१४. द्वेसहायकभिक्खुवत्थु

बहुम्पि चेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो द्वे सहायके आरब्भ कथेसि.

सावत्थिवासिनो हि द्वे कुलपुत्ता सहायका विहारं गन्त्वा सत्थु धम्मदेसनं सुत्वा कामे पहाय सासने उरं दत्वा पब्बजित्वा पञ्च वस्सानि आचरियुपज्झायानं सन्तिके वसित्वा सत्थारं उपसङ्कमित्वा सासने धुरं पुच्छित्वा विपस्सनाधुरञ्च गन्थधुरञ्च वित्थारतो सुत्वा एको ताव ‘‘अहं, भन्ते, महल्लककाले पब्बजितो न सक्खिस्सामि गन्थधुरं पूरेतुं, विपस्सनाधुरं पन पूरेस्सामी’’ति याव अरहत्ता विपस्सनाधुरं कथापेत्वा घटेन्तो वायमन्तो सह पटिसम्भिदाहि अरहत्तं पापुणि. इतरो पन ‘‘अहं गन्थधुरं पूरेस्सामी’’ति अनुक्कमेन तेपिटकं बुद्धवचनं उग्गण्हित्वा गतगतट्ठाने धम्मं कथेति, सरभञ्ञं भणति, पञ्चन्नं भिक्खुसतानं धम्मं वाचेन्तो विचरति. अट्ठारसन्नं महागणानं आचरियो अहोसि. भिक्खू सत्थु सन्तिके कम्मट्ठानं गहेत्वा इतरस्स थेरस्स वसनट्ठानं गन्त्वा तस्स ओवादे ठत्वा अरहत्तं पत्वा थेरं वन्दित्वा, ‘‘सत्थारं दट्ठुकामम्हा’’ति वदन्ति. थेरो ‘‘गच्छथ, आवुसो, मम वचनेन सत्थारं वन्दित्वा असीति महाथेरे वन्दथ, सहायकत्थेरम्पि मे ‘अम्हाकं आचरियो तुम्हे वन्दती’ति वदथा’’ति पेसेति. ते भिक्खू विहारं गन्त्वा सत्थारञ्चेव असीति महाथेरे च वन्दित्वा गन्थिकत्थेरस्स सन्तिकं गन्त्वा, ‘‘भन्ते, अम्हाकं आचरियो तुम्हे वन्दती’’ति वदन्ति. इतरेन च ‘‘को नाम सो’’ति वुत्ते, ‘‘तुम्हाकं सहायकभिक्खु, भन्ते’’ति वदन्ति. एवं थेरे पुनप्पुनं सासनं पहिणन्ते सो भिक्खु थोकं कालं सहित्वा अपरभागे सहितुं असक्कोन्तो ‘‘अम्हाकं आचरियो तुम्हे वन्दती’’ति वुत्ते, ‘‘को एसो’’ति वत्वा ‘‘तुम्हाकं सहायकभिक्खू’’ति वुत्ते, ‘‘किं पन तुम्हेहि तस्स सन्तिके उग्गहितं, किं दीघनिकायादीसु अञ्ञतरो निकायो, किं तीसु पिटकेसु एकं पिटक’’न्ति वत्वा ‘‘चतुप्पदिकम्पि गाथं न जानाति, पंसुकूलं गहेत्वा पब्बजितकालेयेव अरञ्ञं पविट्ठो, बहू वत अन्तेवासिके लभि, तस्स आगतकाले मया पञ्हं पुच्छितुं वट्टती’’ति चिन्तेसि.

अथ अपरभागे थेरो सत्थारं दट्ठुं आगतो. सहायकस्स थेरस्स सन्तिके पत्तचीवरं ठपेत्वा गन्त्वा सत्थारञ्चेव असीति महाथेरे च वन्दित्वा सहायकस्स वसनट्ठानं पच्चागमि. अथस्स सो वत्तं कारेत्वा समप्पमाणं आसनं गहेत्वा, ‘‘पञ्हं पुच्छिस्सामी’’ति निसीदि. तस्मिं खणे सत्था ‘‘एस एवरूपं मम पुत्तं विहेठेत्वा निरये निब्बत्तेय्या’’ति तस्मिं अनुकम्पाय विहारचारिकं चरन्तो विय तेसं निसिन्नट्ठानं गन्त्वा पञ्ञत्तवरबुद्धासने निसीदि. तत्थ तत्थ निसीदन्ता हि भिक्खू बुद्धासनं पञ्ञापेत्वाव निसीदन्ति. तेन सत्था पकतिपञ्ञत्तेयेव आसने निसीदि. निसज्ज खो पन गन्थिकभिक्खुं पठमज्झाने पञ्हं पुच्छित्वा तस्मिं अकथिते दुतियज्झानं आदिं कत्वा अट्ठसुपि समापत्तीसु रूपारूपेसु च पञ्हं पुच्छि. गन्थिकत्थेरो एकम्पि कथेतुं नासक्खि. इतरो तं सब्बं कथेसि. अथ नं सोतापत्तिमग्गे पञ्हं पुच्छि. गन्थिकत्थेरो कथेतुं नासक्खि. ततो खीणासवत्थेरं पुच्छि. थेरो कथेसि. सत्था ‘‘साधु साधु, भिक्खू’’ति अभिनन्दित्वा सेसमग्गेसुपि पटिपाटिया पञ्हं पुच्छि. गन्थिको एकम्पि कथेतुं नासक्खि, खीणासवो पुच्छितं पुच्छितं कथेसि. सत्था चतूसुपि ठानेसु तस्स साधुकारं अदासि. तं सुत्वा भुम्मदेवे आदिं कत्वा याव ब्रह्मलोका सब्बा देवता चेव नागसुपण्णा च साधुकारं अदंसु. तं साधुकारं सुत्वा तस्स अन्तेवासिका चेव सद्धिविहारिनो च सत्थारं उज्झायिंसु – ‘‘किं नामेतं सत्थारा कतं, किञ्चि अजानन्तस्स महल्लकत्थेरस्स चतूसु ठानेसु साधुकारं अदासि, अम्हाकं पनाचरियस्स सब्बपरियत्तिधरस्स पञ्चन्नं भिक्खुसतानं पामोक्खस्स पसंसामत्तम्पि न करी’’ति. अथ ने सत्था ‘‘किं नामेतं, भिक्खवे, कथेथा’’ति पुच्छित्वा तस्मिं अत्थे आरोचिते, ‘‘भिक्खवे, तुम्हाकं आचरियो मम सासने भतिया गावो रक्खणसदिसो, मय्हं पन पुत्तो यथारुचिया पञ्च गोरसे परिभुञ्जनकसामिसदिसो’’ति वत्वा इमा गाथा अभासि –

