७. पेसकारधीतावत्थु

अन्धभूतोति इमं धम्मदेसनं सत्था अग्गाळवे चेतिये विहरन्तो एकं पेसकारधीतरं आरब्भ कथेसि.

एकदिवसञ्हि आळविवासिनो सत्थरि आळविं सम्पत्ते निमन्तेत्वा दानं अदंसु. सत्था भत्तकिच्चावसाने अनुमोदनं करोन्तो ‘‘अद्धुवं मे जीवितं, धुवं मे मरणं, अवस्सं मया मरितब्बमेव, मरणपरियोसानं मे जीवितं, जीवितमेव अनियतं, मरणं नियतन्ति एवं मरणस्सतिं भावेथ. येसञ्हि मरणस्सति अभाविता, ते पच्छिमे काले आसीविसं दिस्वा भीतअदण्डपुरिसो विय सन्तासप्पत्ता भेरवरवं रवन्ता कालं करोन्ति. येसं पन मरणस्सति भाविता, ते दूरतोव आसीविसं दिस्वा दण्डकेन गहेत्वा छड्डेत्वा ठितपुरिसो विय पच्छिमे काले न सन्तसन्ति, तस्मा मरणस्सति भावेतब्बा’’ति आह. तं धम्मदेसनं सुत्वा अवसेसजना सकिच्चप्पसुताव अहेसुं. एका पन सोळसवस्सुद्देसिका पेसकारधीता ‘‘अहो बुद्धानं कथा नाम अच्छरिया, मया पन मरणस्सतिं भावेतुं वट्टती’’ति रत्तिन्दिवं मरणस्सतिमेव भावेसि. सत्थापि ततो निक्खमित्वा जेतवनं अगमासि. सापि कुमारिका तीणि वस्सानि मरणस्सतिं भावेसियेव.

अथेकदिवसं सत्था पच्चूससमये लोकं ओलोकेन्तो तं कुमारिकं अत्तनो ञाणजालस्स अन्तोपविट्ठं दिस्वा ‘‘किं नु खो भविस्सती’’ति उपधारेन्तो ‘‘इमाय कुमारिकाय मम धम्मदेसनाय सुतदिवसतो पट्ठाय तीणि वस्सानि मरणस्सति भाविता, इदानाहं तत्थ गन्त्वा इमं कुमारिकं चत्तारो पञ्हे पुच्छित्वा ताय विस्सज्जेन्तिया चतूसु ठानेसु साधुकारं दत्वा इमं गाथं भासिस्सामि. सा गाथावसाने सोतापत्तिफले पतिट्ठहिस्सति, तं निस्साय महाजनस्सापि सात्थिका धम्मदेसना भविस्सती’’ति ञत्वा पञ्चसतभिक्खुपरिवारो जेतवना निक्खमित्वा अनुपुब्बेन अग्गाळवविहारं अगमासि. आळविवासिनो ‘‘सत्था आगतो’’ति सुत्वा तं विहारं गन्त्वा निमन्तयिंसु. तदा सापि कुमारिका सत्थु आगमनं सुत्वा ‘‘आगतो किर मय्हं पिता, सामि, आचरियो पुण्णचन्दमुखो महागोतमबुद्धो’’ति तुट्ठमानसा ‘‘इतो मे तिण्णं संवच्छरानं मत्थके सुवण्णवण्णो सत्था दिट्ठपुब्बो, इदानिस्स सुवण्णवण्णं सरीरं दट्ठुं मधुरोजञ्च वरधम्मं सोतुं लभिस्सामी’’ति चिन्तेसि. पिता पनस्सा सालं गच्छन्तो आह – ‘‘अम्म, परसन्तको मे साटको आरोपितो, तस्स विदत्थिमत्तं अनिट्ठितं, तं अज्ज निट्ठापेस्सामि, सीघं मे तसरं वट्टेत्वा आहरेय्यासी’’ति. सा चिन्तेसि – ‘‘अहं सत्थु धम्मं सोतुकामा, पिता च मं एवं आह. किं नु खो सत्थु धम्मं सुणामि, उदाहु पितु तसरं वट्टेत्वा हरामी’’ति? अथस्सा एतदहोसि ‘‘पिता मं तसरे अनाहरियमाने पोथेय्यपि पहरेय्यपि, तस्मा तसरं वट्टेत्वा तस्स दत्वा पच्छा धम्मं सोस्सामी’’ति पीठके निसीदित्वा तसरं वट्टेसि.

