३. युधञ्जयवग्गो
१. युधञ्जयचरियावण्णना
१. ततियवग्गस्स पठमे अमितयसोति अपरिमितपरिवारविभवो. राजपुत्तो युधञ्जयोति रम्मनगरे सब्बदत्तस्स नाम रञ्ञो पुत्तो नामेन युधञ्जयो नाम.
अयञ्हि बाराणसी उदयजातके (जा. १.११.३७ आदयो) सुरुन्धननगरं नाम जाता. चूळसुतसोमजातके (जा. २.१७.१९५ आदयो) सुदस्सनं नाम, सोणनन्दजातके (जा. २.२०.९२ आदयो) ब्रह्मवड्ढनं नाम, खण्डहालजातके(जा. २.२२.९८२ आदयो) पुप्फवती नाम, इमस्मिं पन युधञ्जयजातके (जा. १.११.७३ आदयो) रम्मनगरं नाम अहोसि, एवमस्स कदाचि नामं परिवत्तति. तेन वुत्तं – ‘‘राजपुत्तोति रम्मनगरे सब्बदत्तस्स नाम रञ्ञो पुत्तो’’ति. तस्स पन रञ्ञो पुत्तसहस्सं अहोसि. बोधिसत्तो जेट्ठपुत्तो, तस्स राजा उपरज्जं अदासि. सो हेट्ठा वुत्तनयेनेव दिवसे दिवसे महादानं पवत्तेसि. एवं गच्छन्ते काले बोधिसत्तो एकदिवसं पातोव रथवरं अभिरुहित्वा महन्तेन सिरिविभवेन उय्यानकीळं गच्छन्तो रुक्खग्गतिणग्गसाखग्गमक्कटकसुत्तजालादीसु मुत्ताजालाकारेन लग्गे उस्सावबिन्दू दिस्वा ‘‘सम्म सारथि, किं नामेत’’न्ति पुच्छित्वा ‘‘एते, देव, हिमसमये पतनकउस्सावबिन्दू नामा’’ति सुत्वा दिवसभागं उय्याने कीळित्वा सायन्हकाले पच्चागच्छन्तो ते अदिस्वा ‘‘सम्म सारथि, कहं ते उस्सावबिन्दू, न ते इदानि पस्सामी’’ति पुच्छित्वा ‘‘देव, सूरिये उग्गच्छन्ते सब्बे भिज्जित्वा विलयं गच्छन्ती’’ति सुत्वा ‘‘यथा इमे उप्पज्जित्वा भिज्जन्ति, एवं इमेसं सत्तानं जीवितसङ्खारापि तिणग्गे उस्सावबिन्दुसदिसाव, तस्मा मया ब्याधिजरामरणेहि अपीळितेनेव मातापितरो आपुच्छित्वा पब्बजितुं वट्टती’’ति उस्सावबिन्दुमेव आरम्मणं कत्वा आदित्ते विय तयो भवे पस्सन्तो अत्तनो गेहं आगन्त्वा अलङ्कतपटियत्ताय विनिच्छयसालाय निसिन्नस्स पितु सन्तिकमेव गन्त्वा पितरं वन्दित्वा एकमन्तं ठितो पब्बज्जं याचि. तेन वुत्तं –
‘‘उस्सावबिन्दुं सूरियातपे, पतितं दिस्वान संविजिं.
२. ‘‘तञ्ञेवाधिपतिं कत्वा, संवेगमनुब्रूहयिं;
मातापितू च वन्दित्वा, पब्बज्जमनुयाचह’’न्ति.
तत्थ सूरियातपेति सूरियातपहेतु, सूरियरस्मिसम्फस्सनिमित्तं. ‘‘सूरियातपेना’’तिपि पाठो. पतितं दिस्वानाति विनट्ठं पस्सित्वा, पुब्बे रुक्खग्गादीसु मुत्ताजालादिआकारेन लग्गं हुत्वा दिस्समानं सूरियरस्मिसम्फस्सेन विनट्ठं पञ्ञाचक्खुना ओलोकेत्वा. संविजिन्ति यथा एतानि, एवं सत्तानं जीवितानिपि लहुं लहुं भिज्जमानसभावानीति अनिच्चतामनसिकारवसेन संवेगमापज्जिं.
तञ्ञेवाधिपतिं कत्वा, संवेगमनुब्रूहयिन्ति तञ्ञेव उस्सावबिन्दूनं अनिच्चतं अधिपतिं मुखं पुब्बङ्गमं पुरेचारिकं कत्वा तथेव सब्बसङ्खारानं इत्तरट्ठितिकतं परित्तकालतं मनसिकरोन्तो एकवारं उप्पन्नं संवेगं पुनप्पुनं उप्पादनेन अनुवड्ढेसिं. पब्बज्जमनुयाचहन्ति ‘‘तिणग्गे उस्सावबिन्दू विय न चिरट्ठितिके सत्तानं जीविते मया ब्याधिजरामरणेहि अनभिभूतेनेव पब्बजित्वा यत्थ एतानि न सन्ति, तं अमतं महानिब्बानं गवेसितब्ब’’न्ति चिन्तेत्वा मातापितरो उपसङ्कमित्वा वन्दित्वा ‘‘पब्बज्जं मे अनुजानाथा’’ति ते अहं पब्बज्जं याचिं. एवं महासत्तेन पब्बज्जाय याचिताय सकलनगरे महन्तं कोलाहलमहोसि – ‘‘उपराजा किर युधञ्जयो पब्बजितुकामो’’ति.
