४. लालुदायित्थेरवत्थु
असज्झायमलाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो लालुदायित्थेरं आरब्भ कथेसि.
सावत्थियं किर पञ्चकोटिमत्ता अरियसावका वसन्ति, द्वे कोटिमत्ता पुथुज्जना वसन्ति. तेसु अरियसावका पुरेभत्तं दानं दत्वा पच्छाभत्तं सप्पितेलमधुफाणितवत्थादीनि गहेत्वा विहारं गन्त्वा धम्मकथं सुणन्ति. धम्मं सुत्वा गमनकाले च सारिपुत्तमोग्गल्लानानं गुणकथं कथेन्ति. उदायित्थेरो तेसं कथं सुत्वा ‘‘एतेसं ताव धम्मं सुत्वा तुम्हे एवं कथेथ, मम धम्मकथं सुत्वा किं नु खो न कथेस्सथा’’ति वदति. मनुस्सा तस्स कथं सुत्वा ‘‘अयं एको धम्मकथिको भविस्सति, इमस्सपि अम्हेहि धम्मकथं सोतुं वट्टती’’ति ते एकदिवसं थेरं याचित्वा, ‘‘भन्ते, अज्ज अम्हाकं धम्मस्सवनदिवसो’’ति सङ्घस्स दानं दत्वा, ‘‘भन्ते, तुम्हे अम्हाकं दिवा धम्मकथं कथेय्याथा’’ति आहंसु. सोपि तेसं अधिवासेसि.
तेहि धम्मस्सवनवेलाय आगन्त्वा, ‘‘भन्ते, नो धम्मं कथेथा’’ति वुत्ते लालुदायित्थेरो आसने निसीदित्वा चित्तबीजनिं गहेत्वा चालेन्तो एकम्पि धम्मपदं अदिस्वा ‘‘अहं सरभञ्ञं भणिस्सामि, अञ्ञो धम्मकथं कथेतू’’ति वत्वा ओतरि. ते अञ्ञेन धम्मकथं कथापेत्वा सरभाणत्थाय पुन तं आसनं आरोपयिंसु. सो पुनपि किञ्चि अदिस्वा ‘‘अहं रत्तिं कथेस्सामि, अञ्ञो सरभञ्ञं भणतू’’ति वत्वा आसना ओतरि. ते अञ्ञेन सरभञ्ञं भणापेत्वा पुन रत्तिं थेरं आनयिंसु. सो रत्तिम्पि किञ्चि अदिस्वा ‘‘अहं पच्चूसकाले कथेस्सामि, रत्तिं अञ्ञो कथेतू’’ति वत्वा ओतरि. ते अञ्ञेन रत्तिं कथापेत्वा पुन पच्चूसे तं आनयिंसु. सो पुनपि किञ्चि नाद्दस. महाजनो लेड्डुदण्डादीनि गहेत्वा, ‘‘अन्धबाल, त्वं सारिपुत्तमोग्गल्लानानं वण्णे कथियमाने एवञ्चेवञ्च वदेसि, इदानि कस्मा न कथेसी’’ति सन्तज्जेत्वा पलायन्तं अनुबन्धि. सो पलायन्तो एकिस्सा वच्चकुटिया पति.
महाजनो कथं समुट्ठापेसि – ‘‘अज्ज लालुदायी सारिपुत्तमोग्गल्लानानं गुणकथाय पवत्तमानाय उस्सूयन्तो अत्तनो धम्मकथिकभावं पकासेत्वा मनुस्सेहि सक्कारं कत्वा ‘धम्मं सुणोमा’ति वुत्ते चतुक्खत्तुं आसने निसीदित्वा कथेतब्बयुत्तकं किञ्चि अपस्सन्तो ‘त्वं अम्हाकं अय्येहि सारिपुत्तमोग्गल्लानत्थेरेहि सद्धिं युगग्गाहं गण्हासी’ति लेड्डुदण्डादीनि गहेत्वा सन्तज्जेत्वा पलापियमानो वच्चकुटिया पतितो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि एसो गूथकूपे निमुग्गोयेवा’’ति वत्वा अतीतं आहरित्वा –
‘‘चतुप्पदो अहं सम्म, त्वम्पि सम्म चतुप्पदो;
एहि सम्म निवत्तस्सु, किं नु भीतो पलायसि.
‘‘असुचिपूतिलोमोसि, दुग्गन्धो वासि सूकर;
सचे युज्झितुकामोसि, जयं सम्म ददामि ते’’ति. (जा. १.२.५-६) –
इमं जातकं वित्थारेत्वा कथेसि. तदा सीहो सारिपुत्तो अहोसि, सूकरो लालुदायीति. सत्था इमं धम्मदेसनं आहरित्वा, ‘‘भिक्खवे, लालुदायिना अप्पमत्तकोव धम्मो उग्गहितो, सज्झायं पन नेव अकासि, किञ्चि परियत्तिं उग्गहेत्वा तस्सा असज्झायकरणं मलमेवा’’ति वत्वा इमं गाथमाह –
२४१. ‘‘असज्झायमला मन्ता, अनुट्ठानमला घरा;
मलं वण्णस्स कोसज्जं, पमादो रक्खतो मल’’न्ति.
तत्थ असज्झायमलाति याकाचि परियत्ति वा सिप्पं वा यस्मा असज्झायन्तस्स अननुयुञ्जन्तस्स विनस्सति वा निरन्तरं वा न उपट्ठाति, तस्मा ‘‘असज्झायमला मन्ता’’ति वुत्तं. यस्मा पन घरावासं वसन्तस्स उट्ठायुट्ठाय जिण्णपटिसङ्खरणादीनि अकरोन्तस्स घरं नाम विनस्सति, तस्मा ‘‘अनुट्ठानमला घरा’’ति वुत्तं. यस्मा गिहिस्स वा पब्बजितस्स वा कोसज्जवसेन सरीरपटिजग्गनं वा परिक्खारपटिजग्गनं वा अकरोन्तस्स कायो दुब्बण्णो होति, तस्मा ‘‘मलं वण्णस्स कोसज्ज’’न्ति वुत्तं. यस्मा गावो रक्खन्तस्स पमादवसेन निद्दायन्तस्स वा कीळन्तस्स वा ता गावो अतित्थपक्खन्दनादिना वा वाळमिगचोरादिउपद्दवेन वा परेसं सालिखेत्तादीनि ओतरित्वा खादनवसेन विनासं आपज्जन्ति, सयम्पि दण्डं वा परिभासं वा पापुणाति, पब्बजितं वा पन छ द्वारानि अरक्खन्तं पमादवसेन किलेसा ओतरित्वा सासना चावेन्ति, तस्मा ‘‘पमादो रक्खतो मल’’न्ति वुत्तं. सो हिस्स विनासावहनेन मलट्ठानियत्ता मलन्ति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
लालुदायित्थेरवत्थु चतुत्थं.