४. कुमारकस्सपमातुथेरीवत्थु

अत्ता हि अत्तनो नाथोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो कुमारकस्सपत्थेरस्स मातरं आरब्भ कथेसि.

सा किर राजगहनगरे सेट्ठिधीता विञ्ञुतं पत्तकालतो पट्ठाय पब्बज्जं याचि. अथ सा पुनप्पुनं याचमानापि मातापितूनं सन्तिका पब्बज्जं अलभित्वा वयप्पत्ता पतिकुलं गन्त्वा पतिदेवता हुत्वा अगारं अज्झावसि. अथस्सा न चिरस्सेव कुच्छिस्मिं गब्भो पतिट्ठहि. सा गब्भस्स पतिट्ठितभावं अजानित्वाव सामिकं आराधेत्वा पब्बज्जं याचि. अथ नं सो महन्तेन सक्कारेन भिक्खुनुपस्सयं नेत्वा अजानन्तो देवदत्तपक्खिकानं भिक्खुनीनं सन्तिके पब्बाजेसि. अपरेन समयेन भिक्खुनियो तस्सा गब्भिनिभावं ञत्वा ताहि ‘‘किं इद’’न्ति वुत्ता नाहं, अय्ये, जानामि ‘‘किमेतं’’, सीलं वत मे अरोगमेवाति. भिक्खुनियो तं देवदत्तस्स सन्तिकं नेत्वा ‘‘अयं भिक्खुनी सद्धापब्बजिता, इमिस्सा मयं गब्भस्स पतिट्ठितभावं जानाम, कालं न जानाम, किं दानि करोमा’’ति पुच्छिंसु. देवदत्तो ‘‘मा मय्हं ओवादकारिकानं भिक्खुनीनं अयसो उप्पज्जतू’’ति एत्तकमेव चिन्तेत्वा ‘‘उप्पब्बाजेथ न’’न्ति आह. तं सुत्वा सा दहरा मा मं, अय्ये, नासेथ, नाहं देवदत्तं उद्दिस्स पब्बजिता, एथ, मं सत्थु सन्तिकं जेतवनं नेथाति. ता तं आदाय जेतवनं गन्त्वा सत्थु आरोचेसुं. सत्था ‘‘तस्सा गिहिकाले गब्भो पतिट्ठितो’’ति जानन्तोपि परवादमोचनत्थं राजानं पसेनदिकोसलं महाअनाथपिण्डिकं चूळअनाथपिण्डिकं विसाखाउपासिकं अञ्ञानि च महाकुलानि पक्कोसापेत्वा उपालित्थेरं आणापेसि – ‘‘गच्छ, इमिस्सा दहराय भिक्खुनिया चतुपरिसमज्झे कम्मं परिसोधेही’’ति. थेरो रञ्ञो पुरतो विसाखं पक्कोसापेत्वा तं अधिकरणं पटिच्छापेसि. सा साणिपाकारं परिक्खिपापेत्वा अन्तोसाणियं तस्सा हत्थपादनाभिउदरपरियोसानानि ओलोकेत्वा मासदिवसे समानेत्वा ‘‘गिहिभावे इमाय गब्भो लद्धो’’ति ञत्वा थेरस्स तमत्थं आरोचेसि. अथस्सा थेरो परिसमज्झे परिसुद्धभावं पतिट्ठापेसि. सा अपरेन समयेन पदुमुत्तरबुद्धस्स पादमूले पत्थितपत्थनं महानुभावं पुत्तं विजायि.

अथेकदिवसं राजा भिक्खुनुपस्सयसमीपेन गच्छन्तो दारकसद्दं सुत्वा ‘‘किं इद’’न्ति पुच्छित्वा, ‘‘देव, एकिस्सा भिक्खुनिया पुत्तो जातो, तस्सेस सद्दो’’ति वुत्ते तं कुमारं अत्तनो घरं नेत्वा धातीनं अदासि. नामग्गहणदिवसे चस्स कस्सपोति नामं कत्वा कुमारपरिहारेन वड्ढितत्ता कुमारकस्सपोति सञ्जानिंसु. सो कीळामण्डले दारके पहरित्वा ‘‘निम्मातापितिकेनम्हा पहटा’’ति वुत्ते राजानं उपसङ्कमित्वा, ‘‘देव, मं ‘निम्मातापितिको’ति वदन्ति, मातरं मे आचिक्खथा’’ति पुच्छित्वा रञ्ञा धातियो दस्सेत्वा ‘‘इमा ते मातरो’’ति वुत्ते ‘‘न एत्तिका मे मातरो, एकाय मे मातरा भवितब्बं, तं मे आचिक्खथा’’ति आह. राजा ‘‘न सक्का इमं वञ्चेतु’’न्ति चिन्तेत्वा, तात, तव माता भिक्खुनी, त्वं मया भिक्खुनुपस्सया आनीतोति. सो तावतकेनेव समुप्पन्नसंवेगो हुत्वा, ‘‘तात, पब्बाजेथ म’’न्ति आह. राजा ‘‘साधु, ताता’’ति तं महन्तेन सक्कारेन सत्थु सन्तिके पब्बाजेसि. सो लद्धूपसम्पदो कुमारकस्सपत्थेरोति पञ्ञायि. सो सत्थु सन्तिके कम्मट्ठानं गहेत्वा अरञ्ञं पविसित्वा वायमित्वा विसेसं निब्बत्तेतुं असक्कोन्तो ‘‘पुन कम्मट्ठानं विसेसेत्वा गहेस्सामी’’ति सत्थु सन्तिकं गन्त्वा अन्धवने विहासि.

