१०. मच्छराजचरियावण्णना

८३. दसमे यदा होमि, मच्छराजा महासरेति अतीते मच्छयोनियं निब्बत्तित्वा कोसलरट्ठे सावत्थियं जेतवने पोक्खरणिट्ठाने वल्लिगहनपरिक्खित्ते एकस्मिं महासरे मच्छानं चतूहि सङ्गहवत्थूहि रञ्जनतो यदा अहं राजा होमि, मच्छगणपरिवुतो तत्थ पटिवसामि तदा. उण्हेति उण्हकाले गिम्हसमये. सूरियसन्तापेति आदिच्चसन्तापेन. सरे उदक खीयथाति तस्मिं सरे उदकं खीयित्थ छिज्जित्थ. तस्मिञ्हि रट्ठे तदा देवो न वस्सि, सस्सानि मिलायिंसु, वापिआदीसु उदकं परिक्खयं परियादानं अगमासि, मच्छकच्छपा कललगहनं पविसिंसु. तस्मिम्पि सरे मच्छा कद्दमगहनं पविसित्वा तस्मिं तस्मिं ठाने निलीयिंसु.

८४. ततोति ततो उदकपरिक्खयतो अपरभागे. कुललसेनकाति कुललाचेव सेना च. भक्खयन्ति दिवारत्तिं, मच्छे उपनिसीदियाति तत्थ तत्थ कललपिट्ठे उपनिसीदित्वा कललगहनं पविसित्वा निपन्ने मच्छे काका वा इतरे वा दिवा चेव रत्तिञ्च कणयग्गसदिसेहि तुण्डेहि कोट्टेत्वा कोट्टेत्वा नीहरित्वा विप्फन्दमाने भक्खयन्ति.

८५. अथ महासत्तो मच्छानं तं ब्यसनं दिस्वा महाकरुणाय समुस्साहितहदयो ‘‘ठपेत्वा मं इमे मम ञातके इमस्मा दुक्खा मोचेतुं समत्थो नाम अञ्ञो नत्थि, केन नु खो अहं उपायेन ते इतो दुक्खतो मोचेय्य’’न्ति चिन्तेन्तो ‘‘यंनूनाहं पुब्बकेहि महेसीहि आचिण्णसमाचिण्णं मयि च संविज्जमानं सच्चधम्मं निस्साय सच्चकिरियं कत्वा देवं वस्सापेत्वा मम ञातिसङ्घस्स जीवितदानं ददेय्यं, तेन च सकलस्सापि आहारूपजीविनो सत्तलोकस्स महाउपकारो सम्पादितो मया’’ति निच्छयं कत्वा देवं वस्सापेतुं सच्चकिरियं अकासि. तेन वुत्तं ‘‘एवं चिन्तेसह’’न्तिआदि.

तत्थ सह ञातीहि पीळितोति मय्हं ञातीहि सद्धिं तेन उदकपरिक्खयेन पीळितो. सहाति वा निपातमत्तं. महाकारुणिकताय तेन ब्यसनेन दुक्खितेहि ञातीहि कारणभूतेहि पीळितो, ञातिसङ्घदुक्खदुक्खितोति अत्थो.

८६. धम्मत्थन्ति धम्मभूतं अत्थं, धम्मतो वा अनपेतं अत्थं. किं तं? सच्चं. अद्दसपस्सयन्ति मय्हं ञातीनञ्च अपस्सयं अद्दसं. अतिक्खयन्ति महाविनासं.

८७. सद्धम्मन्ति सतं साधूनं बुद्धादीनं एकस्सापि पाणिनो अहिंसनसङ्खातं धम्मं. अनुस्सरित्वा. परमत्थं विचिन्तयन्ति तं खो पन परमत्थं सच्चं अविपरीतसभावं कत्वा चिन्तयन्तो. यं लोके धुवसस्सतन्ति यदेतं बुद्धपच्चेकबुद्धसावकानं एकस्सापि पाणिनो अहिंसनं, तं सब्बकालं तथभावेन धुवं सस्सतं विचिन्तयं सच्चकिरियं अकासिन्ति सम्बन्धो.

