१४. चित्तगहपतिवत्थु

असन्तं भावनमिच्छेय्याति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सुधम्मत्थेरं आरब्भ कथेसि. देसना मच्छिकासण्डे समुट्ठाय सावत्थियं निट्ठिता.

मच्छिकासण्डनगरस्मिञ्हि चित्तो नाम गहपति पञ्चवग्गियानं अब्भन्तरं महानामत्थेरं नाम पिण्डाय चरमानं दिस्वा तस्स इरियापथे पसीदित्वा पत्तं आदाय गेहं पवेसेत्वा भोजेत्वा भत्तकिच्चावसाने धम्मकथं सुणन्तो सोतापत्तिफलं पत्वा अचलसद्धो हुत्वा अम्बाटकवनं नाम अत्तनो उय्यानं सङ्घारामं कत्तुकामो थेरस्स हत्थे उदकं पातेत्वा निय्यादेसि. तस्मिं खणे ‘‘पतिट्ठितं बुद्धसासन’’न्ति उदकपरियन्तं कत्वा महापथवी कम्पि. महासेट्ठि उय्याने महाविहारं कारेत्वा सब्बदिसाहि आगतानं भिक्खूनं विवटद्वारो अहोसि. मच्छिकासण्डे सुधम्मत्थेरो नाम नेवासिको अहोसि.

अपरेन समयेन चित्तस्स गुणकथं सुत्वा द्वे अग्गसावका तस्स सङ्गहं कत्तुकामा मच्छिकासण्डं अगमंसु. चित्तो गहपति तेसं आगमनं सुत्वा अड्ढयोजनमग्गं पच्चुग्गन्त्वा ते आदाय अत्तनो विहारं पवेसेत्वा आगन्तुकवत्तं कत्वा, ‘‘भन्ते, थोकं धम्मकथं सोतुकामोम्ही’’ति धम्मसेनापतिं याचि. अथ नं थेरो, ‘‘उपासक, अद्धानेन आगताम्हा किलन्तरूपा. अपिच थोकं सुणाही’’ति तस्स धम्मं कथेसि. सो थेरस्स धम्मं सुणन्तोव अनागामिफलं पापुणि. सो द्वे अग्गसावके वन्दित्वा, ‘‘भन्ते, स्वे भिक्खुसहस्सेन सद्धिं मम गेहे भिक्खं गण्हथा’’ति निमन्तेत्वा पच्छा नेवासिकं सुधम्मत्थेरं ‘‘तुम्हेपि, भन्ते, स्वे थेरेहि सद्धिं आगच्छेय्याथा’’ति निमन्तेसि. सो ‘‘अयं मं पच्छा निमन्तेती’’ति कुद्धो पटिक्खिपित्वा पुनप्पुनं याचियमानोपि पटिक्खिपि एव. उपासको ‘‘पञ्ञायिस्सथ, भन्ते’’ति पक्कमित्वा पुनदिवसे अत्तनो निवेसने महादानं सज्जेसि. सुधम्मत्थेरोपि पच्चूसकालेयेव ‘‘कीदिसो नु खो गहपतिना अग्गसावकानं सक्कारो सज्जितो, स्वे गन्त्वा पस्सिस्सामी’’ति चिन्तेत्वा पातोव पत्तचीवरं आदाय तस्स गेहं अगमासि.

