७. लाळुदायित्थेरवत्थु
अप्पस्सुतायन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो लाळुदायित्थेरं आरब्भ कथेसि.
सो किर मङ्गलं करोन्तानं गेहं गन्त्वा ‘‘तिरोकुट्टेसु तिट्ठन्ती’’तिआदिना (खु. पा. ७.१; पे. व. १४) नयेन अवमङ्गलं कथेति, अवमङ्गलं करोन्तानं गेहं गन्त्वा तिरोकुट्टादीसु कथेतब्बेसु ‘‘दानञ्च धम्मचरिया चा’’तिआदिना (खु. पा. ५.७; सु. नि. २६६) नयेन मङ्गलगाथा वा ‘‘यं किञ्चि वित्तं इध वा हुरं वा’’ति रतनसुत्तं (खु. पा. ६.३; सु. नि. २२६) वा कथेति. एवं तेसु तेसु ठानेसु ‘‘अञ्ञं कथेस्सामी’’ति अञ्ञं कथेन्तोपि ‘‘अञ्ञं कथेमी’’ति न जानाति. भिक्खू तस्स कथं सुत्वा सत्थु आरोचेसुं – ‘‘किं, भन्ते, लाळुदायिस्स मङ्गलामङ्गलट्ठानेसु गमनेन, अञ्ञस्मिं कथेतब्बे अञ्ञमेव कथेती’’ति. सत्था ‘‘न, भिक्खवे, इदानेवेस एवं कथेति, पुब्बेपि अञ्ञस्मिं कथेतब्बे अञ्ञमेव कथेसी’’ति वत्वा अतीतं आहरि –
अतीते किर बाराणसियं अग्गिदत्तस्स नाम ब्राह्मणस्स पुत्तो सोमदत्तकुमारो नाम राजानं उपट्ठहि. सो रञ्ञा पियो अहोसि मनापो. ब्राह्मणो पन कसिकम्मं निस्साय जीवति. तस्स द्वेयेव गोणा अहेसुं. तेसु एको मतो. ब्राह्मणो पुत्तं आह – ‘‘तात, सोमदत्त, राजानं मे याचित्वा एकं गोणं आहरा’’ति. सोमदत्तो ‘‘सचाहं राजानं याचिस्सामि, लहुभावो मे पञ्ञायिस्सती’’ति चिन्तेत्वा ‘‘तुम्हेयेव, तात, राजानं याचथा’’ति वत्वा ‘‘तेन हि, तात, मं गहेत्वा याही’’ति वुत्तो चिन्तेसि – ‘‘अयं ब्राह्मणो दन्धपञ्ञो अभिक्कमादिवचनमत्तम्पि न जानाति, अञ्ञस्मिं वत्तब्बे अञ्ञमेव वदति, सिक्खापेत्वा पन नं नेस्सामी’’ति. सो तं आदाय बीरणत्थम्भकं नाम सुसानं गन्त्वा तिणकलापे बन्धित्वा ‘‘अयं राजा, अयं उपराजा, अयं सेनापती’’ति नामानि कत्वा पटिपाटिया पितु दस्सेत्वा ‘‘तुम्हेहि राजकुलं गन्त्वा एवं अभिक्कमितब्बं, एवं पटिक्कमितब्बं, एवं नाम राजा वत्तब्बो, एवं नाम उपराजा, राजानं पन उपसङ्कमित्वा ‘जयतु भवं, महाराजा’ति वत्वा एवं ठत्वा इमं गाथं वत्वा गोणं याचेय्याथा’’ति गाथं उग्गण्हापेसि –
‘‘द्वे मे गोणा महाराज, येहि खेत्तं कसामसे;
तेसु एको मतो देव, दुतियं देहि खत्तिया’’ति.