तेन च समयेन कासिरट्ठवासिनो राजानं दट्ठुं आगन्त्वा रम्मके पटिवसन्ति. ते सब्बेपि सन्निपतिंसु. इति सपरिसो राजा नेगमा चेव जानपदा च बोधिसत्तस्स माता देवी च सब्बे च ओरोधा महासत्तं ‘‘मा खो त्वं, तात कुमार, पब्बजी’’ति निवारेसुं. तत्थ राजा ‘‘सचे ते कामेहि ऊनं, अहं ते परिपूरयामि, अज्जेव रज्जं पटिपज्जाही’’ति आह. तस्स महासत्तो –
‘‘मा मं देव निवारेहि, पब्बजन्तं रथेसभ;
माहं कामेहि सम्मत्तो, जराय वसमन्वगू’’ति. (जा. १.११.७७) –
अत्तनो पब्बज्जाछन्दमेव वत्वा तं सुत्वा सद्धिं ओरोधेहि मातुया करुणं परिदेवन्तिया –
‘‘उस्सावोव तिणग्गम्हि, सूरियुग्गमनं पति;
एवमायु मनुस्सानं, मा मं अम्म निवारया’’ति. (जा. १.११.७९) –
अत्तनो पब्बज्जाकारणं कथेत्वा नानप्पकारं तेहि याचियमानोपि अभिसंवड्ढमानसंवेगत्ता अनोसक्कितमानसो पियतरे महति ञातिपरिवट्टे उळारे राजिस्सरिये च निरपेक्खचित्तो पब्बजि. तेन वुत्तं –
३. ‘‘याचन्ति मं पञ्जलिका, सनेगमा सरट्ठका;
अज्जेव पुत्त पटिपज्ज, इद्धं फीतं महामहिं.
४. ‘‘सराजके सहोरोधे, सनेगमे सरट्ठके;
करुणं परिदेवन्ते, अनपेक्खो परिच्चजि’’न्ति.
तत्थ पञ्जलिकाति पग्गहितअञ्जलिका. सनेगमा सरट्ठकाति नेगमेहि चेव रट्ठवासीहि च सद्धिं सब्बे राजपुरिसा ‘‘मा खो, त्वं देव, पब्बजी’’ति मं याचन्ति. मातापितरो पन अज्जेव पुत्त पटिपज्ज, गामनिगमराजधानिअभिवुद्धिया वेपुल्लप्पत्तिया च, इद्धं विभवसारसम्पत्तिया सस्सादिनिप्फत्तिया च, फीतं इमं महामहिं अनुसास, छत्तं उस्सापेत्वा रज्जं कारेहीति याचन्ति. एवं पन सह रञ्ञाति सराजके, तथा सहोरोधे सनेगमे सरट्ठके महाजने यथा सुणन्तानम्पि पगेव पस्सन्तानं महन्तं कारुञ्ञं होति, एवं करुणं परिदेवन्ते तत्थ तत्थ अनपेक्खो अलग्गचित्तो ‘‘अहं तदा पब्बजि’’न्ति दस्सेति.
५-६. इदानि यदत्थं चक्कवत्तिसिरिसदिसं रज्जसिरिं पियतरे ञातिबन्धवे पहाय सिनिद्धं परिग्गहपरिजनं लोकाभिमतं महन्तं यसञ्च निरपेक्खो परिच्चजिन्ति दस्सेतुं द्वे गाथा अभासि.
तत्थ केवलन्ति अनवसेसं इत्थागारं समुद्दपरियन्तञ्च पथविं पब्बज्जाधिप्पायेन चजमानो एवं मे सम्मासम्बोधि सक्का अधिगन्तुन्ति बोधियायेव कारणा न किञ्चि चिन्तेसिं, न तत्थ ईसकं लग्गं जनेसिन्ति अत्थो. तस्माति यस्मा मातापितरो तञ्च महायसं रज्जञ्च मे न देस्सं, पियमेव, ततो पन सतगुणेन सहस्सगुणेन सतसहस्सगुणेन सब्बञ्ञुतञ्ञाणमेव मय्हं पियतरं, तस्मा मातादीहि सद्धिं रज्जं अहं तदा परिच्चजिन्ति.
तदेतं सब्बं परिच्चजित्वा पब्बज्जाय महासत्ते निक्खमन्ते तस्स कनिट्ठभाता युधिट्ठिलकुमारो नाम पितरं वन्दित्वा पब्बज्जं अनुजानापेत्वा बोधिसत्तं अनुबन्धि. ते उभोपि नगरा निक्खम्म महाजनं निवत्तेत्वा हिमवन्तं पविसित्वा मनोरमे ठाने अस्समपदं कत्वा इसिपब्बज्जं पब्बजित्वा झानाभिञ्ञायो निब्बत्तेत्वा वनमूलफलादीहि यावजीवं यापेत्वा ब्रह्मलोकपरायना अहेसुं. तेनाह भगवा –
‘‘उभो कुमारा पब्बजिता, युधञ्जयो युधिट्ठिलो;
पहाय मातापितरो, सङ्गं छेत्वान मच्चुनो’’ति. (जा. १.११.८३);
तत्थ सङ्गं छेत्वान मच्चुनोति मच्चुमारस्स सहकारिकारणभूतत्ता सन्तकं रागदोसमोहसङ्गं विक्खम्भनवसेन छिन्दित्वा उभोपि पब्बजिताति.
तदा मातापितरो महाराजकुलानि अहेसुं, युधिट्ठिलकुमारो आनन्दत्थेरो, युधञ्जयो लोकनाथो.
