२. मट्ठकुण्डलीवत्थु

२. मनोपुब्बङ्गमा धम्माति दुतियगाथापि सावत्थियंयेव मट्ठकुण्डलिं आरब्भ भासिता.

सावत्थियं किर अदिन्नपुब्बको नाम ब्राह्मणो अहोसि. तेन कस्सचि किञ्चि न दिन्नपुब्बं, तेन तं ‘‘अदिन्नपुब्बको’’त्वेव सञ्जानिंसु. तस्स एकपुत्तको अहोसि पियो मनापो. अथस्स पिलन्धनं कारेतुकामो ‘‘सचे सुवण्णकारे कारेस्सामि, भत्तवेतनं दातब्बं भविस्सती’’ति सयमेव सुवण्णं कोट्टेत्वा मट्ठानि कुण्डलानि कत्वा अदासि. तेनस्स पुत्तो मट्ठकुण्डलीत्वेव पञ्ञायित्थ. तस्स सोळसवस्सिककाले पण्डुरोगो उदपादि. तस्स माता पुत्तं ओलोकेत्वा, ‘‘ब्राह्मण, पुत्तस्स ते रोगो उप्पन्नो, तिकिच्छापेहि न’’न्ति आह. ‘‘भोति सचे वेज्जं आनेस्सामि, भत्तवेतनं दातब्बं भविस्सति; किं त्वं मम धनच्छेदं न ओलोकेस्ससी’’ति? ‘‘अथ नं किं करिस्ससि, ब्राह्मणा’’ति? ‘‘यथा मे धनच्छेदो न होति, तथा करिस्सामी’’ति. सो वेज्जानं सन्तिकं गन्त्वा ‘‘असुकरोगस्स नाम तुम्हे किं भेसज्जं करोथा’’ति पुच्छि. अथस्स ते यं वा तं वा रुक्खतचादिं आचिक्खन्ति. सो तमाहरित्वा पुत्तस्स भेसज्जं करोति. तं करोन्तस्सेवस्स रोगो बलवा अहोसि, अतेकिच्छभावं उपागमि. ब्राह्मणो तस्स दुब्बलभावं ञत्वा एकं वेज्जं पक्कोसि. सो तं ओलोकेत्वाव ‘‘अम्हाकं एकं किच्चं अत्थि, अञ्ञं वेज्जं पक्कोसित्वा तिकिच्छापेही’’ति तं पहाय निक्खमि. ब्राह्मणो तस्स मरणसमयं ञत्वा ‘‘इमस्स दस्सनत्थाय आगता अन्तोगेहे सापतेय्यं पस्सिस्सन्ति, बहि नं करिस्सामी’’ति पुत्तं नीहरित्वा बहिआळिन्दे निपज्जापेसि.

