३. तिस्सत्थेरवत्थु

अयसाव मलन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो तिस्सत्थेरं नाम भिक्खुं आरब्भ कथेसि.

एको किर सावत्थिवासी कुलपुत्तो पब्बजित्वा लद्धूपसम्पदो तिस्सत्थेरोति पञ्ञायि. सो अपरभागे जनपदविहारे वस्सूपगतो अट्ठहत्थकं थूलसाटकं लभित्वा वुत्थवस्सो पवारेत्वा तं आदाय गन्त्वा भगिनिया हत्थे ठपेसि. सा ‘‘न मे एसो साटको भातु अनुच्छविको’’ति तं तिखिणाय वासिया छिन्दित्वा हीरहीरं कत्वा उदुक्खले कोट्टेत्वा पविसेत्वा पोथेत्वा वट्टेत्वा सुखुमसुत्तं कन्तित्वा साटकं वायापेसि. थेरोपि सुत्तञ्चेव सूचियो च संविदहित्वा चीवरकारके दहरसामणेरे सन्निपातेत्वा भगिनिया सन्तिकं गन्त्वा ‘‘तं मे साटकं देथ, चीवरं कारेस्सामी’’ति आह. सा नवहत्थं साटकं नीहरित्वा कनिट्ठभातिकस्स हत्थे ठपेसि. सो तं गहेत्वा वित्थारेत्वा ओलोकेत्वा ‘‘मम साटको थूलो अट्ठहत्थो, अयं सुखुमो नवहत्थो. नायं मम साटको, तुम्हाकं एस, न मे इमिना अत्थो, तमेव मे देथा’’ति आह. ‘‘भन्ते, तुम्हाकमेव एसो, गण्हथ न’’न्ति? सो नेव इच्छि. अथस्स अत्तना कतकिच्चं सब्बं आरोचेत्वा, ‘‘भन्ते, तुम्हाकमेवेस, गण्हथ न’’न्ति अदासि. सो तं आदाय विहारं गन्त्वा चीवरकम्मं पट्ठपेसि.

अथस्स भगिनी चीवरकारानं अत्थाय यागुभत्तादीनि सम्पादेसि. चीवरस्स निट्ठितदिवसे पन अतिरेकसक्कारं कारेसि. सो चीवरं ओलोकेत्वा तस्मिं उप्पन्नसिनेहो ‘‘स्वे दानि नं पारुपिस्सामी’’ति संहरित्वा चीवरवंसे ठपेत्वा तं रत्तिं भुत्ताहारं जिरापेतुं असक्कोन्तो कालं कत्वा तस्मिंयेव चीवरे ऊका हुत्वा निब्बत्ति. भगिनीपिस्स कालकिरियं सुत्वा भिक्खूनं पादेसु पवत्तमाना रोदि. भिक्खू तस्स सरीरकिच्चं कत्वा गिलानुपट्ठाकस्स अभावेन सङ्घस्सेव तं पापुणाति. ‘‘भाजेस्साम न’’न्ति तं चीवरं नीहरापेसुं. सा ऊका ‘‘इमे मम सन्तकं विलुम्पन्ती’’ति विरवन्ती इतो चितो च सन्धावि. सत्था गन्धकुटियं निसिन्नोव दिब्बाय सोतधातुया तं सद्दं सुत्वा, ‘‘आनन्द, तिस्सस्स चीवरं अभाजेत्वा सत्ताहं निक्खिपितुं वदेही’’ति आह. थेरो तथा कारेसि. सापि सत्तमे दिवसे कालं कत्वा तुसितविमाने निब्बत्ति. सत्था ‘‘अट्ठमे दिवसे तिस्सस्स चीवरं भाजेत्वा गण्हथा’’ति आणापेसि. भिक्खू तथा करिंसु.

भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘कस्मा नु खो सत्था तिस्सस्स चीवरं सत्त दिवसे ठपापेत्वा अट्ठमे दिवसे गण्हितुं अनुजानी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, तिस्सो अत्तनो चीवरे ऊका हुत्वा निब्बत्तो, तुम्हेहि तस्मिं भाजियमाने ‘इमे मम सन्तकं विलुम्पन्ती’ति विरवन्ती इतो चितो च धावि. सा तुम्हेहि चीवरे गय्हमाने तुम्हेसु मनं पदुस्सित्वा निरये निब्बत्तेय्य, तेन चाहं चीवरं निक्खिपापेसिं. इदानि पन सा तुसितविमाने निब्बत्ता, तेन वो मया चीवरगहणं अनुञ्ञात’’न्ति वत्वा पुन तेहि ‘‘भारिया वत अयं, भन्ते, तण्हा नामा’’ति वुत्ते ‘‘आम, भिक्खवे, इमेसं सत्तानं तण्हा नाम भारिया. यथा अयतो मलं उट्ठहित्वा अयमेव खादति विनासेति अपरिभोगं करोति, एवमेवायं तण्हा इमेसं सत्तानं अब्भन्तरे उप्पज्जित्वा ते सत्ते निरयादीसु निब्बत्तापेति, विनासं पापेती’’ति वत्वा इमं गाथमाह –

२४०. ‘‘अयसाव मलं समुट्ठितं,

ततुट्ठाय तमेव खादति;

एवं अतिधोनचारिनं,

सानि कम्मानि नयन्ति दुग्गति’’न्ति.

तत्थ अयसावाति अयतो समुट्ठितं. ततुट्ठायाति ततो उट्ठाय. अतिधोनचारिनन्ति धोना वुच्चति चत्तारो पच्चये ‘‘इदमत्थं एते’’ति पच्चवेक्खित्वा परिभुञ्जनपञ्ञा, तं अतिक्कमित्वा चरन्तो अतिधोनचारी नाम. इदं वुत्तं होति – यथा अयतो मलं समुट्ठाय ततो समुट्ठितं तमेव खादति, एवमेवं चतुपच्चये अपच्चवेक्खित्वा परिभुञ्जन्तं अतिधोनचारिनं सानि कम्मानि अत्तनि ठितत्ता अत्तनो सन्तकानेव तानि कम्मानि दुग्गतिं नयन्तीति.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

तिस्सत्थेरवत्थु ततियं.