सो गहपतिना ‘‘निसीदथ, भन्ते’’ति वुच्चमानोपि ‘‘नाहं निसीदामि, पिण्डाय चरिस्सामी’’ति वत्वा अग्गसावकानं पटियादितं सक्कारं ओलोकेत्वा गहपतिं जातिया घट्टेतुकामो ‘‘उळारो ते, गहपति, सक्कारो, अपिचेत्थ एकञ्ञेव नत्थी’’ति आह. ‘‘किं, भन्ते’’ति? ‘‘तिलसंगुळिका, गहपती’’ति वत्वा गहपतिना काकोपमाय अपसादितो कुज्झित्वा ‘‘एसो ते, गहपति, आवासो, पक्कमिस्सामह’’न्ति वत्वा यावततियं वारियमानोपि पक्कमित्वा सत्थु सन्तिकं गन्त्वा चित्तेन च अत्तना च वुत्तवचनं आरोचेसि. सत्था ‘‘तया उपासको सद्धो पसन्नो हीनेन खुंसितो’’ति तस्सेव दोसं आरोपेत्वा पटिसारणीयकम्मं कारापेत्वा ‘‘गच्छ, चित्तगहपतिं खमापेही’’ति पेसेसि. सो तत्थ गन्त्वा, ‘‘गहपति, मय्हमेव सो दोसो, खमाहि मे’’ति वत्वापि ‘‘नाहं खमामी’’ति तेन पटिक्खित्तो मङ्कुभूतो तं खमापेतुं नासक्खि. पुनदेव सत्थु सन्तिकं पच्चागमासि. सत्था ‘‘नास्स उपासको खमिस्सती’’ति जानन्तोपि ‘‘मानथद्धो एस, तिंसयोजनं ताव मग्गं गन्त्वा पच्चागच्छतू’’ति खमनूपायं अनाचिक्खित्वाव उय्योजेसि. अथस्स पुनागतकाले निहतमानस्स अनुदूतं दत्वा ‘‘गच्छ, इमिना सद्धिं गन्त्वा उपासकं खमापेही’’ति वत्वा ‘‘समणेन नाम ‘मय्हं विहारो, मय्हं निवासट्ठानं, मय्हं उपासको, मय्हं उपासिका’ति मानं वा इस्सं वा कातुं न वट्टति. एवं करोन्तस्स हि इच्छामानादयो किलेसा वड्ढन्ती’’ति अनुसन्धिं घट्टेत्वा धम्मं देसेन्तो इमा गाथा अभासि –

७३. ‘‘असन्तं भावनमिच्छेय्य, पुरेक्खारञ्च भिक्खुसु;

आवासेसु इस्सरियं, पूजा परकुलेसु च.

७४. ‘‘ममेव कत मञ्ञन्तु, गिही पब्बजिता उभो.

ममेवातिवसा अस्सु, किच्चाकिच्चेसु किस्मिचि;

इति बालस्स सङ्कप्पो, इच्छा मानो च वड्ढती’’ति.

तत्थ असन्तन्ति यो बालो भिक्खु अविज्जमानं सम्भावनं इच्छेय्य, ‘‘अस्सद्धोव समानो ‘सद्धोति मं जनो जानातू’ति इच्छती’’ति. पापिच्छतानिद्देसे (विभ. ८५१) वुत्तनयेनेव बालो ‘‘असद्धो दुस्सीलो अप्पस्सुतो अप्पविवित्तो कुसीतो अनुपट्ठितस्सति असमाहितो दुप्पञ्ञो अखीणासवोव समानो ‘अहो वत मं जनो अयं सद्धो, सीलवा, बहुस्सुतो, पविवित्तो, आरद्धवीरियो, उपट्ठितस्सति, समाहितो, पञ्ञवा, खीणासवो’ति जानेय्या’’ति इदं असन्तसम्भावनं इच्छति. पुरेक्खारन्ति परिवारं. ‘‘अहो वत मं सकलविहारे भिक्खू परिवारेत्वा पञ्हं पुच्छन्ता विहरेय्यु’’न्ति एवं इच्छाचारे ठत्वा पुरेक्खारञ्च भिक्खूसु इच्छति. आवासेसूति सङ्घिकेसु च आवासेसु यानि विहारमज्झे पणीतसेनासनानि, तानि अत्तनो सन्दिट्ठसम्भत्तादीनं भिक्खूनं ‘‘तुम्हे इध वसथा’’ति विचारेन्तो सयम्पि वरतरं सेनासनं पलिबोधेन्तो, सेसानं आगन्तुकभिक्खूनं पच्चन्तिमानि लामकसेनासनानि चेव अमनुस्सपरिग्गहितानि च ‘‘तुम्हे इध वसथा’’ति विचारेन्तो आवासेसु इस्सरियं इच्छति. पूजा परकुलेसु चाति नेव मातापितूनं न ञातकानं परेसुयेव कुलेसु ‘‘अहो वतिमे मय्हमेव ददेय्युं, न अञ्ञेस’’न्ति एवं चतुप्पच्चयेहि पूजं इच्छति.

