६. सूकरपेतवत्थु

वाचानुरक्खीति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो सूकरपेतं आरब्भ कथेसि.

एकस्मिञ्हि दिवसे महामोग्गल्लानत्थेरो लक्खणत्थेरेन सद्धिं गिज्झकूटा ओरोहन्तो एकस्मिं पदेसे सितं पात्वाकासि. ‘‘को नु खो, आवुसो, हेतु सितस्स पातुकम्माया’’ति लक्खणत्थेरेन पुट्ठो ‘‘अकालो, आवुसो, इमस्स पञ्हस्स, सत्थु सन्तिके मं पुच्छेय्याथा’’ति वत्वा लक्खणत्थेरेन सद्धिंयेव राजगहे पिण्डाय चरित्वा पिण्डपातपटिक्कन्तो वेळुवनं गन्त्वा सत्थारं वन्दित्वा निसीदि. अथ नं लक्खणत्थेरो तमत्थं पुच्छि. सो आह – ‘‘आवुसो, अहं एकं पेतं अद्दसं, तस्स तिगावुतप्पमाणं सरीरं, तं मनुस्ससरीरसदिसं. सीसं पन सूकरस्स विय, तस्स मुखे नङ्गुट्ठं जातं, ततो पुळवा पग्घरन्ति. स्वाहं ‘न मे एवरूपो सत्तो दिट्ठपुब्बो’ति तं दिस्वा सितं पात्वाकासि’’न्ति. सत्था ‘‘चक्खुभूता वत, भिक्खवे, मम सावका विहरन्ती’’ति वत्वा ‘‘अहम्पेतं सत्तं बोधिमण्डेयेव अद्दसं. ‘ये पन मे न सद्दहेय्युं, तेसं अहिताय अस्सा’ति परेसं अनुकम्पाय न कथेसिं. इदानि मोग्गल्लानं सक्खिं कत्वा कथेमि. सच्चं, भिक्खवे, मोग्गल्लानो आहा’’ति कथेसि. तं सुत्वा भिक्खू सत्थारं पुच्छिंसु – ‘‘किं पन, भन्ते, तस्स पुब्बकम्म’’न्ति. सत्था ‘‘तेन हि, भिक्खवे, सुणाथा’’ति अतीतं आहरित्वा तस्स पुब्बकम्मं कथेसि.

कस्सपबुद्धकाले किर एकस्मिं गामकावासे द्वे थेरा समग्गवासं वसिंसु. तेसु एको सट्ठिवस्सो, एको एकूनसट्ठिवस्सो. एकूनसट्ठिवस्सो इतरस्स पत्तचीवरं आदाय विचरि, सामणेरो विय सब्बं वत्तपटिवत्तं अकासि. तेसं एकमातुकुच्छियं वुत्थभातूनं विय समग्गवासं वसन्तानं वसनट्ठानं एको धम्मकथिको आगमि. तदा च धम्मस्सवनदिवसो होति. थेरा नं सङ्गण्हित्वा ‘‘धम्मकथं नो कथेहि सप्पुरिसा’’ति आहंसु. सो धम्मकथं कथेसि. थेरा ‘‘धम्मकथिको नो लद्धो’’ति तुट्ठचित्ता पुनदिवसे तं आदाय धुरगामं पिण्डाय पविसित्वा तत्थ कतभत्तकिच्चा, ‘‘आवुसो, हिय्यो कथितट्ठानतोव थोकं धम्मं कथेही’’ति मनुस्सानं धम्मं कथापेसुं. मनुस्सा धम्मकथं सुत्वा पुनदिवसत्थायपि निमन्तयिंसु. एवं समन्ता भिक्खाचारगामेसु द्वे द्वे दिवसे तं आदाय पिण्डाय चरिंसु.

