३. कुण्डलकेसित्थेरीवत्थु
यो च गाथासतं भासेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो कुण्डलकेसिं आरब्भ कथेसि.
राजगहे किर एका सेट्ठिधीता सोळसवस्सुद्देसिका अभिरूपा अहोसि दस्सनीया पासादिका. तस्मिञ्च वये ठिता नारियो पुरिसज्झासया होन्ति पुरिसलोला. अथ नं मातापितरो सत्तभूमिकस्स पासादस्स उपरिमतले सिरिगब्भे निवासापेसुं. एकमेवस्सा दासिं परिचारिकं अदंसु. अथेकं कुलपुत्तं चोरकम्मं करोन्तं गहेत्वा पच्छाबाहं बन्धित्वा चतुक्के चतुक्के कसाहि पहरित्वा आघातनं नयिंसु. सेट्ठिधीता महाजनस्स सद्दं सुत्वा ‘‘किं नु खो एत’’न्ति पासादतले ठत्वा ओलोकेन्ती तं दिस्वा पटिबद्धचित्ता हुत्वा तं पत्थयमाना आहारं पटिक्खिपित्वा मञ्चके निपज्जि. अथ नं माता पुच्छि – ‘‘किं इदं, अम्मा’’ति? ‘‘सचे एतं ‘चोरो’ति गहेत्वा निय्यमानं पुरिसं लभिस्सामि, जीविस्सामि. नो चे लभिस्सामि, जीवितं मे नत्थि, इधेव मरिस्सामी’’ति. ‘‘अम्म, मा एवं करि, अम्हाकं जातिया च गोत्तेन च भोगेन च सदिसं अञ्ञं सामिकं लभिस्ससी’’ति. ‘‘मय्हं अञ्ञेन किच्चं नत्थि, इमं अलभमाना मरिस्सामी’’ति. माता धीतरं सञ्ञापेतुं असक्कोन्ती पितुनो आरोचेसि. सोपि नं सञ्ञापेतुं असक्कोन्तो ‘‘किं सक्का कातु’’न्ति चिन्तेत्वा तं चोरं गहेत्वा गच्छन्तस्स राजपुरिसस्स सहस्सभण्डिकं पेसेसि – ‘‘इमं गहेत्वा एतं पुरिसं मय्हं देही’’ति. सो ‘‘साधू’’ति कहापणे गहेत्वा तं मुञ्चित्वा अञ्ञं मारेत्वा ‘‘मारितो, देव, चोरो’’ति रञ्ञो आरोचेसि. सेट्ठिपि तस्स धीतरं अदासि.
सा ततो पट्ठाय ‘‘सामिकं आराधेस्सामी’’ति सब्बाभरणपटिमण्डिता सयमेव तस्स यागुआदीनि संविदहति, चोरो कतिपाहच्चयेन चिन्तेसि – ‘‘कदा नु खो इमं मारेत्वा एतिस्सा आभरणानि गहेत्वा एकस्मिं सुरागेहे विक्किणित्वा खादितुं लभिस्सामी’’ति? सो ‘‘अत्थेको उपायो’’ति चिन्तेत्वा आहारं पटिक्खिपित्वा मञ्चके निपज्जि, अथ नं सा उपसङ्कमित्वा ‘‘किं ते, सामि, रुज्जती’’ति पुच्छि. ‘‘न किञ्चि मे, भद्देति, कच्चि पन मे मातापितरो तुय्हं कुद्धा’’ति? ‘‘न कुज्झन्ति, भद्दे’’ति. अथ ‘‘किं नामेत’’न्ति? ‘‘भद्दे, अहं तं दिवसं बन्धित्वा निय्यमानो चोरपपाते अधिवत्थाय देवताय बलिकम्मं पटिस्सुणित्वा जीवितं लभिं, त्वम्पि मया तस्सा एव आनुभावेन लद्धा, ‘तं मे देवताय बलिकम्मं ठपित’न्ति चिन्तेमि, भद्दे’’ति. ‘‘सामि, मा चिन्तयि, करिस्सामि बलिकम्मं, वदेहि, केनत्थो’’ति? ‘‘अप्पोदकमधुपायसेन च लाजपञ्चमकपुप्फेहि चा’’ति. ‘‘साधु, सामि, अहं पटियादेस्सामी’’ति सा सब्बं बलिकम्मं पटियादेत्वा ‘‘एहि, सामि, गच्छामा’’ति आह. ‘‘तेन हि, भद्दे, तव ञातके निवत्तेत्वा महग्घानि वत्थाभरणानि गहेत्वा अत्तानं अलङ्करोहि, हसन्ता कीळन्ता सुखं गमिस्सामा’’ति. सा तथा अकासि.
