४. महामोग्गल्लानत्थेरपञ्हवत्थु

सच्चं भणेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो महामोग्गल्लानत्थेरस्स पञ्हं आरब्भ कथेसि.

एकस्मिञ्हि समये थेरो देवचारिकं गन्त्वा महेसक्खाय देवताय विमानद्वारे ठत्वा तं अत्तनो सन्तिकं आगन्त्वा वन्दित्वा ठितं एवमाह – ‘‘देवते महती ते सम्पत्ति, किं कम्मं कत्वा इमं अलत्था’’ति? ‘‘मा मं, भन्ते, पुच्छथा’’ति. देवता किर अत्तनो परित्तकम्मेन लज्जमाना एवं वदति. सा पन थेरेन ‘‘कथेहियेवा’’ति वुच्चमाना आह – ‘‘भन्ते, मया नेव दानं दिन्नं, न पूजा कता, न धम्मो सुतो, केवलं सच्चमत्तं रक्खित’’न्ति. थेरो अञ्ञानि विमानद्वारानि गन्त्वा आगतागता अपरापि देवधीतरो पुच्छि. तासुपि तथेव निगुहित्वा थेरं पटिबाहितुं असक्कोन्तीसु एका ताव आह – ‘‘भन्ते, मया नेव दानादीसु कतं नाम अत्थि, अहं पन कस्सपबुद्धकाले परस्स दासी अहोसिं, तस्सा मे सामिको अतिविय चण्डो फरुसो, गहितग्गहितेनेव कट्ठेन वा कलिङ्गरेन वा सीसं भिन्दति. साहं उप्पन्ने कोपे ‘एस तव सामिको लक्खणाहतं वा कातुं नासादीनि वा छिन्दितुं इस्सरो, मा कुज्झी’ति अत्तानमेव परिभासेत्वा कोपं नाम न अकासिं, तेन मे अयं सम्पत्ति लद्धा’’ति. अपरा आह – ‘‘अहं, भन्ते, उच्छुखेत्तं रक्खमाना एकस्स भिक्खुनो उच्छुयट्ठिं अदासिं’’. अपरा एकं तिम्बरुसकं अदासिं. अपरा एकं एळालुकं अदासिं. अपरा एकं फारुसकं अदासिं. अपरा एकं मूलमुट्ठिं. अपरा ‘‘निम्बमुट्ठि’’न्तिआदिना नयेन अत्तना अत्तना कतं परित्तदानं आरोचेत्वा ‘‘इमिना इमिना कारणेन अम्हेहि अयं सम्पत्ति लद्धा’’ति आहंसु.

थेरो ताहि कतकम्मं सुत्वा सत्थारं उपसङ्कमित्वा पुच्छि – ‘‘सक्का नु खो, भन्ते, सच्चकथनमत्तेन, कोपनिब्बापनमत्तेन, अतिपरित्तकेन तिम्बरुसकादिदानमत्तेन दिब्बसम्पत्तिं लद्धु’’न्ति. ‘‘कस्मा मं, मोग्गल्लान, पुच्छसि, ननु ते देवताहि अयं अत्थो कथितो’’ति? ‘‘आम, भन्ते, लब्भति मञ्ञे एत्तकेन दिब्बसम्पत्ती’’ति. अथ नं सत्था ‘‘मोग्गल्लान, सच्चमत्तं कथेत्वापि कोपमत्तं जहित्वापि परित्तकं दानं दत्वापि देवलोकं गच्छतियेवा’’ति वत्वा इमं गाथमाह –

२२४. ‘‘सच्चं भणे न कुज्झेय्य, दज्जा अप्पम्पि याचितो;

एतेहि तीहि ठानेहि, गच्छे देवान सन्तिके’’ति.

तत्थ सच्चं भणेति सच्चं दीपेय्य वोहरेय्य, सच्चे पतिट्ठहेय्याति अत्थो. न कुज्झेय्याति परस्स न कुज्झेय्य. याचितोति याचका नाम सीलवन्तो पब्बजिता. ते हि किञ्चापि ‘‘देथा’’ति अयाचित्वाव घरद्वारे तिट्ठन्ति, अत्थतो पन याचन्तियेव नाम. एवं सीलवन्तेहि याचितो अप्पस्मिं देय्यधम्मे विज्जमाने अप्पमत्तकम्पि ददेय्य. एतेहि तीहीति एतेसु तीसु एकेनापि कारणेन देवलोकं गच्छेय्याति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

महामोग्गल्लानत्थेरपञ्हवत्थु चतुत्थं.