ममेव कत मञ्ञन्तूति यस्स च बालस्स ‘‘यंकिञ्चि विहारे उपोसथागारादिकरणवसेन कतं नवकम्मं, तं सब्बं अम्हाकं थेरेन कतन्ति एवं गिही च पब्बजिता च उभोपि ममेव निस्साय कतं परिकम्मं निट्ठितं मञ्ञन्तू’’ति सङ्कप्पो उप्पज्जति. ममेवातिवसा अस्सूति ‘‘गिही च पब्बजिता च सब्बेपि ममेव वसे वत्तन्तु, सकटगोणवासिफरसुआदीनि वा लद्धब्बानि होन्तु, अन्तमसो यागुमत्तम्पि तापेत्वा पिवनादीनि वा, एवरूपेसु किच्चाकिच्चेसु खुद्दकमहन्तेसु करणीयेसु किस्मिञ्चि एककिच्चेपि ममेव वसे वत्तन्तु, ममेव आपुच्छित्वा करोन्तू’’ति सङ्कप्पो उप्पज्जति. इति बालस्साति यस्स बालस्स सा च इच्छा अयञ्च एवरूपो सङ्कप्पो उप्पज्जति, तस्स नेव विपस्सना, न मग्गफलानि वड्ढन्ति. केवलं पनस्स चन्दोदये समुद्दस्स उदकं विय छसु द्वारेसु उप्पज्जमाना तण्हा चेव नवविधमानो च वड्ढतीति.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

सुधम्मत्थेरोपि इमं ओवादं सुत्वा सत्थारं वन्दित्वा उट्ठायासना पदक्खिणं कत्वा तेन अनुदूतेन भिक्खुना सद्धिं गन्त्वा उपासकस्स चक्खुपथे आपत्तिं पटिकरित्वा उपासकं खमापेसि. सो उपासकेन ‘‘खमामहं, भन्ते, सचे मय्हं दोसो अत्थि, खमथ मे’’ति पटिखमापितो सत्थारा दिन्ने ओवादे ठत्वा कतिपाहेनेव सह पटिसम्भिदाहि अरहत्तं पापुणि. उपासकोपि चिन्तेसि – ‘‘मया सत्थारं अदिस्वाव सोतापत्तिफलं पत्तं, अदिस्वा एव अनागामिफले पतिट्ठितो, सत्थारं मे दट्ठुं वट्टती’’ति. सो तिलतण्डुलसप्पिफाणितवत्थच्छादनादीहि परिपूरानि पञ्च सकटसतानि योजापेत्वा ‘‘सत्थारं दट्ठुकामा आगच्छन्तु, पिण्डपातादीहि न किलमिस्सन्ती’’ति भिक्खुसङ्घस्स आरोचापेत्वा भिक्खुनीसङ्घस्सापि उपासकानम्पि उपासिकानम्पि आरोचापेसि. तेन सद्धिं पञ्चसता पञ्चसता भिक्खू च भिक्खुनियो च उपासका च उपासिकायो च निक्खमिंसु. सो तेसञ्चेव अत्तनो परिसाय चाति तिण्णं जनसहस्सानं यथा तिंसयोजने मग्गे यागुभत्तादीहि किञ्चि वेकल्लं न होति, तथा संविदहि. तस्स पन निक्खन्तभावं ञत्वा योजने योजने देवता खन्धावारं बन्धित्वा दिब्बेहि यागुखज्जकभत्तपानकादीहि तं महाजनं उपट्ठहिंसु, कस्सचि केनचि वेकल्लं न होति. एवं देवताहि उपट्ठियमानो देवसिकं योजनं गच्छन्तो मासेन सावत्थिं पापुणि, पञ्च सकटसतानि यथापूरितानेव अहेसुं. देवताहि चेव मनुस्सेहि च अभिहटं पण्णाकारं विस्सज्जेन्तोव अगमासि.