अथ नं सो पब्बतपादं गतकाले आह – ‘‘भद्दे, इतो परं उभोव जना गमिस्साम, सेसजनं यानकेन सद्धिं निवत्तापेत्वा बलिकम्मभाजनं सयं उक्खिपित्वा गण्हाही’’ति. सा तथा अकासि. चोरो तं गहेत्वा चोरपपातपब्बतं अभिरुहि. तस्स हि एकेन पस्सेन मनुस्सा अभिरुहन्ति, एकं पस्सं छिन्नपपातं. पब्बतमत्थके ठिता तेन पस्सेन चोरे पातेन्ति. ते खण्डाखण्डं हुत्वा भूमियं पतन्ति. तस्मा ‘‘चोरपपातो’’ति वुच्चति. सा तस्स पब्बतस्स मत्थके ठत्वा ‘‘बलिकम्मं ते, सामि, करोही’’ति आह. सो तुण्ही अहोसि. पुन ताय ‘‘कस्मा, सामि, तुण्हीभूतोसी’’ति वुत्ते तं आह – ‘‘न मय्हं बलिकम्मेनत्थो, वञ्चेत्वा पन तं आदाय आगतोम्ही’’ति. ‘‘किं कारणा, सामी’’ति? ‘‘तं मारेत्वा तव आभरणानि गहेत्वा पलायनत्थाया’’ति. सा मरणभयतज्जिता आह – ‘‘सामि, अहञ्च आभरणानि च तव सन्तकानेव, कस्मा एवं वदेसी’’ति? सो, ‘‘मा एवं करोही’’ति, पुनप्पुनं याचियमानोपि ‘‘मारेमि एवा’’ति आह. ‘‘एवं सन्ते किं ते मम मरणेन? इमानि आभरणानि गहेत्वा मय्हं जीवितं देहि, इतो पट्ठाय मं ‘मता’ति धारेहि, दासी वा ते हुत्वा कम्मं करिस्सामी’’ति वत्वा इमं गाथमाह –
‘‘इदं सुवण्णकेयूरं, मुत्ता वेळुरिया बहू;
सब्बं हरस्सु भद्दन्ते, मं च दासीति सावया’’ति. (अप. थेरी २.३.२७);
तं सुत्वा चोरो ‘‘एवं कते त्वं गन्त्वा मातापितूनं आचिक्खिस्ससि, मारेस्सामियेव, मा त्वं बाळ्हं परिदेवसी’’ति वत्वा इमं गाथमाह –
‘‘मा बाळ्हं परिदेवेसि, खिप्पं बन्धाहि भण्डिकं;
न तुय्हं जीवितं अत्थि, सब्बं गण्हामि भण्डक’’न्ति. –
सा चिन्तेसि – ‘‘अहो इदं कम्मं भारियं. पञ्ञा नाम न पचित्वा खादनत्थाय कता, अथ खो विचारणत्थाय कता, जानिस्सामिस्स कत्तब्ब’’न्ति, अथ नं आह – ‘‘सामि, यदा त्वं ‘चोरो’ति गहेत्वा नीयसि, तदाहं मातापितूनं आचिक्खिं, ते सहस्सं विस्सज्जेत्वा तं आहरापेत्वा गेहे करिंसु. ततो पट्ठाय अहं तुय्हं उपकारिका, अज्ज मे सुदिट्ठं कत्वा अत्तानं वन्दितुं देही’’ति. सो ‘‘साधु, भद्दे, सुदिट्ठं कत्वा वन्दाही’’ति वत्वा पब्बतन्ते अट्ठासि. अथ नं सा तिक्खत्तुं पदक्खिणं कत्वा चतूसु ठानेसु वन्दित्वा, ‘‘सामि, इदं ते पच्छिमदस्सनं, इदानि तुय्हं वा मम दस्सनं, मय्हं वा तव दस्सनं नत्थी’’ति पुरतो च पच्छतो च आलिङ्गित्वा पमत्तं हुत्वा पब्बतन्ते ठितं पिट्ठिपस्से ठत्वा एकेन हत्थेन खन्धे गहेत्वा एकेन पिट्ठिकच्छाय गहेत्वा पब्बतपपाते खिपि. सो पब्बतकुच्छियं पटिहतो खण्डाखण्डिकं हुत्वा भूमियं पति. चोरपपातमत्थके अधिवत्था देवता तेसं द्विन्नम्पि किरियं दिस्वा तस्सा इत्थिया साधुकारं दत्वा इमं गाथमाह –
‘‘न हि सब्बेसु ठानेसु, पुरिसो होति पण्डितो;
इत्थीपि पण्डिता होति, तत्थ तत्थ विचक्खणा’’ति. (अप. थेरी २.३.३१);