तं दिवसं भगवा बलवपच्चूससमये महाकरुणासमापत्तितो वुट्ठाय पुब्बबुद्धेसु कताधिकारानं उस्सन्नकुसलमूलानं वेनेय्यबन्धवानं दस्सनत्थं बुद्धचक्खुना लोकं वोलोकेन्तो दससहस्सचक्कवाळेसु ञाणजालं पत्थरि. मट्ठकुण्डली बहिआळिन्दे निपन्नाकारेनेव तस्स अन्तो पञ्ञायि. सत्था तं दिस्वा तस्स अन्तोगेहा नीहरित्वा तत्थ निपज्जापितभावं ञत्वा ‘‘अत्थि नु खो मय्हं एत्थ गतपच्चयेन अत्थो’’ति उपधारेन्तो इदं अद्दस – अयं माणवो मयि चित्तं पसादेत्वा कालं कत्वा तावतिंसदेवलोके तिंसयोजनिके कनकविमाने निब्बत्तिस्सति, अच्छरासहस्सपरिवारो भविस्सति, ब्राह्मणोपि तं झापेत्वा रोदन्तो आळाहने विचरिस्सति. देवपुत्तो तिगावुतप्पमाणं सट्ठिसकटभारालङ्कारपटिमण्डितं अच्छरासहस्सपरिवारं अत्तभावं ओलोकेत्वा ‘‘केन नु खो कम्मेन मया अयं सिरिसम्पत्ति लद्धा’’ति ओलोकेत्वा मयि चित्तप्पसादेन लद्धभावं ञत्वा ‘‘अयं ब्राह्मणो धनच्छेदभयेन मम भेसज्जमकत्वा इदानि आळाहनं गन्त्वा रोदति, विप्पकारप्पत्तं नं करिस्सामी’’ति पितरि रोदन्ते मट्ठकुण्डलिवण्णेन आगन्त्वा आळाहनस्साविदूरे निपज्जित्वा रोदिस्सति. अथ नं ब्राह्मणो ‘‘कोसि त्व’’न्ति पुच्छिस्सति. ‘‘अहं ते पुत्तो मट्ठकुण्डली’’ति आचिक्खिस्सति. ‘‘कुहिं निब्बत्तोसी’’ति? ‘‘तावसिंसभवने’’ति. ‘‘किं कम्मं कत्वा’’ति वुत्ते मयि चित्तप्पसादेन निब्बत्तभावं आचिक्खिस्सति. ब्राह्मणो ‘‘तुम्हेसु चित्तं पसादेत्वा सग्गे निब्बत्तो नाम अत्थी’’ति मं पुच्छिस्सति. अथस्साहं ‘‘एत्तकानि सतानि वा सहस्सानि वा सतसहस्सानि वाति न सक्का गणना परिच्छिन्दितु’’न्ति वत्वा धम्मपदे गाथं भासिस्सामि. गाथापरियोसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो भविस्सति, मट्ठ कुण्डली सोतापन्नो भविस्सति. तथा अदिन्नपुब्बको ब्राह्मणो. इति इमं कुलपुत्तं निस्साय महाधम्माभिसमयो भविस्सतीति दिस्वा पुनदिवसे कतसरीरपटिजग्गनो महाभिक्खुसङ्घपरिवुतो सावत्थिं पिण्डाय पविसित्वा अनुपुब्बेन ब्राह्मणस्स गेहद्वारं गतो.

तस्मिं खणे मट्ठकुण्डली अन्तोगेहाभिमुखो निपन्नो होति. अथस्स सत्था अत्तनो अपस्सनभावं ञत्वा एकं रस्मिं विस्सज्जेसि. माणवो ‘‘किं ओभासो नामेसो’’ति परिवत्तेत्वा निपन्नोव सत्थारं दिस्वा, ‘‘अन्धबालपितरं निस्साय एवरूपं बुद्धं उपसङ्कमित्वा कायवेय्यावटिकं वा कातुं दानं वा दातुं धम्मं वा सोतुं नालत्थं, इदानि मे हत्थापि अनधिपतेय्या, अञ्ञं कत्तब्बं नत्थी’’ति मनमेव पसादेसि. सत्था ‘‘अलं एत्तकेन चित्तप्पसादेन इमस्सा’’ति पक्कामि. सो तथागते चक्खुपथं विजहन्तेयेव पसन्नमनो कालं कत्वा सुत्तप्पबुद्धो विय देवलोके तिंसयोजनिके कनकविमाने निब्बत्ति.

ब्राह्मणोपिस्स सरीरं झापेत्वा आळाहने रोदनपरायणो अहोसि, देवसिकं आळाहनं गन्त्वा रोदति – ‘‘कहं एकपुत्तक, कहं एकपुत्तका’’ति. देवपुत्तोपि अत्तनो सम्पत्तिं ओलोकेत्वा, ‘‘केन मे कम्मेन लद्धा’’ति उपधारेन्तो ‘‘सत्थरि मनोपसादेना’’ति ञत्वा ‘‘अयं ब्राह्मणो मम अफासुककाले भेसज्जमकारेत्वा इदानि आळाहनं गन्त्वा रोदति, विप्पकारप्पत्तमेव नं कातुं वट्टती’’ति मट्ठकुण्डलिवण्णेन आगन्त्वा आळाहनस्साविदूरे बाहा पग्गय्ह रोदन्तो अट्ठासि. ब्राह्मणो तं दिस्वा ‘‘अहं ताव पुत्तसोकेन रोदामि, एस किमत्थं रोदति, पुच्छिस्सामि न’’न्ति पुच्छन्तो इमं गाथमाह –

‘‘अलङ्कतो मट्ठकुण्डली,

मालधारी हरिचन्दनुस्सदो;