सत्था आनन्दत्थेरं आह – ‘‘आनन्द, अज्ज वड्ढमानकच्छायाय चित्तो गहपति पञ्चहि उपासकसतेहि परिवुतो आगन्त्वा मं वन्दिस्सती’’ति. ‘‘किं पन, भन्ते, तस्स तुम्हाकं वन्दनकाले किञ्चि पाटिहारियं भविस्सती’’ति? ‘‘भविस्सति, आनन्दा’’ति. ‘‘किं, भन्ते’’ति? तस्स आगन्त्वा ‘‘मं वन्दनकाले राजमानेन अट्ठकरीसमत्ते पदेसे जण्णुकमत्तेन ओधिना पञ्चवण्णानं दिब्बपुप्फानं घनवस्सं वस्सिस्सती’’ति. तं कथं सुत्वा नगरवासिनो ‘‘एवं महापुञ्ञो किर चित्तो नाम गहपति आगन्त्वा अज्ज सत्थारं वन्दिस्सति, एवरूपं किर पाटिहारियं भविस्सति, मयम्पि तं महापुञ्ञं दट्ठुं लभिस्सामा’’ति पण्णाकारं आदाय मग्गस्स उभोसु पस्सेसु अट्ठंसु. विहारसमीपे आगतकाले पञ्च भिक्खुसतानि पठमं आगमिंसु. चित्तो गहपति, ‘‘अम्मा, तुम्हे पच्छतो आगच्छथा’’ति महाउपासिकायो ठपेत्वा पञ्चहि उपासकसतेहि परिवुतो सत्थु सन्तिकं अगमासि. बुद्धानं सम्मुखट्ठाने पन ठिता वा निसिन्ना वा इतो वा एत्तो वा न होन्ति, बुद्धवीथिया द्वीसु पस्सेसु निच्चलाव तिट्ठन्ति. चित्तो गहपति महन्तं बुद्धवीथिं ओक्कमि. तीणि फलानि पत्तेन अरियसावकेन ओलोकितोलोकितट्ठानं कम्पि. ‘‘एसो किर चित्तो गहपती’’ति महाजनो ओलोकेसि. सो सत्थारं उपसङ्कमित्वा छब्बण्णानं बुद्धरस्मीनं अन्तो पविसित्वा द्वीसु गोप्फकेसु सत्थु पादे गहेत्वा वन्दि. तं खणञ्ञेव वुत्तप्पकारं पुप्फवस्सं वस्सि, साधुकारसहस्सानि पवत्तयिंसु. सो एकमासं सत्थु सन्तिके वसि, वसमानो च सकलं बुद्धप्पमुखं भिक्खुसङ्घं विहारेयेव निसीदापेत्वा महादानं अदासि, अत्तना सद्धिं आगतेपि अन्तोविहारेयेव कत्वा पटिजग्गि. एकदिवसम्पि अत्तनो सकटेसु किञ्चि गहेतब्बं नाहोसि, देवमनुस्सेहि आभतपण्णाकारेनेव दानं अदासि, सब्बकिच्चानि अकासि. सो सत्थारं वन्दित्वा आह – ‘‘भन्ते, अहं ‘तुम्हाकं दानं दस्सामी’ति आगच्छन्तो मासं अन्तरामग्गे अहोसिं. इधेव मे मासो वीतिवत्तो, मया आभतं पण्णाकारं किञ्चि गहेतुं न लभामि, एत्तकं कालं देवमनुस्सेहि आभतपण्णाकारेनेव दानं अदासिं, सोहं सचेपि इध संवच्छरं वसिस्सामि, नेव मम देय्यधम्मं दातुं लभिस्सामि. अहं सकटानि ओतारेत्वा गन्तुं इच्छामि, पटिसामनट्ठानं मे आरोचापेथा’’ति.