धम्मकथिको चिन्तेसि – ‘‘इमे द्वेपि अतिमुदुका, मया उभोपेते पलापेत्वा इमस्मिं विहारे वसितुं वट्टती’’ति. सो सायं थेरूपट्ठानं गन्त्वा भिक्खूनं उट्ठाय गतकाले निवत्तित्वा महाथेरं उपसङ्कमित्वा, ‘‘भन्ते, किञ्चि वत्तब्बं अत्थी’’ति वत्वा ‘‘कथेहि, आवुसो’’ति वुत्ते थोकं चिन्तेत्वा, ‘‘भन्ते, कथा नामेसा महासावज्जा’’ति वत्वा अकथेत्वाव पक्कामि. अनुथेरस्सापि सन्तिकं गन्त्वा तथेव अकासि. सो दुतियदिवसे तथेव कत्वा ततियदिवसे तेसं अतिविय कोतुहले उप्पन्ने महाथेरं उपसङ्कमित्वा, ‘‘भन्ते, किञ्चि वत्तब्बं अत्थि, तुम्हाकं पन सन्तिके वत्तुं न विसहामी’’ति वत्वा थेरेन ‘‘होतु, आवुसो, कथेही’’ति निप्पीळितो आह – ‘‘किं पन, भन्ते, अनुथेरो तुम्हेहि सद्धिं संभोगो’’ति. सप्पुरिस, किं नामेतं कथेसि, मयं एकमातुकुच्छियं वुत्थपुत्ता विय, अम्हेसु एकेन यं लद्धं, इतरेनापि लद्धमेव होति. मया एतस्स एत्तकं कालं अगुणो नाम न दिट्ठपुब्बोति? एवं, भन्तेति. आमावुसोति. भन्ते मं अनुथेरो एवमाह – ‘‘सप्पुरिस, त्वं कुलपुत्तो, अयं महाथेरो लज्जी पेसलोति एतेन सद्धिं संभोगं करोन्तो उपपरिक्खित्वा करेय्यासी’’ति एवमेस मं आगतदिवसतो पट्ठाय वदतीति.

महाथेरो तं सुत्वाव कुद्धमानसो दण्डाभिहतं कुलालभाजनं विय भिज्जि. इतरोपि उट्ठाय अनुथेरस्स सन्तिकं गन्त्वा तथेव अवोच, सोपि तथेव भिज्जि. तेसु किञ्चापि एत्तकं कालं एकोपि विसुं पिण्डाय पविट्ठपुब्बो नाम नत्थि, पुनदिवसे पन विसुं पिण्डाय पविसित्वा अनुथेरो पुरेतरं आगन्त्वा उपट्ठानसालाय अट्ठासि, महाथेरो पच्छा अगमासि. तं दिस्वा अनुथेरो चिन्तेसि – ‘‘किं नु खो इमस्स पत्तचीवरं पटिग्गहेतब्बं, उदाहु नो’’ति. सो ‘‘न इदानि पटिग्गहेस्सामी’’ति चिन्तेत्वापि ‘‘होतु, न मया एवं कतपुब्बं, मया अत्तनो वत्तं हापेतुं न वट्टती’’ति चित्तं मुदुकं कत्वा थेरं उपसङ्कमित्वा, ‘‘भन्ते, पत्तचीवरं देथा’’ति आह. इतरो ‘‘गच्छ, दुब्बिनीत, न त्वं मम पत्तचीवरं पटिग्गहेतुं युत्तरूपो’’ति अच्छरं पहरित्वा तेनपि ‘‘आम, भन्ते, अहम्पि तुम्हाकं पत्तचीवरं न पटिग्गण्हामीति चिन्तेसि’’न्ति वुत्ते, ‘‘आवुसो नवक, किं त्वं चिन्तेसि, मम इमस्मिं विहारे कोचि सङ्गो अत्थी’’ति आह. इतरोपि ‘‘तुम्हे पन, भन्ते, किं एवं मञ्ञथ ‘मम इमस्मिं विहारे कोचि सङ्गो अत्थी’ति, एसो ते विहारो’’ति वत्वा पत्तचीवरं आदाय निक्खमि. इतरोपि निक्खमि. ते उभोपि एकमग्गेनापि अगन्त्वा एको पच्छिमद्वारेन मग्गं गण्हि, एको पुरत्थिमद्वारेन. धम्मकथिको, ‘‘भन्ते, मा एवं करोथ, मा एवं करोथा’’ति वत्वा ‘‘तिट्ठावुसो’’ति वुत्ते निवत्ति. सो पुनदिवसे धुरगामं पविट्ठो मनुस्सेहि, ‘‘भन्ते, भद्दन्ता कुहि’’न्ति वुत्ते, ‘‘आवुसो, मा पुच्छथ, तुम्हाकं कुलुपका हिय्यो कलहं कत्वा निक्खमिंसु, अहं याचन्तोपि निवत्तेतुं नासक्खि’’न्ति आह. तेसु बाला तुण्ही अहेसुं. पण्डिता पन ‘‘अम्हेहि एत्तकं कालं भद्दन्तानं किञ्चि खलितं नाम न दिट्ठपुब्बं, तेसं भयं इमं निस्साय उप्पन्नं भविस्सती’’ति दोमनस्सप्पत्ता अहेसुं.