बाहा पग्गय्ह कन्दसि,

वनमज्झे किं दुक्खितो तुव’’न्ति. (वि. व. १२०७; पे. व. १८६);

सो माणवो आह –

‘‘सोवण्णमयो पभस्सरो,

उप्पन्नो रथपञ्जरो मम;

तस्स चक्कयुगं न विन्दामि,

तेन दुक्खेन जहामि जीवित’’न्ति. (व. १२०८; पे. व. १८७);

अथ नं ब्राह्मणो आह –

‘‘सोवण्णमयं मणिमयं,

लोहितकमयं अथ रूपियमयं;

आचिक्ख मे भद्द माणव,

चक्कयुगं पटिपादयामि ते’’ति. (वि. व. १२०९; पे. व. १८८);

तं सुत्वा माणवो ‘‘अयं ब्राह्मणो पुत्तस्स भेसज्जमकत्वा पुत्तपतिरूपकं मं दिस्वा रोदन्तो ‘सुवण्णादिमयं रथचक्कं करोमी’ति वदति, होतु निग्गण्हिस्सामि न’’न्ति चिन्तेत्वा ‘‘कीव महन्तं मे चक्कयुगं करिस्ससी’’ति वत्वा ‘‘याव महन्तं आकङ्खसि, ताव महन्तं करिस्सामी’’ति वुत्ते ‘‘चन्दिमसूरियेहि मे अत्थो, ते मे देही’’ति याचन्तो आह –

‘‘सो माणवो तस्स पावदि,

चन्दसूरिया उभयेत्थ दिस्सरे;

सोवण्णमयो रथो मम,

तेन चक्कयुगेन सोभती’’ति. (वि. व. १२१०; पे. व. १८९);

अथ नं ब्राह्मणो आह –

‘‘बालो खो त्वं असि माणव,

यो त्वं पत्थयसे अपत्थियं;

मञ्ञामि तुवं मरिस्ससि,

न हि त्वं लच्छसि चन्दसूरिये’’ति. (वि. व. १२११; पे. व. १९०);

अथ नं माणवो आह –

‘‘किं पन पञ्ञायमानस्सत्थाय रोदन्तो बालो होति, उदाहु अपञ्ञायमानस्सत्थाया’’ति वत्वा –

‘‘गमनागमनम्पि दिस्सति,

वण्णधातु उभयत्थ वीथिया;

पेतो कालकतो न दिस्सति,

को निध कन्दतं बाल्यतरो’’ति. (वि. व. १२१२; पे. व. १९१);

तं सुत्वा ब्राह्मणो ‘‘युत्तं एस वदती’’ति सल्लक्खेत्वा –

‘‘सच्चं खो वदेसि माणव,

अहमेव कन्दतं बाल्यतरो;

चन्दं विय दारको रुदं,

पेतं कालकताभिपत्थयि’’न्ति. (वि. व. १२१३; पे. व. १९२) –

वत्वा तस्स कथाय निस्सोको हुत्वा माणवस्स थुतिं करोन्तो इमा गाथा अभासि –

‘‘आदित्तं वत मं सन्तं, घतसित्तंव पावकं;

वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.

‘‘अब्बही वत मे सल्लं, सोकं हदयनिस्सितं;

यो मे सोकपरेतस्स, पुत्तसोकं अपानुदि.

‘‘स्वाहं अब्बूळ्हसल्लोस्मि, सीतिभूतोस्मि निब्बुतो;

न सोचामि न रोदामि, तव सुत्वान माणवा’’ति. (वि. व. १२१४-१२१६; पे. व. १९३-१९५);

अथ नं ‘‘को नाम त्व’’न्ति पुच्छन्तो –

‘‘देवतानुसि गन्धब्बो, अदु सक्को पुरिन्ददो;

को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मय’’न्ति. (वि. व. १२१७; पे. व. १९६) –

आह. अथस्स माणवो –

‘‘यञ्च कन्दसि यञ्च रोदसि,

पुत्तं आळाहने सयं दहित्वा;

स्वाहं कुसलं करित्वा कम्मं,

तिदसानं सहब्यतं गतो’’ति. (वि. व. १२१८; पे. व. १९७) –

आचिक्खि. अथ नं ब्राह्मणो आह –

‘‘अप्पं वा बहुं वा नाद्दसाम,

दानं ददन्तस्स सके अगारे;

उपोसथकम्मं वा तादिसं,

केन कम्मेन गतोसि देवलोक’’न्ति. (वि. व. १२१९; पे. व. १९८);

माणवो आह –

‘‘आबाधिकोहं दुक्खितो गिलानो,

आतूररूपोम्हि सके निवेसने;

बुद्धं विगतरजं वितिण्णकङ्खं,

अद्दक्खिं सुगतं अनोमपञ्ञं.

