७. सारिपुत्तत्थेरस्स सहायकब्राह्मणवत्थु
यं किञ्चि यिट्ठं वाति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो सारिपुत्तत्थेरस्स सहायकब्राह्मणं आरब्भ कथेसि.
तम्पि हि थेरो उपसङ्कमित्वा ‘‘किं, ब्राह्मण, किञ्चि कुसलं करोसी’’ति पुच्छि. ‘‘आम, भन्ते’’ति. ‘‘किं करोसी’’ति? ‘‘यिट्ठयागं यजामी’’ति. ‘‘तदा किर तं यागं महापरिच्चागेन यज’’न्ति. इतो परं थेरो पुरिमनयेनेव पुच्छित्वा तं सत्थु सन्तिकं नेत्वा तं पवत्तिं आरोचेत्वा ‘‘इमस्स, भन्ते, ब्रह्मलोकस्स मग्गं कथेथा’’ति आह. सत्था, ‘‘ब्राह्मण, एवं किरा’’ति पुच्छित्वा ‘‘एवं, भो गोतमा’’ति वुत्ते, ‘‘ब्राह्मण, तया संवच्छरं यिट्ठयागं यजन्तेन लोकियमहाजनस्स दिन्नदानं पसन्नचित्तेन मम सावकानं वन्दन्तानं उप्पन्नकुसलचेतनाय चतुभागमत्तम्पि न अग्घती’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
१०८. ‘‘यं किञ्चि यिट्ठं व हुतं व लोके,
संवच्छरं यजेथ पुञ्ञपेक्खो;
सब्बम्पि तं न चतुभागमेति,
अभिवादना उज्जुगतेसु सेय्यो’’ति.
तत्थ यं किञ्चीति अनवसेसपरियादानवचनमेतं. यिट्ठन्ति येभुय्येन मङ्गलकिरियादिवसेसु दिन्नदानं. हुतन्ति अभिसङ्खरित्वा कतं पाहुनदानञ्चेव, कम्मञ्च फलञ्च सद्दहित्वा कतदानञ्च. संवच्छरं यजेथाति एकसंवच्छरं निरन्तरमेव वुत्तप्पकारं दानं सकलचक्कवाळेपि लोकियमहाजनस्स ददेय्य. पुञ्ञपेक्खोति पुञ्ञं इच्छन्तो. उज्जुगतेसूति हेट्ठिमकोटिया सोतापन्नेसु उपरिमकोटिया खीणासवेसु. इदं वुत्तं होति – ‘‘एवरूपेसु पसन्नचित्तेन सरीरं ओनमित्वा वन्दन्तस्स कुसलचेतनाय यं फलं, ततो चतुभागम्पि सब्बं तं दानं न अग्घति, तस्मा उजुगतेसु अभिवादनमेव सेय्यो’’ति.
देसनावसाने सो ब्राह्मणो सोतापत्तिफलं पत्तो, अञ्ञेपि बहू सोतापत्तिफलादीनि पापुणिंसूति.
सारिपुत्तत्थेरस्स सहायकब्राह्मणवत्थु सत्तमं.