सो हि संवच्छरमत्तेन तं गाथं पगुणं कत्वा पगुणभावं पुत्तस्स आरोचेत्वा ‘‘तेन हि, तात, कञ्चिदेव पण्णाकारं आदाय आगच्छथ, अहं पुरिमतरं गन्त्वा रञ्ञो सन्तिके ठस्सामी’’ति वुत्ते ‘‘साधु, ताता’’ति पण्णाकारं गहेत्वा सोमदत्तस्स रञ्ञो सन्तिके ठितकाले उस्साहप्पत्तो राजकुलं गन्त्वा रञ्ञा तुट्ठचित्तेन कतपटिसम्मोदनो, ‘‘तात, चिरस्सं वत आगतत्थ, इदमासनं निसीदित्वा वदथ, येनत्थो’’ति वुत्ते इमं गाथमाह –
‘‘द्वे मे गोणा महाराज, येहि खेत्तं कसामसे;
तेसु एको मतो देव, दुतियं गण्ह खत्तिया’’ति.
रञ्ञा ‘‘किं वदेसि, तात, पुन वदेही’’ति वुत्तेपि तमेव गाथं आह. राजा तेन विरज्झित्वा कथितभावं ञत्वा सितं कत्वा, ‘‘सोमदत्त, तुम्हाकं गेहे बहू मञ्ञे गोणा’’ति वत्वा ‘‘तुम्हेहि दिन्ना बहू भविस्सन्ति, देवा’’ति वुत्ते बोधिसत्तस्स तुस्सित्वा ब्राह्मणस्स सोळस गोणे अलङ्कारभण्डकं निवासगामञ्चस्स ब्रह्मदेय्यं दत्वा महन्तेन यसेन ब्राह्मणं उय्योजेसीति.
सत्था इमं धम्मदेसनं आहरित्वा ‘‘तदा राजा आनन्दो अहोसि, ब्राह्मणो लाळुदायी, सोमदत्तो पन अहमेवा’’ति जातकं समोधानेत्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस अत्तनो अप्पस्सुतताय अञ्ञस्मिं वत्तब्बे अञ्ञमेव वदति. अप्पस्सुतपुरिसो हि बलिबद्दसदिसो नाम होती’’ति वत्वा इमं गाथमाह –
१५२. ‘‘अप्पस्सुतायं पुरिसो, बलिबद्दोव जीरति;
मंसानि तस्स वड्ढन्ति, पञ्ञा तस्स न वड्ढती’’ति.
तत्थ अप्पस्सुतायन्ति एकस्स वा द्विन्नं वा पण्णासकानं. अथ वा पन वग्गानं सब्बन्तिमेन परिच्छेदेन एकस्स वा द्विन्नं वा सुत्तन्तानं वापि अभावेन अप्पस्सुतो अयं. कम्मट्ठानं पन उग्गहेत्वा अनुयुञ्जन्तो बहुस्सुतोव. बलिबद्दोव जीरतीति यथा हि बलिबद्दो जीरमानो वड्ढमानो नेव मातु, न पितु, न सेसञातकानं अत्थाय वड्ढति, अथ खो निरत्थकमेव जीरति, एवमेवं अयम्पि न उपज्झायवत्तं करोति, न आचरियवत्तं, न आगन्तुकवत्तादीनि, न भावनारामतं अनुयुञ्जति, निरत्थकमेव जीरति, मंसानि तस्स वड्ढन्तीति यथा बलिबद्दस्स ‘‘युगनङ्गलादीनि वहितुं असमत्थो एसो’’ति अरञ्ञे विस्सट्ठस्स तत्थेव विचरन्तस्स खादन्तस्स पिवन्तस्स मंसानि वड्ढन्ति, एवमेव इमस्सापि उपज्झायादीहि विस्सट्ठस्स सङ्घं निस्साय चत्तारो पच्चये लभित्वा उद्धविरेचनादीनि कत्वा कायं पोसेन्तस्स मंसानि वड्ढन्ति, थूलसरीरो हुत्वा विचरति. पञ्ञा तस्साति लोकियलोकुत्तरा पनस्स पञ्ञा एकङ्गुलमत्तापि न वड्ढति, अरञ्ञे पन गच्छलतादीनि विय छ द्वारानि निस्साय तण्हा चेव नवविधमानो च वड्ढतीति अत्थो.
देसनावसाने महाजनो सोतापत्तिफलादीनि पापुणीति.
लाळुदायित्थेरवत्थु सत्तमं.