८८. इदानि तं धम्मं महासत्तो अत्तनि विज्जमानं गहेत्वा सच्चवचनं पयोजेतुकामो कालवण्णं कद्दमं द्विधा वियूहित्वा अञ्जनरुक्खसारघटिकवण्णमहासरीरो सुधोतलोहितकमणिसदिसानि अक्खीनि उम्मीलेत्वा आकासं उल्लोकेन्तो ‘‘यतो सरामि अत्तान’’न्ति गाथमाह.

तत्थ यतो सरामि अत्तानन्ति यतो पट्ठाय अहं अत्तभावसङ्खातं अत्तानं सरामि अनुस्सरामि. यतो पत्तोस्मि विञ्ञुतन्ति यतो पट्ठाय तासु तासु इतिकत्तब्बतासु विञ्ञुतं विजाननभावं पत्तोस्मि, उद्धं आरोहनवसेन इतो याव मय्हं कायवचीकम्मानं अनुस्सरणसमत्थता विञ्ञुतप्पत्ति एव, एत्थन्तरे समानजातिकानं खादनट्ठाने निब्बत्तोपि तण्डुलकणप्पमाणम्पि मच्छं मया न खादितपुब्बं, अञ्ञम्पि कञ्चि पाणं सञ्चिच्च हिंसितं बाधितं नाभिजानामि, पगेव जीविता वोरोपितं.

८९. एतेन सच्चवज्जेनाति ‘‘यदेतं मया कस्सचि पाणस्स अहिंसनं वुत्तं, सचे एतं सच्चं तथं अविपरीतं, एतेन सच्चवचनेन पज्जुन्नो मेघो अभिवस्सतु, ञातिसङ्घं मे दुक्खा पमोचेतू’’ति वत्वा पुन अत्तनो परिचारिकचेटकं आणापेन्तो विय पज्जुन्नं देवराजानं आलपन्तो ‘‘अभित्थनया’’ति गाथमाह.

तत्थ अभित्थनय पज्जुन्नाति पज्जुन्नो वुच्चति मेघो, अयं पन मेघवसेन लद्धनामं वस्सवलाहकदेवराजानं आलपति. अयं हिस्स अधिप्पायो – देवो नाम अनभित्थनयन्तो विज्जुलता अनिच्छारेन्तो पवस्सन्तोपि न सोभति, तस्मा त्वं अभित्थनयन्तो विज्जुलता निच्छारेन्तो वस्सापेहीति. निधिं काकस्स नासयाति काका कललं पविसित्वा ठिते मच्छे तुण्डेन कोट्टेत्वा नीहरित्वा खादन्ति, तस्मा तेसं अन्तोकलले मच्छा ‘‘निधी’’ति वुच्चन्ति. तं काकसङ्घस्स निधिं देवं वस्सापेन्तो उदकेन पटिच्छादेत्वा नासेहि. काकं सोकाय रन्धेहीति काकसङ्घो इमस्मिं महासरे उदकेन पुण्णे मच्छे अलभमानो सोचिस्सति, तं काकगणं त्वं इमं कद्दमं पूरेन्तो सोकाय रन्धेहि, सोकस्सत्थाय पन वस्सापयथ, यथा अन्तोनिज्झानलक्खणं सोकं पापुणाति, एवं करोहीति अत्थो. मच्छे सोका पमोचयाति मम ञातके सब्बेव मच्छे इमम्हा मरणसोका पमोचेहि. ‘‘मञ्च सोका पमोचया’’ति (जा. १.१.७५) जातके पठन्ति. तत्थ च-कारो सम्पिण्डनत्थो, मञ्च मम ञातके चाति सब्बेव मरणसोका पमोचेहि (जा. अट्ठ. १.१.७५). मच्छानञ्हि अनुदकभावेन पच्चत्थिकानं घासभावं गच्छामाति महामरणसोको, महासत्तस्स पन तेसं अनयब्यसनं पटिच्च करुणायतो करुणापतिरूपमुखेन सोकसम्भवो वेदितब्बो.