‘‘स्वाहं मुदितधनो पसन्नचित्तो,

अञ्जलिं अकरिं तथागतस्स;

ताहं कुसलं करित्वान कम्मं,

तिदसानं सहब्यतं गतो’’ति. (वि. व. १२२०-१२२१; पे. व. १९९-२००);

तस्मिं कथेन्तेयेव ब्राह्मणस्स सकलसरीरं पीतिया परिपूरि. सो तं पीतिं पवेदेन्तो –

‘‘अच्छरियं वत अब्भुतं वत,

अञ्जलिकम्मस्स अयमीदिसो विपाको;

अहम्पि पमुदितमनो पसन्नचित्तो,

अज्जेव बुद्धं सरणं वजामी’’ति. (वि. व. १२२२; पे. व. २०१) –

आह. अथ नं माणवो –

‘‘अज्जेव बुद्धं सरणं वजाहि,

धम्मञ्च सङ्घञ्च पसन्नचित्तो;

तथेव सिक्खापदानि पञ्च,

अखण्डफुल्लानि समादियस्सु.

पाणातिपाता विरमस्सु खिप्पं,

लोके अदिन्नं परिवज्जयस्सु;

अमज्जपो मा च मुसा भणाहि,

सकेन दारेन च होहि तुट्ठो’’ति. (वि. व. १२२३-१२२४; पे. व. २०२-२०३) –

आह. सो ‘‘साधू’’ति सम्पटिच्छित्वा इमा गाथा अभासि –

‘‘अत्थकामोसि मे यक्ख, हितकामोसि देवते;

करोमि तुय्हं वचनं, त्वंसि आचरियो मम.

‘‘उपेमि सरणं बुद्धं, धम्मञ्चापि अनुत्तरं;

सङ्घञ्च नरदेवस्स, गच्छामि सरणं अहं.

‘‘पाणातिपाता विरमामि खिप्पं,

लोके अदिन्नं परिवज्जयामि;

अमज्जपो नो च मुसा भणामि,

सकेन दारेन च होमि तुट्ठो’’ति. (वि. व. १२२५-१२२७; पे. व. २०४-२०६);

अथ नं देवपुत्तो, ‘‘ब्राह्मण, ते गेहे बहुं धनं अत्थि, सत्थारं उपसङ्कमित्वा दानं देहि, धम्मं सुणाहि, पञ्हं पुच्छाही’’ति वत्वा तत्थेव अन्तरधायि.