तस्स पब्बज्जतो पुब्बे पवत्तितमहादानानि चेव रज्जादिपरिच्चागो च दानपारमी, कायवचीसंवरो सीलपारमी, पब्बज्जा च झानाधिगमो च नेक्खम्मपारमी, अनिच्चतो मनसिकारं आदिं कत्वा अभिञ्ञाधिगमपरियोसाना पञ्ञा दानादीनं उपकारानुपकारधम्मपरिग्गण्हनपञ्ञा च पञ्ञापारमी, सब्बत्थ तदत्थसाधनं वीरियं वीरियपारमी, ञाणखन्ति अधिवासनखन्ति च खन्तिपारमी, पटिञ्ञाय अविसंवादनं सच्चपारमी, सब्बत्थ अचलसमादानाधिट्ठानं अधिट्ठानपारमी, सब्बसत्तेसु हितचित्तताय मेत्ताब्रह्मविहारवसेन च मेत्तापारमी, सत्तसङ्खारकतविप्पकारउपेक्खनवसेन उपेक्खाब्रह्मविहारवसेन च उपेक्खापारमीति दस पारमियो लब्भन्ति. विसेसतो पन नेक्खम्मपारमीति वेदितब्बा. तथा अकित्तिचरियायं विय इधापि महापुरिसस्स अच्छरियगुणा यथारहं निद्धारेतब्बा. तेन वुच्चति ‘‘एवं अच्छरिया हेते, अब्भुता च महेसिनो…पे… धम्मस्स अनुधम्मतो’’ति.
युधञ्जयचरियावण्णना निट्ठिता.
२. सोमनस्सचरियावण्णना
७. दुतिये इन्दपत्थे पुरुत्तमेति एवंनामके नगरवरे. कामितोति मातापितुआदीहि ‘‘अहो वत एको पुत्तो उप्पज्जेय्या’’ति एवं चिरकाले पत्थितो. दयितोति पियायितो. सोमनस्सोति विस्सुतोति ‘‘सोमनस्सो’’ति एवं पकासनामो.
८. सीलवाति दसकुसलकम्मपथसीलेन चेव आचारसीलेन च समन्नागतो. गुणसम्पन्नोति सद्धाबाहुसच्चादिगुणेहि उपेतो, परिपुण्णो वा. कल्याणपटिभानवाति तंतंइतिकत्तब्बसाधनेन उपायकोसल्लसङ्खातेन च सुन्दरेन पटिभानेन समन्नागतो. वुड्ढापचायीति मातापितरो कुले जेट्ठाति एवं ये जातिवुड्ढा, ये च सीलादिगुणेहि वुड्ढा, तेसं अपचायनसीलो. हिरीमाति पापजिगुच्छनलक्खणाय हिरिया समन्नागतो. सङ्गहेसु च कोविदोति दानपियवचनअत्थचरियासमानत्ततासङ्खातेहि चतूहि सङ्गहवत्थूहि यथारहं सत्तानं सङ्गण्हनेसु कुसलो. एवरूपो रेणुस्स नाम कुरुराजस्स पुत्तो सोमनस्सोति विस्सुतो यदा होमीति सम्बन्धो.
९. तस्स रञ्ञो पतिकरोति तेन कुरुराजेन पति अभिक्खणं उपकत्तब्बभावेन पतिकरो वल्लभो. कुहकतापसोति असन्तगुणसम्भावनलक्खणेन कोहञ्ञेन जीवितकप्पनको एको तापसो, तस्स रञ्ञो सक्कातब्बो अहोसि. आरामन्ति फलारामं, यत्थ एळालुकलाबुकुम्भण्डतिपुसादिवल्लिफलानि चेव तण्डुलेय्यकादिसाकञ्च रोपीयति. मालावच्छन्ति जातिअतिमुत्तकादिपुप्फगच्छं, तेन पुप्फारामं दस्सेति. एत्थ च आरामं कत्वा तत्थ मालावच्छञ्च यथावुत्तफलवच्छञ्च रोपेत्वा ततो लद्धधनं संहरित्वा ठपेन्तो जीवतीति अत्थो वेदितब्बो.
तत्रायं अनुपुब्बिकथा – तदा महारक्खितो नाम तापसो पञ्चसततापसपरिवारो हिमवन्ते वसित्वा लोणम्बिलसेवनत्थाय जनपदचारिकं चरन्तो इन्दपत्थनगरं पत्वा राजुय्याने वसित्वा सपरिसो पिण्डाय चरन्तो राजद्वारं पापुणि. राजा इसिगणं दिस्वा इरियापथे पसन्नो अलङ्कतमहातले निसीदापेत्वा पणीतेनाहारेन परिविसित्वा ‘‘भन्ते, इमं वस्सारत्तं मम उय्यानेयेव वसथा’’ति वत्वा तेहि सद्धिं उय्यानं गन्त्वा वसनट्ठानानि कारेत्वा पब्बजितपरिक्खारे दत्वा निक्खमि. ततो पट्ठाय सब्बेपि ते राजनिवेसने भुञ्जन्ति.
राजा पन अपुत्तको पुत्ते पत्थेति, पुत्ता नुप्पज्जन्ति. वस्सारत्तच्चयेन महारक्खितो ‘‘हिमवन्तं गमिस्सामा’’ति राजानं आपुच्छित्वा रञ्ञा कतसक्कारसम्मानो निक्खमित्वा अन्तरामग्गे मज्झन्हिकसमये मग्गा ओक्कम्म एकस्स सन्दच्छायस्स रुक्खस्स हेट्ठा सपरिसो निसीदि. तापसा कथं समुट्ठापेसुं – ‘‘राजा अपुत्तको, साधु वतस्स सचे राजपुत्तं लभेय्या’’ति. महारक्खितो तं कथं सुत्वा ‘‘भविस्सति नु खो रञ्ञो पुत्तो, उदाहु नो’’ति उपधारेन्तो ‘‘भविस्सती’’ति ञत्वा ‘‘मा तुम्हे चिन्तयित्थ, अज्ज पच्चूसकाले एको देवपुत्तो चवित्वा रञ्ञो अग्गमहेसिया कुच्छिम्हि निब्बत्तिस्सती’’ति आह.