एवं बोधिसत्तो अत्तनो परिचारिकचेटकं आणापेन्तो विय पज्जुन्नं आलपित्वा सकले कोसलरट्ठे महावस्सं वस्सापेसि. महासत्तस्स हि सीलतेजेन सच्चकिरियाय समकालमेव सक्कस्स पण्डुकम्बलसिलासनं उण्हाकारं दस्सेसि. सो ‘‘किं नु खो’’ति आवज्जेन्तो तं कारणं ञत्वा वस्सवलाहकदेवराजानं पक्कोसापेत्वा ‘‘तात, महापुरिसो मच्छराजा ञातीनं मरणसोकेन वस्सापनं इच्छति, सकलं कोसलरट्ठं एकमेघं कत्वा वस्सापेही’’ति आह.

सो ‘‘साधू’’ति सम्पटिच्छित्वा एकं वलाहकं निवासेत्वा एकं पारुपित्वा मेघगीतं गायन्तो पाचीनलोकधातुअभिमुखो पक्खन्दि. पाचीनदिसाभागे खलमण्डलमत्तं एकं मेघमण्डलं उट्ठाय सतपटलं सहस्सपटलं हुत्वा अभित्थनयन्तं विज्जुलता निच्छारेन्तं अधोमुखठपितउदककुम्भाकारेन विस्सन्दमानं सकलं कोसलरट्ठं महोघेन अज्झोत्थरि. देवो अच्छिन्नधारं वस्सन्तो मुहुत्तेनेव तं महासरं पूरेसि. मच्छा मरणभयतो मुच्चिंसु. काकादयो अपतिट्ठा अहेसुं. न केवलं मच्छा एव, मनुस्सापि विविधसस्सानि सम्पादेन्ता चतुप्पदादयोपीति सब्बेपि वस्सूपजीविनो कायिकचेतसिकदुक्खतो मुच्चिंसु. तेन वुत्तं –

९०. ‘‘सह कते सच्चवरे, पज्जुन्नो अभिगज्जिय;

थलं निन्नञ्च पूरेन्तो, खणेन अभिवस्सथा’’ति.

तत्थ खणेन अभिवस्सथाति अदन्धायित्वा सच्चकिरियखणेनेव अभिवस्सि.

९१. कत्वा वीरियमुत्तमन्ति देवे अवस्सन्ते किं कातब्बन्ति कोसज्जं अनापज्जित्वा ञातत्थचरियासम्पादनमुखेन महतो सत्तनिकायस्स हितसुखनिप्फादनं उत्तमं वीरियं कत्वा. सच्चतेजबलस्सितो मम सच्चानुभावबलसन्निस्सितो हुत्वा तदा महामेघं वस्सापेसिं. यस्मा चेतदेवं, तस्मा ‘‘सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति महामच्छराजकाले अत्तनो सच्चपारमिया अनञ्ञसाधारणभावं दस्सेसि धम्मराजा.

एवं महासत्तो महाकरुणाय समुस्साहितहदयो सकलरट्ठे महावस्सं वस्सापनवसेन महाजनं मरणदुक्खतो मोचेत्वा जीवितपरियोसाने यथाकम्मं गतो.

तदा पज्जुन्नो आनन्दत्थेरो अहोसि, मच्छगणा बुद्धपरिसा, मच्छराजा लोकनाथो.

तस्स हेट्ठा वुत्तनयेनेव सेसपारमियोपि निद्धारेतब्बा. तथा अत्तनो समानजातिकानं खादनट्ठाने मच्छयोनियं निब्बत्तित्वा तण्डुलकणमत्तम्पि मच्छं आदिं कत्वा कस्सचिपि पाणिनो अखादनं, तिट्ठतु खादनं एकसत्तस्सपि अविहेठनं, तथा सच्चकरणेन देवस्स वस्सापनं, उदके परिक्खीणे कललगहने निमुज्जनवसेन अत्तना अनुभवमानं दुक्खं वीरभावेन अगणेत्वा ञातिसङ्घस्सेव तं दुक्खं अत्तनो हदये कत्वा असहन्तस्स सब्बभावेन करुणायना, तथा च पटिपत्तीति एवमादयो गुणानुभावा विभावेतब्बाति.

मच्छराजचरियावण्णना निट्ठिता.