ब्राह्मणोपि गेहं गन्त्वा ब्राह्मणिं आमन्तेत्वा, ‘‘भद्दे, अहं अज्ज समणं गोतमं निमन्तेत्वा पञ्हं पुच्छिस्सामि, सक्कारं करोही’’ति वत्वा विहारं गन्त्वा सत्थारं नेव अभिवादेत्वा न पटिसन्थारं कत्वा एकमन्तं ठितो, ‘‘भो गोतम, अधिवासेहि अज्जतनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति आह. सत्था अधिवासेसि. सो सत्थु अधिवासनं विदित्वा वेगेनागन्त्वा सके निवेसने पणीतं खादनीयं भोजनीयञ्च पटियादापेसि. सत्था भिक्खुसङ्घपरिवुतो तस्स गेहं गन्त्वा पञ्ञत्तासने निसीदि. ब्राह्मणो सक्कच्चं परिविसि, महाजनो सन्निपति. मिच्छादिट्ठिकेन किर तथागते निमन्तिते द्वे जनकाया सन्निपतन्ति मिच्छादिट्ठिका ‘‘अज्ज समणं गोतमं पञ्हं पुच्छनाय विहेठियमानं पस्सिस्सामा’’ति सन्निपतन्ति, सम्मादिट्ठिका ‘‘अज्ज बुद्धविसयं बुद्धलीळं पस्सिस्सामा’’ति सन्निपतन्ति. अथ खो ब्राह्मणो कतभत्तकिच्चं तथागतमुपसङ्कमित्वा नीचासने निसिन्नो पञ्हं पुच्छि – ‘‘भो गोतम, तुम्हाकं दानं अदत्वा पूजं अकत्वा धम्मं असुत्वा उपोसथवासं अवसित्वा केवलं मनोपसादमत्तेनेव सग्गे निब्बत्ता नाम होन्ती’’ति? ‘‘ब्राह्मण, कस्मा मं पुच्छसि, ननु ते पुत्तेन मट्ठकुण्डलिना मयि मनं पसादेत्वा अत्तनो सग्गे निब्बत्तभावो कथितो’’ति? ‘‘कदा, भो गोतमा’’ति? ननु त्वं अज्ज सुसानं गन्त्वा कन्दन्तो अविदूरे बाहा पग्गय्ह कन्दन्तं एकं माणवं दिस्वा ‘‘अलङ्कतो मट्ठकुण्डली, मालधारी हरिचन्दनुस्सदो’’ति द्वीहि जनेहि कथितकथं पकासेन्तो सब्बं मट्ठकुण्डलिवत्थुं कथेसि. तेनेवेतं बुद्धभासितं नाम जातं.

तं कथेत्वा च पन ‘‘न खो, ब्राह्मण, एकसतं वा न द्वेसतं, अथ खो मयि मनं पसादेत्वा सग्गे निब्बत्तानं गणना नाम नत्थी’’ति आह. अथ महाजनो न निब्बेमतिको होति, अथस्स अनिब्बेमतिकभावं विदित्वा सत्था ‘‘मट्ठकुण्डलिदेवपुत्तो विमानेनेव सद्धिं आगच्छतू’’ति अधिट्ठासि. सो तिगावुतप्पमाणेनेव दिब्बाभरणपटिमण्डितेन अत्तभावेन आगन्त्वा विमानतो ओरुय्ह सत्थारं वन्दित्वा एकमन्तं अट्ठासि. अथ नं सत्था ‘‘त्वं इमं सम्पत्तिं किं कम्मं कत्वा पटिलभी’’ति पुच्छन्तो –

‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;

ओभासेन्ती दिसा सब्बा, ओसधी विय तारका;

पुच्छामि तं देव महानुभाव, मनुस्सभूतो किमकासि पुञ्ञ’’न्ति. –

गाथमाह. ‘‘देवपुत्तो अयं मे, भन्ते, सम्पत्ति तुम्हेसु चित्तं पसादेत्वा लद्धा’’ति. ‘‘मयि चित्तं पसादेत्वा लद्धा ते’’ति? ‘‘आम, भन्ते’’ति. महाजनो देवपुत्तं ओलोकेत्वा ‘‘अच्छरिया वत, भो, बुद्धगुणा, अदिन्नपुब्बकब्राह्मणस्स नाम पुत्तो अञ्ञं किञ्चि पुञ्ञं अकत्वा सत्थरि चित्तं पसादेत्वा एवरूपं सम्पत्तिं पटिलभी’’ति तुट्ठिं पवेदेसि.

अथ नेसं कुसलाकुसलकम्मकरणे मनोव पुब्बङ्गमो, मनोव सेट्ठो. पसन्नेन हि मनेन कतं कम्मं देवलोकं मनुस्सलोकं गच्छन्तं पुग्गलं छायाव न विजहतीति इदं वत्थुं कथेत्वा अनुसन्धिं घटेत्वा पतिट्ठापितमत्तिकं सासनं राजमुद्दाय लञ्छन्तो विय धम्मराजा इमं गाथमाह –

२. ‘‘मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमया.

मनसा चे पसन्नेन, भासति वा करोति वा;

ततो नं सुखमन्वेति, छायाव अनपायिनी’’ति.

