७. सङ्घभेदपरिसक्कनवत्थु

सुकरानीति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो सङ्घभेदपरिसक्कनं आरब्भ कथेसि.

एकदिवसञ्हि देवदत्तो सङ्घभेदाय परिसक्कन्तो आयस्मन्तं आनन्दं पिण्डाय चरन्तं दिस्वा अत्तनो अधिप्पायं आरोचेसि. तं सुत्वा थेरो सत्थु सन्तिकं गन्त्वा भगवन्तं एतदवोच – ‘‘इधाहं, भन्ते, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसिं. अद्दसा खो मं, भन्ते, देवदत्तो राजगहे पिण्डाय चरन्तं. दिस्वा येनाहं तेनुपसङ्कमि, उपसङ्कमित्वा मं एतदवोच – ‘अज्जतग्गे दानाहं, आवुसो आनन्द, अञ्ञत्रेव भगवता अञ्ञत्र भिक्खुसङ्घेन उपोसथं करिस्सामि सङ्घकम्मञ्चा’ति. अज्ज भगवा देवदत्तो सङ्घं भिन्दिस्सति, उपोसथञ्च करिस्सति सङ्घकम्मानि चा’’ति. एवं वुत्ते सत्था –

‘‘सुकरं साधुना साधु, साधु पापेन दुक्करं;

पापं पापेन सुकरं, पापमरियेहि दुक्कर’’न्ति. (उदा. ४८) –

इमं उदानं उदानेत्वा, ‘‘आनन्द, अत्तनो अहितकम्मं नाम सुकरं, हितकम्ममेव दुक्कर’’न्ति वत्वा इमं गाथमाह –

१६३. ‘‘सुकरानि असाधूनि, अत्तनो अहितानि च;

यं वे हितञ्च साधुञ्च, तं वे परमदुक्कर’’न्ति.

तस्सत्थो – यानि कम्मानि असाधूनि सावज्जानि अपायसंवत्तनिकत्तायेव अत्तनो अहितानि च होन्ति, तानि सुकरानि. यं पन सुगतिसंवत्तनिकत्ता अत्तनो हितञ्च अनवज्जत्थेन साधुञ्च सुगतिसंवत्तनिकञ्चेव निब्बानसंवत्तनिकञ्च कम्मं, तं पाचीननिन्नाय गङ्गाय उब्बत्तेत्वा पच्छामुखकरणं विय अतिदुक्करन्ति.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

सङ्घभेदपरिसक्कनवत्थु सत्तमं.