९. बालिसिकवत्थु

न तेन अरियो होतीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो एकं अरियं नाम बालिसिकं आरब्भ कथेसि.

एकदिवसञ्हि सत्था तस्स सोतापत्तिमग्गस्सूपनिस्सयं दिस्वा सावत्थिया उत्तरद्वारगामे पिण्डाय चरित्वा भिक्खुसङ्घपरिवुतो ततो आगच्छति. तस्मिं खणे सो बालिसिको बलिसेन मच्छे गण्हन्तो बुद्धप्पमुखं भिक्खुसङ्घं दिस्वा बलिसयट्ठिं छड्डेत्वा अट्ठासि. सत्था तस्स अविदूरे ठाने निवत्तित्वा ठितो ‘‘त्वं किं नामोसी’’ति सारिपुत्तत्थेरादीनं नामानि पुच्छि. तेपि ‘‘अहं सारिपुत्तो अहं मोग्गल्लानो’’ति अत्तनो अत्तनो नामानि कथयिंसु. बालिसिको चिन्तेसि – ‘‘सत्था सब्बेसं नामानि पुच्छति, ममम्पि नामं पुच्छिस्सति मञ्ञे’’ति. सत्था तस्स इच्छं ञत्वा, ‘‘उपासक, त्वं को नामोसी’’ति पुच्छित्वा ‘‘अहं, भन्ते, अरियो नामा’’ति वुत्ते ‘‘न, उपासक, तादिसा पाणातिपातिनो अरिया नाम होन्ति, अरिया पन महाजनस्स अहिंसनभावे ठिता’’ति वत्वा इमं गाथमाह –

२७०. ‘‘न तेन अरियो होति, येन पाणानि हिंसति;

अहिंसा सब्बपाणानं, अरियोति पवुच्चती’’ति.

तत्थ अहिंसाति अहिंसनेन. इदं वुत्तं होति – येन हि पाणानि हिंसति, न तेन कारणेन अरियो होति. यो पन सब्बपाणानं पाणिआदीहि अहिंसनेन मेत्तादिभावनाय पतिट्ठितत्ता हिंसतो आराव ठितो, अयं अरियोति वुच्चतीति अत्थो.

देसनावसाने बालिसिको सोतापत्तिफले पतिट्ठहि, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति.

बालिसिकवत्थु नवमं.