आळविवासिनोपि सत्थारं परिविसित्वा पत्तं गहेत्वा अनुमोदनत्थाय अट्ठंसु. सत्था ‘‘यमहं कुलधीतरं निस्साय तिंसयोजनमग्गं आगतो, सा अज्जापि ओकासं न लभति. ताय ओकासे लद्धे अनुमोदनं करिस्सामी’’ति तुण्हीभूतो अहोसि. एवं तुण्हीभूतम्पि सत्थारं सदेवके लोके कोचि किञ्चि वत्तुं न विसहति. सापि खो कुमारिका तसरं वट्टेत्वा पच्छियं ठपेत्वा पितु सन्तिकं गच्छमाना परिसपरियन्ते ठत्वा सत्थारं ओलोकयमानाव अट्ठासि. सत्थापि गीवं उक्खिपित्वा तं ओलोकेसि. सा ओलोकिताकारेनेव अञ्ञासि – ‘‘सत्था एवरूपाय परिसाय मज्झे निसीदित्वाव मं ओलोकेन्तो ममागमनं पच्चासीसति, अत्तनो सन्तिकं आगमनमेव पच्चासीसती’’ति. सा तसरपच्छिं ठपेत्वा सत्थु सन्तिकं अगमासि. कस्मा पन नं सत्था ओलोकेसीति? एवं किरस्स अहोसि ‘‘एसा एत्तोव गच्छमाना पुथुज्जनकालकिरियं कत्वा अनियतगतिका भविस्सति, मम सन्तिकं आगन्त्वा गच्छमाना सोतापत्तिफलं पत्वा नियतगतिका हुत्वा तुसितविमाने निब्बत्तिस्सती’’ति. तस्सा किर तं दिवसं मरणतो मुत्ति नाम नत्थि. सा ओलोकितसञ्ञाणेनेव सत्थारं उपसङ्कमित्वा छब्बण्णरंसीनं अन्तरं पविसित्वा वन्दित्वा एकमन्तं अट्ठासि. तथारूपाय परिसाय मज्झे निसीदित्वा तुण्हीभूतं सत्थारं वन्दित्वा ठितक्खणेयेव तं आह – ‘‘कुमारिके, कुतो आगच्छसी’’ति? ‘‘न जानामि, भन्ते’’ति. ‘‘कत्थ गमिस्ससी’’ति? ‘‘न जानामि, भन्ते’’ति. ‘‘न जानासी’’ति? ‘‘जानामि, भन्ते’’ति. ‘‘जानासी’’ति? ‘‘न जानामि, भन्ते’’ति. इति नं सत्था चत्तारो पञ्हे पुच्छि. महाजनो उज्झायि – ‘‘अम्भो, पस्सथ, अयं पेसकारधीता सम्मासम्बुद्धेन सद्धिं इच्छितिच्छितं कथेसि, ननु नाम इमाय ‘कुतो आगच्छसी’ति वुत्ते ‘पेसकारगेहतो’ति वत्तब्बं. ‘कहं गच्छसी’ति वुत्ते ‘पेसकारसाल’न्ति वत्तब्बं सिया’’ति.