तत्थ किञ्चापि मनोति अविसेसेन सब्बम्पि चतुभूमिकचित्तं वुच्चति, इमस्मिं पन पदे नियमियमानं ववत्थापियमानं परिच्छिज्जियमानं अट्ठविधं कामावचरकुसलचित्तं लब्भति. वत्थुवसेन पनाहरियमानं ततोपि सोमनस्ससहगतं ञाणसम्पयुत्तचित्तमेव लब्भति. पुब्बङ्गमाति तेन पठमगामिना हुत्वा समन्नागता. धम्माति वेदनादयो तयो खन्धा. एते हि उप्पादपच्चयट्ठेन सोमनस्ससम्पयुत्तमनो पुब्बङ्गमो एतेसन्ति मनोपुब्बङ्गमा नाम. यथा हि बहूसु एकतो हुत्वा महाभिक्खुसङ्घस्स चीवरदानादीनि वा उळारपूजाधम्मस्सवनादीनि वा मालागन्धसक्कारकरणादीनि वा पुञ्ञानि करोन्तेसु ‘‘को एतेसं पुब्बङ्गमो’’ति वुत्ते यो तेसं पच्चयो होति, यं निस्साय ते तानि पुञ्ञानि करोन्ति, सो तिस्सो वा फुस्सो वा तेसं पुब्बङ्गमोति वुच्चति, एवंसम्पदमिदं वेदितब्बं. इति उप्पादपच्चयट्ठेन मनो पुब्बङ्गमो एतेसन्ति मनोपुब्बङ्गमा. न हि ते मने अनुप्पज्जन्ते उप्पज्जितुं सक्कोन्ति, मनो पन एकच्चेसु चेतसिकेसु अनुप्पज्जन्तेसुपि उप्पज्जतियेव. एवं अधिपतिवसेन पन मनो सेट्ठो एतेसन्ति मनोसेट्ठा. यथा हि गणादीनं अधिपति पुरिसो गणसेट्ठो सेणिसेट्ठोति वुच्चति, तथा तेसम्पि मनोव सेट्ठो. यथा पन सुवण्णादीहि निप्फादितानि भण्डानि सुवण्णमयादीनि नाम होन्ति, तथा एतेपि मनतो निप्फन्नत्ता मनोमया नाम.

पसन्नेनाति अनभिज्झादीहि गुणेहि पसन्नेन. भासति वा करोति वाति एवरूपेन मनेन भासन्तो चतुब्बिधं वचीसुचरितमेव भासति, करोन्तो तिविधं कायसुचरितमेव करोति, अभासन्तो अकरोन्तो ताय अनभिज्झादीहि पसन्नमानसताय तिविधं मनोसुचरितं पूरेति. एवमस्स दस कुसलकम्मपथा पारिपूरिं गच्छन्ति.

ततो नं सुखमन्वेतीति ततो तिविधसुचरिततो नं पुग्गलं सुख मन्वेति. इध तेभूमिकम्पि कुसलं अधिप्पेतं, तस्मा तेभूमिकसुचरितानुभावेन सुगतिभवे निब्बत्तं पुग्गलं, दुग्गतियं वा सुखानुभवनट्ठाने ठितं कायवत्थुकम्पि इतरवत्थुकम्पि अवत्थुकम्पीति कायिकचेतसिकं विपाकसुखं अनुगच्छति, न विजहतीति अत्थो वेदितब्बो. यथा किं? छायाव अनपायिनीति यथा हि छाया नाम सरीरप्पटिबद्धा सरीरे गच्छन्ते गच्छति, तिट्ठन्ते तिट्ठति, निसीदन्ते निसीदति, न सक्कोति, ‘‘सण्हेन वा फरुसेन वा निवत्ताही’’ति वत्वा वा पोथेत्वा वा निवत्तापेतुं. कस्मा? सरीरप्पटिबद्धत्ता. एवमेव इमेसं दसन्नं कुसलकम्मपथानं आचिण्णसमाचिण्णकुसलमूलिकं कामावचरादिभेदं कायिकचेतसिकसुखं गतगतट्ठाने अनपायिनी छाया विय हुत्वा न विजहतीति.

गाथापरियोसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि, मट्ठकुण्डलिदेवपुत्तो सोतापत्तिफले पतिट्ठहि, तथा अदिन्नपुब्बको ब्राह्मणो. सो तावमहन्तं विभवं बुद्धसासने विप्पकिरीति.

मट्ठकुण्डलीवत्थु दुतियं.