१. विनिच्छयमहामत्तवत्थु

न तेन होतीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो विनिच्छयमहामत्ते आरब्भ कथेसि.

एकदिवसञ्हि भिक्खू सावत्थियं उत्तरद्वारगामे पिण्डाय चरित्वा पिण्डपातपटिक्कन्ता नगरमज्झेन विहारं आगच्छन्ति. तस्मिं खणे मेघो उट्ठाय पावस्सि. ते सम्मुखागतं विनिच्छयसालं पविसित्वा विनिच्छयमहामत्ते लञ्जं गहेत्वा सामिके असामिके करोन्ते दिस्वा ‘‘अहो इमे अधम्मिका, मयं पन ‘इमे धम्मेन विनिच्छयं करोन्ती’ति सञ्ञिनो अहुम्हा’’ति चिन्तेत्वा वस्से विगते विहारं गन्त्वा सत्थारं वन्दित्वा एकमन्तं निसिन्ना तमत्थं आरोचेसुं. सत्था ‘‘न, भिक्खवे, छन्दादिवसिका हुत्वा साहसेन अत्थं विनिच्छिनन्ता धम्मट्ठा नाम होन्ति, अपराधं पन अनुविज्जित्वा अपराधानुरूपं असाहसेन विनिच्छयं करोन्ता एव धम्मट्ठा नाम होन्ती’’ति वत्वा इमा गाथा अभासि –

२५६. ‘‘न तेन होति धम्मट्ठो, येनत्थं साहसा नये;

यो च अत्थं अनत्थञ्च, उभो निच्छेय्य पण्डितो.

२५७. ‘‘असाहसेन धम्मेन, समेन नयती परे;

धम्मस्स गुत्तो मेधावी, धम्मट्ठोति पवुच्चती’’ति.

तत्थ तेनाति एत्तकेनेव कारणेन. धम्मट्ठोति राजा हि अत्तनो कातब्बे विनिच्छयधम्मे ठितोपि धम्मट्ठो नाम न होति. येनाति येन कारणेन. अत्थन्ति ओतिण्णं विनिच्छितब्बं अत्थं. साहसा नयेति छन्दादीसु पतिट्ठितो साहसेन मुसावादेन विनिच्छेय्य. यो हि छन्दे पतिट्ठाय ञातीति वा मित्तोति वा मुसा वत्वा असामिकमेव सामिकं करोति, दोसे पतिट्ठाय अत्तनो वेरीनं मुसा वत्वा सामिकमेव असामिकं करोति, मोहे पतिट्ठाय लञ्जं गहेत्वा विनिच्छयकाले अञ्ञविहितो विय इतो चितो च ओलोकेन्तो मुसा वत्वा ‘‘इमिना जितं, अयं पराजितो’’ति परं नीहरति, भये पतिट्ठाय कस्सचिदेव इस्सरजातिकस्स पराजयं पापुणन्तस्सापि जयं आरोपेति, अयं साहसेन अत्थं नेति नाम. एसो धम्मट्ठो नाम न होतीति अत्थो. अत्थं अनत्थञ्चाति भूतञ्च अभूतञ्च कारणं. उभो निच्छेय्याति यो पन पण्डितो उभो अत्थानत्थे विनिच्छिनित्वा वदति. असाहसेनाति अमुसावादेन. धम्मेनाति विनिच्छयधम्मेन, न छन्दादिवसेन. समेनाति अपराधानुरूपेनेव परे नयति, जयं वा पराजयं वा पापेति. धम्मस्स गुत्तोति सो धम्मगुत्तो धम्मरक्खितो धम्मोजपञ्ञाय समन्नागतो मेधावी विनिच्छयधम्मे ठितत्ता धम्मट्ठोति पवुच्चतीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

विनिच्छयमहामत्तवत्थु पठमं.