८. कालत्थेरवत्थु
यो सासनन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो कालत्थेरं आरब्भ कथेसि.
सावत्थियं किरेका इत्थी मातुट्ठाने ठत्वा तं थेरं उपट्ठहि. तस्सा पटिविस्सकगेहे मनुस्सा सत्थु सन्तिके धम्मं सुत्वा आगन्त्वा ‘‘अहो बुद्धा नाम अच्छरिया, अहो धम्मदेसना मधुरा’’ति पसंसन्ति. सा इत्थी तेसं कथं सुत्वा, ‘‘भन्ते, अहम्पि सत्थु धम्मदेसनं सोतुकामा’’ति तस्स आरोचेसि. सो ‘‘तत्थ मा गमी’’ति तं निवारेसि. सा पुनदिवसे पुनदिवसेपीति यावततियं तेन निवारियमानापि सोतुकामाव अहोसि. कस्मा सो पनेतं निवारेसीति? एवं किरस्स अहोसि – ‘‘सत्थु सन्तिके धम्मं सुत्वा मयि भिज्जिस्सती’’ति. सा एकदिवसं पातोव भुत्तपातरासा उपोसथं समादियित्वा, ‘‘अम्म, साधुकं अय्यं परिविसेय्यासी’’ति धीतरं आणापेत्वा विहारं अगमासि. धीतापिस्सा तं भिक्खुं आगतकाले परिविसित्वा ‘‘कुहिं महाउपासिका’’ति वुत्ता ‘‘धम्मस्सवनाय विहारं गता’’ति आह. सो तं सुत्वाव कुच्छियं उट्ठितेन डाहेन सन्तप्पमानो ‘‘इदानि सा मयि भिन्ना’’ति वेगेन गन्त्वा सत्थु सन्तिके धम्मं सुणमानं दिस्वा सत्थारं आह, ‘‘भन्ते, अयं इत्थी दन्धा सुखुमं धम्मकथं न जानाति, इमिस्सा खन्धादिपटिसंयुत्तं सुखुमं धम्मकथं अकथेत्वा दानकथं वा सीलकथं वा कथेतुं वट्टती’’ति. सत्था तस्सज्झासयं विदित्वा ‘‘त्वं दुप्पञ्ञो पापिकं दिट्ठिं निस्साय बुद्धानं सासनं पटिक्कोससि. अत्तघातायेव वायमसी’’ति वत्वा इमं गाथमाह –
१६४. ‘‘यो सासनं अरहतं, अरियानं धम्मजीविनं;
पटिक्कोसति दुम्मेधो, दिट्ठिं निस्साय पापिकं;
फलानि कट्ठकस्सेव, अत्तघाताय फल्लती’’ति.
तस्सत्थो – यो दुम्मेधो पुग्गलो अत्तनो सक्कारहानिभयेन पापिकं दिट्ठिं निस्साय ‘‘धम्मं वा सोस्साम, दानं वा दस्सामा’’ति वदन्ते पटिक्कोसन्तो अरहतं अरियानं धम्मजीविनं बुद्धानं सासनं पटिक्कोसति, तस्स तं पटिक्कोसनं सा च पापिका दिट्ठि वेळुसङ्खातस्स कट्ठकस्स फलानि विय होति. तस्मा यथा कट्ठको फलानि गण्हन्तो अत्तघाताय फल्लति, अत्तनो घातत्थमेव फलति, एवं सोपि अत्तघाताय फल्लतीति. वुत्तम्पि चेतं –
‘‘फलं वे कदलिं हन्ति, फलं वेळुं फलं नळं;
सक्कारो कापुरिसं हन्ति, गब्भो अस्सतरिं यथा’’ति. (चूळव. ३३५; अ. नि. ४.६८);
देसनावसाने उपासिका सोतापत्तिफले पतिट्ठहि, सम्पत्तपरिसायपि सात्थिका धम्मदेसना अहोसीति.
कालत्थेरवत्थु अट्ठमं.