा यथानिसिन्नोव दुतियज्झानादीनिपि पत्वा वसीभूतो चतुत्थज्झानेन झानकीळं कीळन्तो निसीदि.
सत्था तस्स झानानं उप्पन्नभावं ञत्वा ‘‘सक्खिस्सति नु खो एस अत्तनो धम्मताय उत्तरि विसेसं निब्बत्तेतु’’न्ति ओलोकेन्तो ‘‘न सक्खिस्सती’’ति ञत्वा ‘‘तं पदुमं मिलायतू’’ति अधिट्ठहि. तं हत्थेहि मद्दितपदुमं मिलायन्तं विय काळवण्णं अहोसि. सो झाना वुट्ठाय तं ओलोकेत्वा ‘‘किं नु खो इमं पदुमं जराय पहटं पञ्ञायति, अनुपादिण्णकेपि एवं जराय अभिभुय्यमाने उपादिण्णके कथाव नत्थि. इदम्पि हि जरा अभिभविस्सती’’ति अनिच्चलक्खणं पस्सि. तस्मिं पन दिट्ठे दुक्खलक्खणञ्च अनत्तलक्खणञ्च दिट्ठमेव होति. तस्स तयो भवा आदित्ता विय कण्डे बद्धकुणपा विय च खायिंसु. तस्मिं खणे तस्स अविदूरे कुमारका एकं सरं ओतरित्वा कुमुदानि भञ्जित्वा थले रासिं करोन्ति. सो जले च थले च कुमुदानि ओलोकेसि. अथस्स जले कुमुदानि अभिरूपानि उदकपग्घरन्तानि विय उपट्ठहिंसु, इतरानि अग्गग्गेसु परिमिलातानि. सो ‘‘अनुपादिण्णकं जरा एवं पहरति, उपादिण्णकं किं पन न पहरिस्सती’’ति सुट्ठुतरं अनिच्चलक्खणादीनि अद्दस. सत्था ‘‘पाकटीभूतं इदानि इमस्स भिक्खुनो कम्मट्ठान’’न्ति ञत्वा गन्धकुटियं निसिन्नकोव ओभासं मुञ्चि, सो तस्स मुखं पहरि. अथस्स ‘‘किं नु खो एत’’न्ति ओलोकेन्तस्स सत्था आगन्त्वा सम्मुखे ठितो विय अहोसि. सो उट्ठाय अञ्जलिं पग्गण्हि. अथस्स सत्था सप्पायं सल्लक्खेत्वा इमं गाथमाह –
२८५. ‘‘उच्छिन्द सिनेहमत्तनो, कुमुदं सारदिकंव पाणिना;
सन्तिमग्गमेव ब्रूहय, निब्बानं सुगतेन देसित’’न्ति.
तत्थ उच्छिन्दाति अरहत्तमग्गेन उच्छिन्द. सारदिकन्ति सरदकाले निब्बत्तं. सन्तिमग्गन्ति निब्बानगामिं अट्ठङ्गिकं मग्गं. ब्रूहयाति वड्ढय. निब्बानञ्हि सुगतेन देसितं, तस्मा तस्स मग्गं भावेहीति अत्थो.
देसनावसाने सो भिक्खु अरहत्ते पतिट्ठहि.
सुवण्णकारत्थेरवत्थु नवमं.