८. नन्दगोपालकवत्थु
दिसो दिसन्ति इमं धम्मदेसनं सत्था कोसलजनपदे नन्दगोपालकं आरब्भ कथेसि.
सावत्थियं किर अनाथपिण्डिकस्स गहपतिनो नन्दो नाम गोपालको गोयूथं रक्खति अड्ढो महद्धनो महाभोगो. सो किर यथा केणियो जटिलो पब्बज्जावेसेन, एवं गोपालकत्तेन राजबलिं परिहरन्तो अत्तनो कुटुम्बं रक्खति. सो कालेन कालं पञ्च गोरसे आदाय अनाथपिण्डिकस्स सन्तिकं आगन्त्वा सत्थारं पस्सति, धम्मं सुणाति, अत्तनो वसनट्ठानं आगमनत्थाय सत्थारं याचति. सत्था तस्स ञाणपरिपाकं आगमयमानो आगन्त्वा परिपक्कभावं ञत्वा एकदिवसं महाभिक्खुसङ्घपरिवुतो चारिकं चरन्तो मग्गा ओक्कम्म तस्स वसनट्ठानासन्ने अञ्ञतरस्मिं रुक्खमूले निसीदि. नन्दो सत्थु सन्तिकं अगन्त्वा वन्दित्वा पटिसन्थारं कत्वा सत्थारं निमन्तेत्वा सत्थाहं बुद्धप्पमुखस्स भिक्खुसङ्घस्स पणीतं पञ्चगोरसदानं अदासि. सत्तमे दिवसे सत्था अनुमोदनं कत्वा दानकथादिभेदं अनुपुब्बिं कथं कथेसि. कथापरियोसाने नन्दगोपालको सोतापत्तिफले पतिट्ठाय सत्थु पत्तं गहेत्वा सत्थारं अनुगच्छन्तो दूरं गन्त्वा, ‘‘तिट्ठ, उपासका’’ति निवत्तियमानो वन्दित्वा निवत्ति. अथ नं एको लुद्दको विज्झित्वा मारेसि. पच्छतो आगच्छन्ता भिक्खू नं दिस्वा गन्त्वा सत्थारं आहंसु – ‘‘नन्दो, भन्ते, गोपालको तुम्हाकं इधागतत्ता महादानं दत्वा अनुगन्त्वा निवत्तेन्तो मारितो, सचे तुम्हे नागच्छिस्सथ, नास्स मरणं अभविस्सा’’ति. सत्था, ‘‘भिक्खवे, मयि आगतेपि अनागतेपि तस्स चतस्सो दिसा चतस्सो अनुदिसा च गच्छन्तस्सापि मरणतो मुच्चनूपायो नाम नत्थि. यञ्हि नेव चोरा, न वेरिनो करोन्ति, तं इमेसं सत्तानं अन्तोपदुट्ठं मिच्छापणिहितं चित्तमेव करोती’’ति वत्वा इमं गाथमाह –
४२. ‘‘दिसो दिसं यं तं कयिरा, वेरी वा पन वेरिनं;
मिच्छापणिहितं चित्तं, पापियो नं ततो करे’’ति.
तत्थ दिसो दिसन्ति चोरो चोरं. ‘‘दिस्वा’’ति पाठसेसो. यं तं कयिराति यं तं तस्स अनयब्यसनं करेय्य. दुतियपदेपि एसेव नयो. इदं वुत्तं होति – एको एकस्स मित्तदुब्भी चोरो पुत्तदारखेत्तवत्थु गोमहिंसादीसु अपरज्झन्तो यस्स अपरज्झति, तम्पि तथेव अत्तनि अपरज्झन्तं चोरं दिस्वा, वेरि वा पन केनचिदेव कारणेन बद्धवेरं वेरिं दिस्वा अत्तनो कक्खळताय दारुणताय यं तं तस्स अनयब्यसनं करेय्य, पुत्तदारं वा पीळेय्य, खेत्तादीनि वा नासेय्य, जीविता वा पन नं वोरोपेय्य, दससु अकुसलकम्मपथेसु मिच्छाठपितत्ता मिच्छापहिणितं चित्तं पापियो नं ततो करे तं पुरिसं ततो पापतरं करेय्य. वुत्तप्पकारेहि, दिसो दिसस्स वा वेरी वेरिनो वा इमस्मिंयेव अत्तभावे दुक्खं वा उप्पादेय्य, जीवितक्खयं वा करेय्य. इदं पन अकुसलकम्मपथेसु मिच्छाठपितं चित्तं दिट्ठेव धम्मे अनयब्यसनं पापेति, अत्तभावसतसहस्सेसुपि चतूसु अपायेसु खिपित्वा सीसं उक्खिपितुं न देतीति.
देसनापरियोसाने बहू सोतापत्तिफलादीनि पत्ता. महाजनस्स सात्थिका देसना जाता. उपासकेन पन भवन्तरे कतकम्मं भिक्खूहि न पुच्छितं, तस्मा सत्थारा न कथितन्ति.
नन्दगोपालकवत्थु अट्ठमं.