५. अञ्ञतरकुलपुत्तवत्थु
मलित्थिया दुच्चरितन्ति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो अञ्ञतरं कुलपुत्तं आरब्भ कथेसि.
तस्स किर समानजातिकं कुलकुमारिकं आनेसुं. सा आनीतदिवसतो पट्ठाय अतिचारिनी अहोसि. सो कुलपुत्तो तस्सा अतिचारेन लज्जितो कस्सचि सम्मुखीभावं उपगन्तुं असक्कोन्तो बुद्धुपट्ठानादीनि पच्छिन्दित्वा कतिपाहच्चयेन सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसिन्नो ‘‘किं, उपासक, न दिस्ससी’’ति वुत्ते तमत्थं आरोचेसि. अथ नं सत्था, ‘‘उपासक, पुब्बेपि मया ‘इत्थियो नाम नदीआदिसदिसा, तासु पण्डितेन कोधो न कातब्बो’ति वुत्तं, त्वं पन भवपटिच्छन्नत्ता न सल्लक्खेसी’’ति वत्वा तेन याचितो –
‘‘यथा नदी च पन्थो च, पानागारं सभा पपा;
एवं लोकित्थियो नाम, वेला तासं न विज्जती’’ति. (जा. १.१.६५; १.१२.९) –
जातकं वित्थारेत्वा, ‘‘उपासक, इत्थिया हि अतिचारिनिभावो मलं, दानं देन्तस्स मच्छेरं मलं, इधलोकपरलोकेसु सत्तानं अकुसलकम्मं विनासनत्थेन मलं, अविज्जा पन सब्बमलानं उत्तममल’’न्ति वत्वा इमा गाथा अभासि –
२४२. ‘‘मलित्थिया दुच्चरितं, मच्छेरं ददतो मलं;
मला वे पापका धम्मा, अस्मिं लोके परम्हि च.
२४३. ‘‘ततो मला मलतरं, अविज्जा परमं मलं;
एतं मलं पहन्त्वान, निम्मला होथ भिक्खवो’’ति.
तत्थ दुच्चरितन्ति अतिचारो. अतिचारिनिञ्हि इत्थिं सामिकोपि गेहा नीहरति, मातापितूनं सन्तिकं गतम्पि ‘‘त्वं कुलस्स अगारवभूता, अक्खीहिपि न दट्ठब्बा’’ति तं नीहरन्ति. सा अनाथा विचरन्ती महादुक्खं पापुणाति. तेनस्सा दुच्चरितं ‘‘मल’’न्ति वुत्तं. ददतोति दायकस्स. यस्स हि खेत्तकसनकाले ‘‘इमस्मिं खेत्ते सम्पन्ने सलाकभत्तादीनि दस्सामी’’ति चिन्तेत्वा निप्फन्ने सस्सेपि मच्छेरं उप्पज्जित्वा चागचित्तं निवारेति, सो मच्छेरवसेन चागचित्ते अविरूहन्ते मनुस्ससम्पत्तिं दिब्बसम्पत्तिं निब्बानसम्पत्तिन्ति तिस्सो सम्पत्तियो न लभति. तेन वुत्तं – ‘‘मच्छेरं ददतो मल’’न्ति. सेसेसुपि एसेव नयो. पापका धम्माति अकुसलधम्मा पन इधलोके च परलोके च मलमेव.
ततोति हेट्ठा वुत्तमलतो. मलतरन्ति अतिरेकमलं वो कथेमीति अत्थो. अविज्जाति अट्ठवत्थुकं अञ्ञाणमेव परमं मलं. पहन्त्वानाति एतं मलं जहित्वा, भिक्खवे, तुम्हे निम्मला होथाति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
अञ्ञतरकुलपुत्तवत्थु पञ्चमं.