तं सुत्वा एको कूटजटिलो ‘‘इदानि राजकुलूपको भविस्सामी’’ति चिन्तेत्वा तापसानं गमनकाले गिलानालयं कत्वा निपज्जित्वा ‘‘एहि गच्छामा’’ति वुत्ते ‘‘न सक्कोमी’’ति आह. महारक्खितो तस्स निपन्नकारणं ञत्वा ‘‘यदा सक्कोसि, तदा आगच्छेय्यासी’’ति इसिगणं आदाय हिमवन्तमेव गतो. कुहको निवत्तित्वा वेगेन गन्त्वा राजद्वारे ठत्वा ‘‘महारक्खितस्स उपट्ठाकतापसो आगतो’’ति रञ्ञो आरोचापेत्वा रञ्ञा वेगेन पक्कोसापितो पासादं अभिरुय्ह पञ्ञत्ते आसने निसीदि. राजा तं वन्दित्वा एकमन्तं निसिन्नो इसीनं आरोग्यं पुच्छित्वा ‘‘भन्ते, अतिखिप्पं निवत्तित्थ, केनत्थेन आगतत्था’’ति आह.
महाराज, इसिगणो सुखनिसिन्नो ‘‘साधु वतस्स सचे रञ्ञो वंसानुरक्खको पुत्तो उप्पज्जेय्या’’ति कथं समुट्ठापेसि. अहं तं कथं सुत्वा ‘‘भविस्सति नु खो रञ्ञो पुत्तो, उदाहु नो’’ति दिब्बचक्खुना ओलोकेन्तो ‘‘महिद्धिको देवपुत्तो चवित्वा अग्गमहेसिया सुधम्माय कुच्छिम्हि निब्बत्तिस्सती’’ति दिस्वा ‘‘अजानन्ता गब्भं नासेय्युं, आचिक्खिस्सामि ताव न’’न्ति तुम्हाकं कथनत्थाय आगतो, कथितं वो मया, गच्छामह’’न्ति. राजा ‘‘भन्ते, न सक्का गन्तु’’न्ति हट्ठतुट्ठो पसन्नचित्तो कुहकतापसं उय्यानं नेत्वा वसनट्ठानं संविदहित्वा अदासि. सो ततो पट्ठाय राजकुले भुञ्जन्तो वसति, ‘‘दिब्बचक्खुको’’त्वेवस्स नामं अहोसि.
तदा बोधिसत्तो तावतिंसभवनतो चवित्वा तत्थ पटिसन्धिं गण्हि, जातस्स च नामग्गहणदिवसे ‘‘सोमनस्सो’’ति नामं करिंसु. सो कुमारपरिहारेन वड्ढति. कुहकतापसोपि उय्यानस्स एकपस्से नानप्पकारं सूपेय्यसाकञ्च फलवल्लिआदयो च रोपेत्वा पण्णिकानं हत्थे विक्किणन्तो धनं संहरति. अथ बोधिसत्तस्स सत्तवस्सिककाले रञ्ञो पच्चन्तो कुपितो. सो ‘‘तात, दिब्बचक्खुतापसे मा पमज्जा’’ति कुमारं पटिच्छापेत्वा पच्चन्तं वूपसमेतुं गतो.
१०-१३. अथेकदिवसं कुमारो ‘‘जटिलं पस्सिस्सामी’’ति उय्यानं गन्त्वा कूटजटिलं एकं गन्धिककासावं निवासेत्वा एकं पारुपित्वा उभोहि हत्थेहि द्वे घटे गहेत्वा साकवत्थुस्मिं उदकं सिञ्चन्तं दिस्वा ‘‘अयं कूटजटिलो अत्तनो समणधम्मं अकत्वा पण्णिककम्मं करोती’’ति ञत्वा ‘‘किं करोसि पण्णिकगहपतिका’’ति तं लज्जापेत्वा अवन्दित्वा एव निक्खमि.
कूटजटिलो ‘‘अयं इदानेव एवरूपो, पच्छा ‘को जानाति किं करिस्सती’ति इदानेव नं नासेतुं वट्टती’’ति चिन्तेत्वा रञ्ञो आगमनकाले पासाणफलकं एकमन्तं खिपित्वा पानीयघटं भिन्दित्वा पण्णसालाय तिणानि विकिरित्वा सरीरं तेलेन मक्खेत्वा पण्णसालं पविसित्वा ससीसं पारुपित्वा महादुक्खप्पत्तो विय मञ्चे निपज्जि. राजा आगन्त्वा नगरं पदक्खिणं कत्वा निवेसनं अपविसित्वाव ‘‘मम सामिकं दिब्बचक्खुकं पस्सिस्सामी’’ति पण्णसालद्वारं गन्त्वा तं विप्पकारं दिस्वा ‘‘किं नु खो एत’’न्ति अन्तो पविसित्वा तं निपन्नकं दिस्वा पादे परिमज्जन्तो पुच्छि – ‘‘केन, त्वं भन्ते, एवं विहेठितो, कमज्ज यमलोकं नेमि, तं मे सीघं आचिक्खा’’ति.