तेपि थेरा गतट्ठाने चित्तसुखं नाम न लभिंसु. महाथेरो चिन्तेसि – ‘‘अहो नवकस्स भिक्खुनो भारियं कम्मं कतं, मुहुत्तं दिट्ठं नाम आगन्तुकभिक्खुं आह – ‘महाथेरेन सद्धिं संभोगं मा अकासी’’’ति. इतरोपि चिन्तेसि – ‘‘अहो महाथेरस्स भारियं कम्मं कतं, मुहुत्तं दिट्ठं नाम आगन्तुकभिक्खुं आह – ‘इमिना सद्धिं संभोगं मा अकासी’’’ति. तेसं नेव सज्झायो न मनसिकारो अहोसि. ते वस्ससतच्चयेन पच्छिमदिसाय एकं विहारं अगमंसु. तेसं एकमेव सेनासनं पापुणि. महाथेरे पविसित्वा मञ्चके निसिन्ने इतरोपि पाविसि. महाथेरो तं दिस्वाव सञ्जानित्वा अस्सूनि सन्धारेतुं नासक्खि. इतरोपि महाथेरं सञ्जानित्वा अस्सुपुण्णेहि नेत्तेहि ‘‘कथेमि नु खो मा कथेमी’’ति चिन्तेत्वा ‘‘न तं सद्धेय्यरूप’’न्ति थेरं वन्दित्वा ‘‘अहं, भन्ते, एत्तकं कालं तुम्हाकं पत्तचीवरं गहेत्वा विचरिं, अपि नु खो मे कायद्वारादीसु तुम्हेहि किञ्चि असारुप्पं दिट्ठपुब्ब’’न्ति. ‘‘न दिट्ठपुब्बं, आवुसो’’ति. अथ कस्मा धम्मकथिकं अवचुत्थ ‘‘मा एतेन सद्धिं संभोगमकासी’’ति? ‘‘नाहं, आवुसो, एवं कथेमि, तया किर मम अन्तरे एवं वुत्त’’न्ति. ‘‘अहम्पि, भन्ते, न वदामी’’ति. ते तस्मिं खणे ‘‘तेन अम्हे भिन्दितुकामेन एवं वुत्तं भविस्सती’’ति ञत्वा अञ्ञमञ्ञं अच्चयं देसयिंसु. ते वस्ससतं चित्तस्सादं अलभन्ता तं दिवसं समग्गा हुत्वा ‘‘आयाम, नं ततो विहारा निक्कड्ढिस्सामा’’ति पक्कमित्वा अनुपुब्बेन तं विहारं अगमंसु.

धम्मकथिकोपि थेरे दिस्वा पत्तचीवरं पटिग्गहेतुं उपगच्छि. थेरा ‘‘न त्वं इमस्मिं विहारे वसितुं युत्तरूपो’’ति अच्छरं पहरिंसु. सो सण्ठातुं असक्कोन्तो तावदेव निक्खमित्वा पलायि. अथ नं वीसति वस्ससहस्सानि कतो समणधम्मो सन्धारेतुं नासक्खि, ततो चवित्वा अवीचिम्हि निब्बत्तो एकं बुद्धन्तरं पच्चित्वा इदानि गिज्झकूटे वुत्तप्पकारेन अत्तभावेन दुक्खं अनुभोतीति.

सत्था इदं तस्स पुब्बकम्मं आहरित्वा, ‘‘भिक्खवे, भिक्खुना नाम कायादीहि उपसन्तरूपेन भवितब्ब’’न्ति वत्वा इमं गाथमाह –

२८१. ‘‘वाचानुरक्खी मनसा सुसंवुतो,

कायेन च नाकुसलं कयिरा;

एते तयो कम्मपथे विसोधये,

आराधये मग्गमिसिप्पवेदित’’न्ति.

तस्सत्थो – चतुन्नं वचीदुच्चरितानं वज्जनेन वाचानुरक्खी अभिज्झादीनं अनुप्पादनेन मनसा च सुट्ठु संवुतो पाणातिपातादयो पजहन्तो कायेन च अकुसलं न कयिरा. एवं एते तयो कम्मपथे विसोधये. एवं विसोधेन्तो हि सीलक्खन्धादीनं एसकेहि बुद्धादीहि इसीहि पवेदितं अट्ठङ्गिकमग्गं आराधेय्याति.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

सूकरपेतवत्थु छट्ठं.