अथ नं कस्सपबुद्धकाले एकतो समणधम्मं कत्वा अनागामिफलं पत्वा ब्रह्मलोके निब्बत्तभिक्खु ब्रह्मलोकतो आगन्त्वा पन्नरस पञ्हे पुच्छित्वा ‘‘इमे पञ्हे ठपेत्वा सत्थारं अञ्ञो ब्याकातुं समत्थो नाम नत्थि, गच्छ, सत्थु सन्तिके इमेसं अत्थं उग्गण्हा’’ति उय्योजेसि. सो तथा कत्वा पञ्हविस्सज्जनावसाने अरहत्तं पापुणि. तस्स पन निक्खन्तदिवसतो पट्ठाय द्वादस वस्सानि मातुभिक्खुनिया अक्खीहि अस्सूनि पवत्तिंसु. सा पुत्तवियोगदुक्खिता अस्सुतिन्तेनेव मुखेन भिक्खाय चरमाना अन्तरवीथियं थेरं दिस्वाव, ‘‘पुत्त, पुत्ता’’ति विरवन्ती तं गण्हितुं उपधावमाना परिवत्तित्वा पति. सा थनेहि खीरं मुञ्चन्तेहि उट्ठहित्वा अल्लचीवरा गन्त्वा थेरं गण्हि. सो चिन्तेसि – ‘‘सचायं मम सन्तिका मधुरवचनं लभिस्सति, विनस्सिस्सति. थद्धमेव कत्वा इमाय सद्धिं सल्लपिस्सामी’’ति. अथ नं आह – ‘‘किं करोन्ती विचरसि, सिनेहमत्तम्पि छिन्दितुं न सक्कोसी’’ति. सा ‘‘अहो कक्खळा थेरस्स कथा’’ति चिन्तेत्वा ‘‘किं वदेसि, ताता’’ति वत्वा पुनपि तेन तथेव वुत्ता चिन्तेसि – ‘‘अहं इमस्स कारणा द्वादस वस्सानि अस्सूनि सन्धारेतुं न सक्कोमि, अयं पनेवं थद्धहदयो, किं मे इमिना’’ति पुत्तसिनेहं छिन्दित्वा तंदिवसमेव अरहत्तं पापुणि.

अपरेन समयेन धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, देवदत्तेन एवं उपनिस्सयसम्पन्नो कुमारकस्सपो च थेरी च नासिता, सत्था पन तेसं पतिट्ठा जातो, अहो बुद्धा नाम लोकानुकम्पका’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव अहं इमेसं पच्चयो पतिट्ठा जातो, पुब्बेपि नेसं अहं पतिट्ठा अहोसिंयेवा’’ति वत्वा –

‘‘निग्रोधमेव सेवेय्य, न साखमुपसंवसे;

निग्रोधस्मिं मतं सेय्यो, यञ्चे साखस्मि जीवित’’न्ति. (जा. १.१.१२; १.१०.८१) –

इमं निग्रोधजातकं वित्थारेन कथेत्वा ‘‘तदा साखमिगो देवदत्तो अहोसि, परिसापिस्स देवदत्तपरिसा, वारप्पत्ता मिगधेनु थेरी अहोसि, पुत्तो कुमारकस्सपो, गब्भिनीमिगिया जीवितं परिच्चजित्वा गतो निग्रोधमिगराजा पन अहमेवा’’ति जातकं समोधानेत्वा पुत्तसिनेहं छिन्दित्वा थेरिया अत्तनाव अत्तनो पतिट्ठानकतभावं पकासेन्तो, ‘‘भिक्खवे, यस्मा परस्स अत्तनि ठितेन सग्गपरायणेन वा मग्गपरायणेन वा भवितुं न सक्का, तस्मा अत्ताव अत्तनो नाथो, परो किं करिस्सती’’ति वत्वा इमं गाथमाह –

१६०. ‘‘अत्ता हि अत्तनो नाथो, को हि नाथो परो सिया;

अत्तना हि सुदन्तेन, नाथं लभति दुल्लभ’’न्ति.

तत्थ नाथोति पतिट्ठा. इदं वुत्तं होति – यस्मा अत्तनि ठितेन अत्तसम्पन्नेन कुसलं कत्वा सग्गं वा पापुणितुं, मग्गं वा भावेतुं, फलं वा सच्छिकातुं सक्का. तस्मा हि अत्ताव अत्तनो पतिट्ठा होति, परो को नाम कस्स पतिट्ठा सिया. अत्तना एव हि सुदन्तेन निब्बिसेवनेन अरहत्तफलसङ्खातं दुल्लभं नाथं लभति. अरहत्तञ्हि सन्धाय इध ‘‘नाथं लभति दुल्लभ’’न्ति वुत्तं.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

कुमारकस्सपमातुथेरीवत्थु चतुत्थं.