१९. ‘‘बहुम्पि चे संहित भासमानो,

न तक्करो होति नरो पमत्तो;

गोपोव गावो गणयं परेसं,

न भागवा सामञ्ञस्स होति.

२०. ‘‘अप्पम्पि चे संहित भासमानो,

धम्मस्स होति अनुधम्मचारी;

रागञ्च दोसञ्च पहाय मोहं,

सम्मप्पजानो सुविमुत्तचित्तो.

‘‘अनुपादियानो इध वा हुरं वा,

स भागवा सामञ्ञस्स होती’’ति.

तत्थ संहितन्ति तेपिटकस्स बुद्धवचनस्सेतं नामं. तं आचरिये उपसङ्कमित्वा उग्गण्हित्वा बहुम्पि परेसं भासमानो वाचेन्तो तं धम्मं सुत्वा यं कारकेन पुग्गलेन कत्तब्बं, तक्करो न होति. कुक्कुटस्स पक्खपहरणमत्तम्पि अनिच्चादिवसेन योनिसोमनसिकारं नप्पवत्तेति. एसो यथा नाम दिवसं भतिया गावो रक्खन्तो गोपो पातोव निरवसेसं सम्पटिच्छित्वा सायं गहेत्वा सामिकानं निय्यादेत्वा दिवसभतिमत्तं गण्हाति, यथारुचिया पन पञ्च गोरसे परिभुञ्जितुं न लभति, एवमेव केवलं अन्तेवासिकानं सन्तिका वत्तपटिवत्तकरणमत्तस्स भागी होति, सामञ्ञस्स पन भागी न होति. यथा पन गोपालकेन निय्यादितानं गुन्नं गोरसं सामिकाव परिभुञ्जन्ति, तथा तेन कथितं धम्मं सुत्वा कारकपुग्गला यथानुसिट्ठं पटिपज्जित्वा केचि पठमज्झानादीनि पापुणन्ति, केचि विपस्सनं वड्ढेत्वा मग्गफलानि पापुणन्ति, गोणसामिका गोरसस्सेव सामञ्ञस्स भागिनो होन्ति.

इति सत्था सीलसम्पन्नस्स बहुस्सुतस्स पमादविहारिनो अनिच्चादिवसेन योनिसोमनसिकारे पमत्तस्स भिक्खुनो वसेन पठमं गाथं कथेसि, न दुस्सीलस्स. दुतियगाथा पन अप्पस्सुतस्सपि योनिसोमनसिकारे कम्मं करोन्तस्स कारकपुग्गलस्स वसेन कथिता.

तत्थ अप्पम्पी चेति थोकं एकवग्गद्विवग्गमत्तम्पि. धम्मस्स होति अनुधम्मचारीति अत्थमञ्ञाय धम्ममञ्ञाय नवलोकुत्तरधम्मस्स अनुरूपं धम्मं पुब्बभागपटिपदासङ्खातं चतुपारिसुद्धिसीलधुतङ्गअसुभकम्मट्ठानादिभेदं चरन्तो अनुधम्मचारी होति. सो ‘‘अज्ज अज्जेवा’’ति पटिवेधं आकङ्खन्तो विचरति. सो इमाय सम्मापटिपत्तिया रागञ्च दोसञ्च पहाय मोहं सम्मा हेतुना नयेन परिजानितब्बे धम्मे परिजानन्तो तदङ्गविक्खम्भनसमुच्छेदपटिप्पस्सद्धिनिस्सरणविमुत्तीनं वसेन सुविमुत्तचित्तो, अनुपादियानो इध वा हुरं वाति इधलोकपरलोकपरियापन्ना वा अज्झत्तिकबाहिरा वा खन्धायतनधातुयो चतूहि उपादानेहि अनुपादियन्तो महाखीणासवो मग्गसङ्खातस्स सामञ्ञस्स वसेन आगतस्स फलसामञ्ञस्स चेव पञ्चअसेक्खधम्मक्खन्धस्स च भागवा होतीति रतनकूटेन विय अगारस्स अरहत्तेन देसनाय कूटं गण्हीति.

गाथापरियोसाने बहू सोतापन्नादयो अहेसुं. देसना महाजनस्स सात्थिका जाताति.

द्वेसहायकभिक्खुवत्थु चुद्दसमं.

यमकवग्गवण्णना निट्ठिता.

पठमो वग्गो.