२. मारवत्थु
सुसुखं वत जीवामाति इमं धम्मदेसनं सत्था पञ्चसालाय ब्राह्मणगामे विहरन्तो मारं आरब्भ कथेसि.
एकदिवसञ्हि सत्था पञ्चसतानं कुमारिकानं सोतापत्तिमग्गस्सूपनिस्सयं दिस्वा तं गामं उपनिस्साय विहासि. तापि कुमारिकायो एकस्मिं नक्खत्तदिवसे नदिं गन्त्वा न्हत्वा अलङ्कतपटियत्ता गामाभिमुखियो पायिंसु. सत्थापि तं गामं पविसित्वा पिण्डाय चरति. अथ मारो सकलगामवासीनं सरीरे अधिमुच्चित्वा यथा सत्था कटच्छुभत्तमत्तम्पि न लभति, एवं कत्वा यथाधोतेन पत्तेन निक्खमन्तं सत्थारं गामद्वारे ठत्वा आह – ‘‘अपि, समण, पिण्डपातं लभित्था’’ति. ‘‘किं पन त्वं, पापिम, तथा अकासि, यथाहं पिण्डं न लभेय्य’’न्ति? ‘‘तेन हि, भन्ते, पुन पविसथा’’ति. एवं किरस्स अहोसि – ‘‘सचे पुन पविसति, सब्बेसं सरीरे अधिमुच्चित्वा इमस्स पुरतो पाणिं पहरित्वा हस्सकेळिं करिस्सामी’’ति. तस्मिं खणे ता कुमारिकायो गामद्वारं पत्वा सत्थारं दिस्वा वन्दित्वा एकमन्तं अट्ठंसु. मारोपि सत्थारं आह – ‘‘अपि, भन्ते, पिण्डं अलभमाना जिघच्छादुक्खेन पीळितत्था’’ति. सत्था ‘‘अज्ज मयं, पापिम, किञ्चि अलभित्वापि आभस्सरलोके महाब्रह्मानो विय पीतिसुखेनेव वीतिनामेस्सामा’’ति वत्वा इमं गाथमाह –
२००. ‘‘सुसुखं वत जीवाम, येसं नो नत्थि किञ्चनं;
पीतिभक्खा भविस्साम, देवा आभस्सरा यथा’’ति.
तत्थ येसं नोति येसं अम्हाकं पलिबुज्झनत्थेन रागादीसु किञ्चनेसु एकम्पि किञ्चनं नत्थि. पीतिभक्खाति यथा आभस्सरा देवा पीतिभक्खा हुत्वा पीतिसुखेनेव वीतिनामेन्ति, एवं मयम्पि, पापिम, किञ्चि अलभित्वा पीतिभक्खा भविस्सामाति अत्थो.
देसनावसाने पञ्चसतापि कुमारिकायो सोतापत्तिफले पतिट्ठहिंसूति.
मारवत्थु दुतियं.