सापि चोरं पपाते खिपित्वा चिन्तेसि – ‘‘सचाहं गेहं गमिस्सामि, ‘सामिको ते कुहि’न्ति पुच्छिस्सन्ति, सचाहं एवं पुट्ठा ‘मारितो मे’ति वक्खामि, ‘दुब्बिनीते सहस्सं दत्वा तं आहरापेत्वा इदानि नं मारेसी’ति मं मुखसत्तीहि विज्झिस्सन्ति, ‘आभरणत्थाय सो मं मारेतुकामो अहोसी’ति वुत्तेपि न सद्दहिस्सन्ति, अलं मे गेहेना’’ति तत्थेवाभरणानि छड्डेत्वा अरञ्ञं पविसित्वा अनुपुब्बेन विचरन्ती एकं परिब्बाजकानं अस्समं पत्वा वन्दित्वा ‘‘मय्हं, भन्ते, तुम्हाकं सन्तिके पब्बज्जं देथा’’ति आह. अथ नं पब्बाजेसुं. सा पब्बजित्वाव पुच्छि – ‘‘भन्ते, तुम्हाकं पब्बज्जाय किं उत्तम’’न्ति? ‘‘भद्दे, दससु वा कसिणेसु परिकम्मं कत्वा झानं निब्बत्तेतब्बं, वादसहस्सं वा उग्गण्हितब्बं, अयं अम्हाकं पब्बज्जाय उत्तमत्थो’’ति. ‘‘झानं ताव निब्बत्तेतुं अहं न सक्खिस्सामि, वादसहस्सं पन उग्गण्हिस्सामि, अय्या’’ति. अथ नं ते वादसहस्सं उग्गण्हापेत्वा ‘‘उग्गहितं ते सिप्पं, इदानि त्वं जम्बुदीपतले विचरित्वा अत्तना सद्धिं पञ्हं कथेतुं समत्थं ओलोकेही’’ति तस्स हत्थे जम्बुसाखं दत्वा उय्योजेसुं – ‘‘गच्छ, भद्दे, सचे कोचि गिहिभूतो तया सद्धिं पञ्हं कथेतुं सक्कोति, तस्सेव पादपरिचारिका भवाहि, सचे पब्बजितो सक्कोति, तस्स सन्तिके पब्बजाही’’ति.
सा नामेन जम्बुपरिब्बाजिका नाम हुत्वा ततो निक्खमित्वा दिट्ठे दिट्ठे पञ्हं पुच्छन्ती विचरति. ताय सद्धिं कथेतुं समत्थो नाम नाहोसि. ‘‘इतो जम्बुपरिब्बाजिका आगच्छती’’ति सुत्वाव मनुस्सा पलायन्ति. सा गामं वा निगमं वा भिक्खाय पविसन्ती गामद्वारे वालुकरासिं कत्वा तत्थ जम्बुसाखं ठपेत्वा ‘‘मया सद्धिं कथेतुं समत्थो जम्बुसाखं मद्दतू’’ति वत्वा गामं पाविसि. तं ठानं उपसङ्कमितुं समत्थो नाम नाहोसि. सापि मिलाताय जम्बुसाखाय अञ्ञं जम्बुसाखं गण्हाति, इमिना नीहारेन विचरन्ती सावत्थिं पत्वा गामद्वारे वालुकरासिं कत्वा जम्बुसाखं ठपेत्वा वुत्तनयेनेव वत्वा भिक्खाय पाविसि. सम्बहुला गामदारका जम्बुसाखं परिवारेत्वा अट्ठंसु. तदा सारिपुत्तत्थेरो पिण्डाय चरित्वा कतभत्तकिच्चो नगरा निक्खन्तो ते दारके जम्बुसाखं परिवारेत्वा ठिते दिस्वा ‘‘किं इद’’न्ति पुच्छि. दारका थेरस्स तं पवत्तिं आचिक्खिंसु. ‘‘तेन हि दारका इमं साखं मद्दथा’’ति. ‘‘भायाम, भन्ते’’ति. ‘‘अहं पञ्हं कथेस्सामि, मद्दथ तुम्हे’’ति. ते थेरस्स वचनेन सञ्जातुस्साहा तथा कत्वा मद्दन्ता जम्बुसाखं उक्खिपिंसु. परिब्बाजिका आगन्त्वा ते परिभासित्वा ‘‘तुम्हेहि सद्धिं मम पञ्हेन किच्चं नत्थि, कस्मा मे साखं मद्दथा’’ति आह. ‘‘अय्येनम्हा मद्दापिता’’ति आहंसु. ‘‘भन्ते, तुम्हेहि मे साखा मद्दापिता’’ति? ‘‘आम, भगिनी’’ति. ‘‘तेन हि मया सद्धिं पञ्हं कथेथा’’ति. ‘‘साधु कथेस्सामी’’ति.
