३. पधानिकतिस्सत्थेरवत्थु

अत्तानञ्चेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो पधानिकतिस्सत्थेरं आरब्भ कथेसि.

सो किर सत्थु सन्तिके कम्मट्ठानं गहेत्वा पञ्चसते भिक्खू आदाय अरञ्ञे वस्सं उपगन्त्वा, ‘‘आवुसो, धरमानकस्स बुद्धस्स सन्तिके वो कम्मट्ठानं गहितं, अप्पमत्ताव समणधम्मं करोथा’’ति ओवदित्वा सयं गन्त्वा निपज्जित्वा सुपति. ते भिक्खू पठमयामे चङ्कमित्वा मज्झिमयामे विहारं पविसन्ति. सो निद्दायित्वा पबुद्धकाले तेसं सन्तिकं गन्त्वा ‘‘किं तुम्हे ‘निपज्जित्वा निद्दायिस्सामा’ति आगता, सीघं निक्खमित्वा समणधम्मं करोथा’’ति वत्वा सयं गन्त्वा तथेव सुपति. इतरे मज्झिमयामे बहि चङ्कमित्वा पच्छिमयामे विहारं पविसन्ति. सो पुनपि पबुज्झित्वा तेसं सन्तिकं गन्त्वा ते विहारा नीहरित्वा सयं पुन गन्त्वा तथेव सुपति. तस्मिं निच्चकालं एवं करोन्ते ते भिक्खू सज्झायं वा कम्मट्ठानं वा मनसिकातुं नासक्खिंसु, चित्तं अञ्ञथत्तं अगमासि. ते ‘‘अम्हाकं आचरियो अतिविय आरद्धवीरियो, परिग्गण्हिस्साम न’’न्ति परिग्गण्हन्ता तस्स किरियं दिस्वा ‘‘नट्ठम्हा, आवुसो, आचरियो नो तुच्छरवं रवती’’ति वदिंसु. तेसं अतिविय निद्दाय किलमन्तानं एकभिक्खुपि विसेसं निब्बत्तेतुं नासक्खि. ते वुट्ठवस्सा सत्थु सन्तिकं गन्त्वा सत्थारा कतपटिसन्थारा ‘‘किं, भिक्खवे, अप्पमत्ता हुत्वा समणधम्मं करित्था’’ति पुच्छिता तमत्थं आरोचेसुं. सत्था ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस तुम्हाकं अन्तरायमकासियेवा’’ति वत्वा तेहि याचितो –

‘‘अमातापितरसंवड्ढो, अनाचेरकुले वसं;

नायं कालं अकालं वा, अभिजानाति कुक्कुटो’’ति. (जा. १.१.११९) –

इमं अकालराविकुक्कुटजातकं वित्थारेत्वा कथेसि. ‘‘तदा हि सो कुक्कुटो अयं पधानिकतिस्सत्थेरो अहोसि, इमे पञ्च सता भिक्खू ते माणवा अहेसुं, दिसापामोक्खो आचरियो अहमेवा’’ति सत्था इमं जातकं वित्थारेत्वा, ‘‘भिक्खवे, परं ओवदन्तेन नाम अत्ता सुदन्तो कातब्बो. एवं ओवदन्तो हि सुदन्तो हुत्वा दमेति नामा’’ति वत्वा इमं गाथमाह –

१५९. ‘‘अत्तानञ्चे तथा कयिरा, यथाञ्ञमनुसासति;

सुदन्तो वत दमेथ, अत्ता हि किर दुद्दमो’’ति.

तस्सत्थो – यो हि भिक्खु ‘‘पठमयामादीसु चङ्कमितब्ब’’न्ति वत्वा परं ओवदति, सयं चङ्कमनादीनि अधिट्ठहन्तो अत्तानञ्चे तथा कयिरा, यथाञ्ञमनुसासति, एवं सन्ते सुदन्तो वत दमेथाति येन गुणेन परं अनुसासति, तेन अत्तना सुदन्तो हुत्वा दमेय्य. अत्ता हि किर दुद्दमोति अयञ्हि अत्ता नाम दुद्दमो. तस्मा यथा सो सुदन्तो होति, तथा दमेतब्बोति.

देसनावसाने पञ्च सतापि ते भिक्खू अरहत्तं पापुणिंसूति.

पधानिकतिस्सत्थेरवत्थु ततियं.