सत्था आनन्दत्थेरं आह – ‘‘आनन्द, उपासकस्स एकं पदेसं तुच्छं कारेत्वा देही’’ति. थेरो तथा अकासि. कप्पियभूमि (महाव. २९५) किर चित्तस्स गहपतिनो अनुञ्ञाता. उपासकोपि अत्तना सद्धिं आगतेहि तीहि जनसहस्सेहि सद्धिं तुच्छसकटेहि पुन मग्गं पटिपज्जि. देवमनुस्सा उट्ठाय, ‘‘अय्य, तया तुच्छसकटेहि गमनकम्मं कत’’न्ति सत्तहि रतनेहि सकटानि पूरयिंसु. सो अत्तनो आभतपण्णाकारेनेव महाजनं पटिजग्गन्तो अगमासि. आनन्दत्थेरो सत्थारं वन्दित्वा आह – ‘‘भन्ते, तुम्हाकं सन्तिकं आगच्छन्तोपि मासेन आगतो, इधापि मासमेव वुट्ठो, एत्तकं कालं देवमनुस्सेहि अभिहटपण्णाकारेनेव महावदानं अदासि, इदानि पञ्च सकटसतानि तुच्छानि कत्वा मासेनेव किर गमिस्सति, देवमनुस्सा पनस्स उट्ठाय, ‘अय्य, तया तुच्छसकटेहि गमनकम्मं कत’न्ति पञ्च सकटसतानि सत्तरतनेहि पूरयिंसु. सो पुन अत्तनो आभतपण्णाकारेनेव किर महाजनं पटिजग्गन्तो गमिस्सती’’ति. ‘‘किं पन, भन्ते, एतस्स तुम्हाकं सन्तिकं आगच्छन्तस्सेवायं सक्कारो उप्पज्जति, उदाहु अञ्ञत्थ गच्छन्तस्सापि उप्पज्जती’’ति? ‘‘आनन्द, मम सन्तिकं आगच्छन्तस्सापि अञ्ञत्थ गच्छन्तस्सापि एतस्स उप्पज्जतेव. अयञ्हि उपासको सद्धो पसन्नो सम्पन्नसीलो, एवरूपो पुग्गलो यं यं पदेसं भजति, तत्थ तत्थेवस्स लाभसक्कारो निब्बत्तती’’ति वत्वा सत्था इमं पकिण्णकवग्गे गाथमाह –

‘‘सद्धो सीलेन सम्पन्नो, यसो भोगसमप्पितो;

यं यं पदेसं भजति, तत्थ तत्थेव पूजितो’’ति. (ध. प. ३०३);

अत्थो पनस्सा तत्थेव आविभविस्सति.

एवं वुत्ते आनन्दत्थेरो चित्तस्स पुब्बकम्मं पुच्छि. अथस्स सत्था आचिक्खन्तो आह –

आनन्द, अयं पदुमुत्तरस्स भगवतो पादमूले कताभिनीहारो कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा कस्सपबुद्धकाले मिगलुद्दककुले निब्बत्तो वुद्धिमन्वाय एकदिवसं देवे वस्सन्ते मिगानं मारणत्ताय सत्तिं आदाय अरञ्ञं गन्त्वा मिगे ओलोकेन्तो एकस्मिं अकटपब्भारे ससीसं पारुपित्वा एकं भिक्खुं निसिन्नं दिस्वा ‘‘एको, अय्यो, समणधम्मं करोन्तो निसिन्नो भविस्सति, भत्तमस्स आहरिस्सामी’’ति वेगेन गेहं गन्त्वा एकस्मिं उद्धने हिय्यो, आभतमंसं, एकस्मिं भत्तं पचापेत्वा अञ्ञे पिण्डपातचारिके भिक्खू दिस्वा तेसम्पि पत्ते आदाय पञ्ञत्तासने निसीदापेत्वा भिक्खं सम्पादेत्वा, ‘‘अय्ये, परिविसथा’’ति अञ्ञं आणापेत्वा तं भत्तं पुटके पक्खिपित्वा आदाय गच्छन्तो अन्तरामग्गे नानापुप्फानि ओचिनित्वा पत्तपुटे कत्वा थेरस्स निसिन्नट्ठानं गन्त्वा ‘‘मय्हं, भन्ते, सङ्गहं करोथा’’ति वत्वा पत्तं आदाय पूरेत्वा थेरस्स हत्थे ठपेत्वा तेहि पुप्फेहि पूजं कत्वा ‘‘यथा मे अयं रसपिण्डपातो पुप्फपूजाय सद्धिं चित्तं तोसेसि, एवं निब्बत्तनिब्बत्तट्ठाने पण्णाकारसहस्सानि आदाय आगन्त्वा मय्हं चित्तं तोसेन्तु, पञ्चवण्णकुसुमवस्सञ्च वस्सतू’’ति पत्थनं पट्ठपेसि. सो यावजीवं कुसलं कत्वा देवलोके निब्बत्ति, निब्बत्तट्ठाने जण्णुकमत्तेन ओधिना दिब्बपुप्फवस्सं वस्सि. इदानिपिस्स जातदिवसे चेव इध च आगतस्स पुप्फवस्सवस्सनञ्च पण्णाकाराभिहारो च सत्तहि रतनेहि सकटपूरणञ्च तस्सेव कम्मस्स निस्सन्दोति.

चित्तगहपतिवत्थु चुद्दसमं.