तं सुत्वा कूटजटिलो नित्थुनन्तो उट्ठाय दिट्ठो, महाराज, त्वं मे, पस्सित्वा तयि विस्सासेन अहं इमं विप्पकारं पत्तो, तव पुत्तेनम्हि एवं विहेठितोति. तं सुत्वा राजा चोरघातके आणापेसि – ‘‘गच्छथ कुमारस्स सीसं छिन्दित्वा सरीरञ्चस्स खण्डाखण्डिकं छिन्दित्वा रथिया रथियं विकिरथा’’ति. ते मातरा अलङ्करित्वा अत्तनो अङ्के निसीदापितं कुमारं आकड्ढिंसु – ‘‘रञ्ञा ते वधो आणत्तो’’ति. कुमारो मरणभयतज्जितो मातु अङ्कतो वुट्ठाय – ‘‘रञ्ञो मं दस्सेथ, सन्ति राजकिच्चानी’’ति आह. ते कुमारस्स वचनं सुत्वा मारेतुं अविसहन्ता गोणं विय रज्जुया परिकड्ढन्ता नेत्वा रञ्ञो दस्सेसुं. तेन वुत्तं ‘‘तमहं दिस्वान कुहक’’न्तिआदि.
तत्थ थुसरासिंव अतण्डुलन्ति तण्डुलकणेहि विरहितं थुसरासिं विय, दुमंव रुक्खं विय, अन्तो महासुसिरं. कदलिंव असारकं सीलादिसाररहितं तापसं अहं दिस्वा नत्थि इमस्स सतं साधूनं झानादिधम्मो. कस्मा? सामञ्ञा समणभावा सीलमत्ततोपि अपगतो परिहीनो अयं, तथा हि अयं हिरीसुक्कधम्मजहितो पजहितहिरिसङ्खातसुक्कधम्मो. जीवितवुत्तिकारणाति ‘‘केवलं जीवितस्सेव हेतु अयं तापसलिङ्गेन चरती’’ति चिन्तेसिन्ति दस्सेति. परन्तिहीति परन्तो पच्चन्तो निवासभूतो एतेसं अत्थीति परन्तिनो, सीमन्तरिकवासिनो. तेहि परन्तीहि अटविकेहि पच्चन्तदेसो खोभितो अहोसि. तं पच्चन्तकोपं निसेधेतुं वूपसमेतुं गच्छन्तो मम पिता कुरुराजा ‘‘तात सोमनस्सकुमार, मय्हं सामिकं उग्गतापनं घोरतपं परमसन्तिन्द्रियं जटिलं मा पमज्जि. सो हि अम्हाकं सब्बकामददो, तस्मा यदिच्छकं चित्तरुचियं तस्स चित्तानुकूलं पवत्तेहि अनुवत्तेही’’ति तदा मं अनुसासीति दस्सेति.
१४. तमहं गन्त्वानुपट्ठानन्ति पितु वचनं अनतिक्कन्तो तं कूटतापसं उपट्ठानत्थं गन्त्वा तं साकवत्थुस्मिं उदकं आसिञ्चन्तं दिस्वा ‘‘पण्णिको अय’’न्ति च ञत्वा कच्चि ते, गहपति, कुसलन्ति, गहपति, ते सरीरस्स कच्चि कुसलं कुसलमेव, तथा हि साकवत्थुस्मिं उदकं आसिञ्चसि. किं वा तव हिरञ्ञं वा सुवण्णं वा आहरीयतु, तथा हि पण्णिकवुत्तिं अनुतिट्ठसीति इदं वचनं अभासिं.
१५. तेन सो कुपितो आसीति तेन मया वुत्तगहपतिवादेन सो माननिस्सितो मानं अल्लीनो कुहको मय्हं कुपितो कुद्धो अहोसि. कुद्धो च समानो ‘‘घातापेमि तुवं अज्ज, रट्ठा पब्बाजयामि वा’’ति आह.
तत्थ तुवं अज्जाति, त्वं अज्ज, इदानियेव रञ्ञो आगतकालेति अत्थो.
१६. निसेधयित्वा पच्चन्तन्ति पच्चन्तं वूपसमेत्वा नगरं अपविट्ठो तङ्खणञ्ञेव उय्यानं गन्त्वा कुहकं कुहकतापसं कच्चि ते, भन्ते, खमनीयं, सम्मानो ते पवत्तितोति कुमारेन ते सम्मानो पवत्तितो अहोसि.
१७. कुमारो यथा नासियोति यथा कुमारो नासियो नासेतब्बो घातापेतब्बो, तथा सो पापो तस्स रञ्ञो आचिक्खि. आणापेसीति मय्हं सामिके इमस्मिं दिब्बचक्खुतापसे सति किं मम न निप्फज्जति, तस्मा पुत्तेन मे अत्थो नत्थि, ततोपि अयमेव सेय्योति चिन्तेत्वा आणापेसि.
१८. किन्ति? सीसं तत्थेव छिन्दित्वाति यस्मिं ठाने तं कुमारं पस्सथ, तत्थेव तस्स सीसं छिन्दित्वा सरीरञ्चस्स कत्वान चतुखण्डिकं चतुरो खण्डे कत्वा रथिया रथियं नीयन्ता वीथितो वीथिं विक्खिपन्ता दस्सेथ. कस्मा? सा गति जटिलहीळिताति येहि अयं जटिलो हीळितो, तेसं जटिलहीळितानं सा गति सा निप्फत्ति सो विपाकोति. जटिलहीळिताति वा जटिलहीळनहेतु सा तस्स निप्फत्तीति एवञ्चेत्थ अत्थो दट्ठब्बो.