सा वड्ढमानकच्छायाय पञ्हं पुच्छितुं थेरस्स सन्तिकं अगमासि, सकलनगरं सङ्खुभि. ‘‘द्विन्नं पण्डितानं कथं सुणिस्सामा’’ति नागरा ताय सद्धिंयेव गन्त्वा थेरं वन्दित्वा एकमन्तं निसीदिंसु. परिब्बाजिका थेरं आह – ‘‘भन्ते, पुच्छामि ते पञ्ह’’न्ति. ‘‘पुच्छ, भगिनी’’ति. सा वादसहस्सं पुच्छि, पुच्छितं पुच्छितं थेरो विस्सज्जेसि. अथ नं थेरो आह – ‘‘एत्तका एव ते पञ्हा, अञ्ञेपि अत्थी’’ति? ‘‘एत्तका एव, भन्ते’’ति. ‘‘तया बहू पञ्हा पुट्ठा, मयम्पि एकं पुच्छाम, विस्सज्जिस्ससि नो’’ति? ‘‘जानमाना विस्सज्जिस्सामि पुच्छथ, भन्ते’’ति. थेरो ‘‘एकं नाम कि’’न्ति (खु. पा. ४.१) पञ्हं पुच्छि. सा ‘‘एवं नामेस विस्सज्जेतब्बो’’ति अजानन्ती ‘‘किं नामेतं, भन्ते’’ति पुच्छि. ‘‘बुद्धपञ्हो नाम, भगिनी’’ति. ‘‘मय्हम्पि तं देथ, भन्ते’’ति. ‘‘सचे मादिसा भविस्ससि, दस्सामी’’ति. ‘‘तेन हि मं पब्बाजेथा’’ति. थेरो भिक्खुनीनं आचिक्खित्वा पब्बाजेसि. सा पब्बजित्वा लद्धूपसम्पदा कुण्डलकेसित्थेरी नाम हुत्वा कतिपाहच्चयेनेव सह पटिसम्भिदाहि अरहत्तं पापुणि.
भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘कुण्डलकेसित्थेरिया धम्मस्सवनञ्च बहुं नत्थि, पब्बजितकिच्चञ्चस्सा मत्थकं पत्तं, एकेन किर चोरेन सद्धिं महासङ्गामं कत्वा जिनित्वा आगता’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, मया देसितधम्मं ‘अप्पं वा बहुं वा’ति पमाणं मा गण्हथ, अनत्थकं पदसतम्पि सेय्यो न होति, धम्मपदं पन एकम्पि सेय्योव. अवसेसचोरे जिनन्तस्स च जयो नाम न होति, अज्झत्तिककिलेसचोरे जिनन्तस्सेव पन जयो नाम होती’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमा गाथा अभासि –
१०२. ‘‘यो च गाथासतं भासे, अनत्थपदसंहिता;
एकं धम्मपदं सेय्यो, यं सुत्वा उपसम्मति.
१०३. ‘‘यो सहस्सं सहस्सेन, सङ्गामे मानुसे जिने;
एकञ्च जेय्यमत्तानं, स वे सङ्गामजुत्तमो’’ति.
तत्थ गाथासतन्ति यो च पुग्गलो सतपरिच्छेदा बहूपि गाथा भासेय्याति अत्थो. अनत्थपदसंहिताति आकासवण्णनादिवसेन अनत्थकेहि पदेहि संहिता. धम्मपदन्ति अत्थसाधकं खन्धादिपटिसंयुत्तं, ‘‘चत्तारिमानि परिब्बाजका धम्मपदानि. कतमानि चत्तारि? अनभिज्झा परिब्बाजका धम्मपदं, अब्यापादो परिब्बाजका धम्मपदं, सम्मासति परिब्बाजका धम्मपदं, सम्मासमाधि परिब्बाजका धम्मपद’’न्ति (अ. नि. ४.३०) एवं वुत्तेसु चतूसु धम्मपदेसु एकम्पि धम्मपदं सेय्यो. यो सहस्सं सहस्सेनाति यो एको सङ्गामयोधो सहस्सेन गुणितं सहस्सं मानुसे एकस्मिं सङ्गामे जिनेय्य, दसमनुस्ससतसहस्सं जिनित्वा जयं आहरेय्य, अयम्पि सङ्गामजिनतं उत्तमो पवरो नाम न होति. एकञ्च जेय्यमत्तानन्ति यो रत्तिट्ठानदिवाट्ठानेसु अज्झत्तिककम्मट्ठानं सम्मसन्तो अत्तनो लोभादिकिलेसजयेन अत्तानं जिनेय्य. स वे सङ्गामजुत्तमोति सो सङ्गामजिनानं उत्तमो पवरो सङ्गामसीसयोधोति.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
कुण्डलकेसित्थेरीवत्थु ततियं.