सत्था महाजनं निस्सद्दं कत्वा, ‘‘कुमारिके, त्वं कुतो आगच्छसी’’ति वुत्ते ‘‘कस्मा न जानामीति वदेसी’’ति पुच्छि. भन्ते, तुम्हे मम पेसकारगेहतो आगतभावं जानाथ, ‘‘कुतो आगतासी’’ति पुच्छन्ता पन ‘‘कुतो आगन्त्वा इध निब्बत्तासी’’ति पुच्छथ. अहं पन न जानामि ‘‘कुतो च आगन्त्वा इध निब्बत्ताम्ही’’ति. अथस्सा सत्था ‘‘साधु साधु, कुमारिके, मया पुच्छितपञ्होव तया विस्सज्जितो’’ति पठमं साधुकारं दत्वा उत्तरिम्पि पुच्छि – ‘‘कत्थ गमिस्ससीति पुन पुट्ठा कस्मा ‘न जानामी’ति वदेसी’’ति? भन्ते, तुम्हे मं तसरपच्छिं गहेत्वा पेसकारसालं गच्छन्तिं जानाथ, ‘‘इतो गन्त्वा कत्थ निब्बत्तिस्ससी’’ति पुच्छथ. अहञ्च इतो चुता न जानामि ‘‘कत्थ गन्त्वा निब्बत्तिस्सामी’’ति. अथस्सा सत्था ‘‘मया पुच्छितपञ्होयेव तया विस्सज्जितो’’ति दुतियं साधुकारं दत्वा उत्तरिम्पि पुच्छि – ‘‘अथ कस्मा ‘न जानासी’ति पुट्ठा ‘जानामी’ति वदेसी’’ति? ‘‘मरणभावं जानामि, भन्ते, तस्मा एवं वदेमी’’ति. अथस्सा सत्था ‘‘मया पुच्छितपञ्होयेव तया विस्सज्जितो’’ति ततियं साधुकारं दत्वा उत्तरिम्पि पुच्छि – ‘‘अथ कस्मा ‘जानासी’ति पुट्ठा ‘न जानामी’ति वदेसी’’ति. मम मरणभावमेव अहं जानामि, भन्ते, ‘‘रत्तिन्दिवपुब्बण्हादीसु पन असुककाले नाम मरिस्सामी’’ति न जानामि, तस्मा एवं वदेमीति. अथस्सा सत्था ‘‘मया पुच्छितपञ्होयेव तया विस्सज्जितो’’ति चतुत्थं साधुकारं दत्वा परिसं आमन्तेत्वा ‘‘एत्तकं नाम तुम्हे इमाय कथितं न जानाथ, केवलं उज्झायथेव. येसञ्हि पञ्ञाचक्खु नत्थि, ते अन्धा एव. येसं पञ्ञाचक्खु अत्थि, ते एव चक्खुमन्तो’’ति वत्वा इमं गाथमाह –

१७४. ‘‘अन्धभूतो अयं लोको, तनुकेत्थ विपस्सति;

सकुणो जालमुत्तोव, अप्पो सग्गाय गच्छती’’ति.

तत्थ अन्धभूतो अयं लोकोति अयं लोकियमहाजनो पञ्ञाचक्खुनो अभावेन अन्धभूतो. तनुकेत्थाति तनुको एत्थ, न बहु जनो अनिच्चादिवसेन विपस्सति. जालमुत्तोवाति यथा छेकेन साकुणिकेन जालेन ओत्थरित्वा गय्हमानेसु वट्टकेसु कोचिदेव जालतो मुच्चति. सेसा अन्तोजालमेव पविसन्ति. तथा मरणजालेन ओत्थटेसु सत्तेसु बहू अपायगामिनो होन्ति, अप्पो कोचिदेव सत्तो सग्गाय गच्छति, सुगतिं वा निब्बानं वा पापुणातीति अत्थो.

देसनावसाने कुमारिका सोतापत्तिफले पतिट्ठहि, महाजनस्सापि सात्थिका धम्मदेसना अहोसीति.

सापि तसरपच्छिं गहेत्वा पितु सन्तिकं अगमासि, सोपि निसिन्नकोव निद्दायि. तस्सा असल्लक्खेत्वाव तसरपच्छिं उपनामेन्तिया तसरपच्छि वेमकोटियं पटिहञ्ञित्वा सद्दं कुरुमाना पति. सो पबुज्झित्वा गहितनिमित्तेनेव वेमकोटिं आकड्ढि. वेमकोटि गन्त्वा तं कुमारिकं उरे पहरि, सा तत्थेव कालं कत्वा तुसितभवने निब्बत्ति. अथस्सा पिता तं ओलोकेन्तो सकलसरीरेन लोहितमक्खितेन पतित्वा मतं अद्दस. अथस्स महासोको उप्पज्जि. सो ‘‘न मम सोकं अञ्ञो निब्बापेतुं सक्खिस्सती’’ति रोदन्तो सत्थु सन्तिकं गन्त्वा तमत्थं आरोचेत्वा, ‘‘भन्ते, सोकं मे निब्बापेथा’’ति आह. सत्था तं समस्सासेत्वा ‘‘मा सोचि, उपासक. अनमतग्गस्मिञ्हि संसारे तव एवमेव धीतु मरणकाले पग्घरितअस्सु चतुन्नं महासमुद्दानं उदकतो अतिरेकतर’’न्ति वत्वा अनमतग्गकथं कथेसि. सो तनुभूतसोको सत्थारं पब्बज्जं याचित्वा लद्धूपसम्पदो न चिरस्सेव अरहत्तं पापुणीति.

पेसकारधीतावत्थु सत्तमं.