१९. तत्थाति तस्स रञ्ञो आणायं, तस्मिं वा तापसस्स परिभवे. कारणिकाति घातका, चोरघातकाति अत्थो. चण्डाति कुरूरा. लुद्दाति सुदारुणा. अकारुणाति तस्सेव वेवचनं कतं. ‘‘अकरुणा’’तिपि पाळि, निक्करुणाति अत्थो. मातु अङ्के निसिन्नस्साति मम मातु सुधम्माय देविया उच्छङ्गे निसिन्नस्स. ‘‘निसिन्नस्सा’’ति अनादरे सामिवचनं. आकड्ढित्वा नयन्ति मन्ति मातरा अलङ्करित्वा अत्तनो अङ्के निसीदापितं मं राजाणाय ते चोरघातका गोणं विय रज्जुया आकड्ढित्वा आघातनं नयन्ति. कुमारे पन नीयमाने दासिगणपरिवुता सद्धिं ओरोधेहि सुधम्मा देवी नागरापि ‘‘मयं निरपराधं कुमारं मारेतुं न दस्सामा’’ति तेन सद्धिंयेव अगमंसु.
२०. बन्धतं गाळ्हबन्धनन्ति गाळ्हबन्धनं बन्धन्तानं तेसं कारणिकपुरिसानं. राजकिरियानि अत्थि मेति मया रञ्ञो वत्तब्बानि राजकिच्चानि अत्थि. तस्मा रञ्ञो दस्सेथ मं खिप्पन्ति तेसं अहं एवं वचनं अवचं.
२१. रञ्ञो दस्सयिंसु, पापस्स पापसेविनोति अत्तना पापसीलस्स लामकाचारस्स कूटतापसस्स सेवनतो पापसेविनो रञ्ञो मं दस्सयिंसु. दिस्वान तं सञ्ञापेसिन्ति तं मम पितरं कुरुराजानं पस्सित्वा ‘‘कस्मा मं, देव, मारापेसी’’ति वत्वा तेन ‘‘कस्मा च पन त्वं मय्हं सामिकं दिब्बचक्खुतापसं गहपतिवादेन समुदाचरि. इदञ्चिदञ्च विप्पकारं करी’’ति वुत्ते ‘‘देव, गहपतिञ्ञेव ‘गहपती’ति वदन्तस्स को मय्हं दोसो’’ति वत्वा तस्स नानाविधानि मालावच्छानि रोपेत्वा पुप्फपण्णफलाफलादीनं विक्किणनं हत्थतो चस्स तानि देवसिकं विक्किणन्तेहि मालाकारपण्णिकेहि सद्दहापेत्वा ‘‘मालावत्थुपण्णवत्थूनि उपधारेथा’’ति वत्वा पण्णसालञ्चस्स पविसित्वा पुप्फादिविक्कियलद्धं कहापणकभण्डिकं अत्तनो पुरिसेहि नीहरापेत्वा राजानं सञ्ञापेसिं तस्स कूटतापसभावं जानापेसिं. ममञ्च वसमानयिन्ति तेन सञ्ञापनेन ‘‘सच्चं खो पन कुमारो वदति, अयं कूटतापसो पुब्बे अप्पिच्छो विय हुत्वा इदानि महापरिग्गहो जातो’’ति यथा तस्मिं निब्बिन्नो मम वसे वत्तति, एवं राजानं मम वसमानेसिं.
ततो महासत्तो ‘‘एवरूपस्स बालस्स रञ्ञो सन्तिके वसनतो हिमवन्तं पविसित्वा पब्बजितुं युत्त’’न्ति चिन्तेत्वा राजानं आपुच्छि – ‘‘न मे, महाराज, इध वासेन अत्थो, अनुजानाथ मं पब्बजिस्सामी’’ति. राजा ‘‘तात, मया अनुपधारेत्वाव ते वधो आणत्तो, खम मय्हं अपराध’’न्ति महासत्तं खमापेत्वा ‘‘अज्जेव इमं रज्जं पटिपज्जाही’’ति आह. कुमारो ‘‘देव, किमत्थि मानुसकेसु भोगेसु, अहं पुब्बे दीघरत्तं दिब्बभोगसम्पत्तियो अनुभविं, न तत्थापि मे सङ्गो, पब्बजिस्सामेवाहं, न तादिसस्स बालस्स परनेय्यबुद्धिनो सन्तिके वसामी’’ति वत्वा तं ओवदन्तो –
‘‘अनिसम्म कतं कम्मं, अनवत्थाय चिन्तितं;
भेसज्जस्सेव वेभङ्गो, विपाको होति पापको.
‘‘निसम्म च कतं कम्मं, सम्मावत्थाय चिन्तितं;
भेसज्जस्सेव सम्पत्ति, विपाको होति भद्रको.
‘‘अलसो गिही कामभोगी न साधु, असञ्ञतो पब्बजितो न साधु;
राजा न साधु अनिसम्मकारी, यो पण्डितो कोधनो तं न साधु.
‘‘निसम्म खत्तियो कयिरा, नानिसम्म दिसम्पति;
निसम्मकारिनो राज, यसो कित्ति च वड्ढति.
‘‘निसम्म दण्डं पणयेय्य इस्सरो, वेगा कतं तप्पति भूमिपाल;
सम्मापणीधी च नरस्स अत्था, अनानुतप्पा ते भवन्ति पच्छा.
‘‘अनानुतप्पानि हि ये करोन्ति, विभज्ज कम्मायतनानि लोके;
विञ्ञुप्पसत्थानि सुखुद्रयानि, भवन्ति बुद्धानुमतानि तानि.
‘‘आगच्छुं दोवारिका खग्गबन्धा, कासाविया हन्तु ममं जनिन्द;
मातुञ्च अङ्कस्मिमहं निसिन्नो, आकड्ढितो सहसा तेहि देव.
‘‘कटुकञ्हि सम्बाधं सुकिच्छं पत्तो, मधुरम्पियं जीवितं लद्ध राज;
किच्छेनहं अज्ज वधा पमुत्तो, पब्बज्जमेवाभिमनोहमस्मी’’ति. (जा. १.१५.२२७-२३४) –
इमाहि गाथाहि धम्मं देसेसि.
तत्थ अनिसम्माति अनुपधारेत्वा. अनवत्थायाति अववत्थपेत्वा. वेभङ्गोति विपत्ति. विपाकोति निप्फत्ति. असञ्ञतोति असंवुतो दुस्सीलो. पणयेय्याति पट्ठपेय्य. वेगाति वेगेन सहसा. सम्मापणीधी चाति सम्मापणिधिना, योनिसो ठपितेन चित्तेन कता नरस्स अत्था पच्छा अनानुतप्पा भवन्तीति अत्थो. विभज्जाति इमानि कातुं युत्तानि, इमानि अयुत्तानीति एवं पञ्ञाय विभजित्वा. कम्मायतनानीति कम्मानि. बुद्धानुमतानीति पण्डितेहि अनुमतानि अनवज्जानि होन्ति. कटुकन्ति दुक्खं असातं, सम्बाधं सुकिच्छं मरणभयं पत्तोम्हि. लद्धाति अत्तनो ञाणबलेन जीवितं लभित्वा. पब्बज्जमेवाभिमनोति पब्बज्जाभिमुखचित्तो एवाहमस्मि.
एवं महासत्तेन धम्मे देसिते राजा देविं आमन्तेसि – ‘‘देवि, त्वं पुत्तं निवत्तेही’’ति. देवीपि कुमारस्स पब्बज्जमेव रोचेसि. महासत्तो मातापितरो वन्दित्वा ‘‘सचे मय्हं दोसो अत्थि, तं खमथा’’ति खमापेत्वा महाजनं आपुच्छित्वा हिमवन्ताभिमुखो अगमासि. गते च पन महासत्ते महाजनो कूटजटिलं पोथेत्वा जीवितक्खयं पापेसि. बोधिसत्तोपि सनागरेहि अमच्चपारिसज्जादीहि राजपुरिसेहि अस्सुमुखेहि अनुबन्धियमानो ते निवत्तेसि. मनुस्सेसु निवत्तेसु मनुस्सवण्णेनागन्त्वा देवताहि नीतो सत्त पब्बतराजियो अतिक्कमित्वा हिमवन्ते विस्सकम्मुना निम्मिताय पण्णसालाय इसिपब्बज्जं पब्बजि. तेन वुत्तं –
२२. ‘‘सो मं तत्थ खमापेसि, महारज्जं अदासि मे;
सोहं तमं दालयित्वा, पब्बजिं अनगारिय’’न्ति.
तत्थ तमं दालयित्वाति कामादीनवदस्सनस्स पटिपक्खभूतं सम्मोहतमं विधमित्वा. पब्बजिन्ति उपागच्छिं. अनगारियन्ति पब्बज्जं.
२३. इदानि यदत्थं तदा तं राजिस्सरियं परिच्चत्तं, तं दस्सेतुं ‘‘न मे देस्स’’न्ति ओसानगाथमाह. तस्सत्थो वुत्तनयोव.
एवं पन महासत्ते पब्बजिते याव सोळसवस्सकाला राजकुले परिचारिकवेसेन देवतायेव नं उपट्ठहिंसु. सो तत्थ झानाभिञ्ञायो निब्बत्तेत्वा ब्रह्मलोकूपगो अहोसि.
तदा कुहको देवदत्तो अहोसि, माता महामाया, महारक्खिततापसो सारिपुत्तत्थेरो, सोमनस्सकुमारो लोकनाथो.
तस्स युधञ्जयचरियायं (चरिया. ३.१ आदयो) वुत्तनयेनेव दस पारमियो निद्धारेतब्बा. इधापि नेक्खम्मपारमी अतिसयवतीति सा एव देसनं आरुळ्हा. तथा सत्तवस्सिककाले एव राजकिच्चेसु समत्थता, तस्स तापसस्स कूटजटिलभावपरिग्गण्हनं, तेन पयुत्तेन रञ्ञा वधे आणत्ते सन्तासाभावो, रञ्ञो सन्तिकं गन्त्वा नानानयेहि तस्स सदोसतं अत्तनो च निरपराधतं महाजनस्स मज्झे पकासेत्वा रञ्ञो च परनेय्यबुद्धितं बालभावञ्च पट्ठपेत्वा तेन खमापितेपि तस्स सन्तिके वासतो रज्जिस्सरियतो च संवेगमापज्जित्वा नानप्पकारं याचियमानेनपि हत्थगतं रज्जसिरिं खेळपिण्डं विय छड्डेत्वा कत्थचि अलग्गचित्तेन हुत्वा पब्बजनं, पब्बजित्वा पविवेकारामेन हुत्वा नचिरस्सेव अप्पकसिरेन झानाभिञ्ञानिब्बत्तनन्ति एवमादयो महासत्तस्स गुणानुभावा विभावेतब्बाति.
सोमनस्सचरियावण्णना निट्ठिता.
३. अयोघरचरियावण्णना
२४. ततिये अयोघरम्हि संवड्ढोति अमनुस्सउपद्दवपरिवज्जनत्थं चतुरस्ससालवसेन कते महति सब्बअयोमये गेहे संवड्ढो. नामेनासि अयोघरोति अयोघरे जातसंवड्ढभावेनेव ‘‘अयोघरकुमारो’’ति नामेन पाकटो अहोसि.
२५-६. तदा हि कासिरञ्ञो अग्गमहेसिया पुरिमत्तभावे सपत्ति ‘‘तव जातं जातं पजं खादेय्य’’न्ति पत्थनं पट्ठपेत्वा यक्खिनियोनियं निब्बत्ता ओकासं लभित्वा तस्सा विजातकाले द्वे वारे पुत्ते खादि. ततियवारे पन बोधिसत्तो तस्सा कुच्छियं पटिसन्धिं गण्हि. राजा ‘‘देविया जातं जातं पजं एका यक्खिनी खादति, किं नु खो कातब्ब’’न्ति मनुस्सेहि सम्मन्तेत्वा ‘‘अमनुस्सा नाम अयोघरस्स भायन्ति, अयोघरं कातुं वट्टती’’ति वुत्ते कम्मारे आणापेत्वा थम्भे आदिं कत्वा अयोमयेहेव सब्बगेहसम्भारेहि चतुरस्ससालं महन्तं अयोघरं निट्ठापेत्वा परिपक्कगब्भं देविं तत्थ वासेसि. सा तत्थ धञ्ञपुञ्ञलक्खणं पुत्तं विजायि. ‘‘अयोघरकुमारो’’त्वेवस्स नामं करिंसु. तं धातीनं दत्वा महन्तं आरक्खं संविदहित्वा राजा देविं अन्तेपुरं आनेसि. यक्खिनीपि उदकवारं गन्त्वा वेस्सवणस्स उदकं वहन्ती जीवितक्खयं पत्ता.
महासत्तो अयोघरेयेव वड्ढित्वा विञ्ञुतं पत्तो, तत्थेव सब्बसिप्पानि उग्गण्हि. राजा पुत्तं सोळसवस्सुद्देसिकं विदित्वा ‘‘रज्जमस्स दस्सामी’’ति अमच्चे आणापेसि – ‘‘पुत्तं मे आनेथा’’ति. ते ‘‘साधु, देवा’’ति नगरं अलङ्कारापेत्वा सब्बालङ्कारविभूसितं मङ्गलवारणं आदाय तत्थ गन्त्वा कुमारं अलङ्करित्वा हत्थिक्खन्धे निसीदापेत्वा नगरं पदक्खिणं कारेत्वा रञ्ञो दस्सेसुं. महासत्तो राजानं वन्दित्वा अट्ठासि. राजा तस्स सरीरसोभं ओलोकेत्वा बलवसिनेहेन तं आलिङ्गित्वा ‘‘अज्जेव मे पुत्तं अभिसिञ्चथा’’ति अमच्चे आणापेसि. महासत्तो पितरं वन्दित्वा ‘‘न मय्हं रज्जेन अत्थो, अहं पब्बजिस्सामि, पब्बज्जं मे अनुजानाथा’’ति आह. तेन वुत्तं ‘‘दुक्खेन जीवितो लद्धो’’तिआदि.
तत्थ दुक्खेनाति, तात, तव भातिका द्वे एकाय यक्खिनिया खादिता, तुय्हं पन ततो अमनुस्सभयतो निवारणत्थं कतेन दुक्खेन महता आयासेन जीवितो लद्धो. संपीळे पतिपोसितोति नानाविधाय अमनुस्सरक्खाय सम्बाधे अयोघरे विजायनकालतो पट्ठाय याव सोळसवस्सुप्पत्तिया सम्बाधे संवड्ढितोति अत्थो. अज्जेव, पुत्त, पटिपज्ज, केवलं वसुधं इमन्ति कञ्चनमालालङ्कतस्स सेतच्छत्तस्स हेट्ठा रतनरासिम्हि ठपेत्वा तीहि सङ्खेहि अभिसिञ्चियमानो इमं कुलसन्तकं केवलं सकलं समुद्दपरियन्तं ततोयेव सह रट्ठेहीति सरट्ठकं सह निगमेहि महागामेहीति सनिगमं अपरिमितेन परिवारजनेन सद्धिं सजनं इमं वसुधं महापथविं अज्जेव, पुत्त, पटिपज्ज, रज्जं कारेहीति अत्थो. वन्दित्वा खत्तियं. अञ्जलिं पग्गहेत्वान, इदं वचनमब्रविन्ति खत्तियं कासिराजानं मम पितरं वन्दित्वा तस्स अञ्जलिं पणामेत्वा इदं वचनं अभासिं.
२७. ये केचि महिया सत्ताति इमिस्सा महापथविया ये केचि सत्ता नाम. हीनमुक्कट्ठमज्झिमाति लामका चेव उत्तमा च, उभिन्नं वेमज्झे भवत्ता मज्झिमा च. सके गेहेति सब्बे ते सके गेहे. सकञातिभीति सकेहि ञातीहि सम्मोदमाना विस्सट्ठा अनुक्कण्ठिता यथाविभवं वड्ढन्ति.
२८. इदं लोके उत्तरियन्ति इदं पन इमस्मिं लोके असदिसं, मय्हं एव आवेणिकं. किं पन तं संपीळे मम पोसनन्ति सम्बाधे मम संवड्ढनं. तथा हि अयोघरम्हि संवड्ढो, अप्पभे चन्दसूरियेति चन्दसूरियानं पभारहिते अयोघरे संवड्ढोम्हीति संवड्ढो अम्हि.
२९. पूतिकुणपसम्पुण्णाति पूतिगन्धनानप्पकारकुणपसम्पुण्णा गूथनिरयसदिसा. मातु कुच्छितो जीवितसंसये वत्तमाने कथं मुच्चित्वा निक्खमित्वा. ततो घोरतरेति ततोपि गब्भवासतो दारुणतरे, अविस्सट्ठवासेन दुक्खे. पक्खित्तयोघरेति पक्खित्तो अयोघरे, बन्धनागारे ठपितो विय अहोसिन्ति दस्सेति.
३०. यदिहन्ति एत्थ यदीति निपातमत्तं. तादिसन्ति यादिसं पुब्बे वुत्तं, तादिसं परमदारुणं दुक्खं पत्वा अहं रज्जेसु यदि रज्जामि यदि रमिस्सामि, एवं सन्ते पापानं लामकानं निहीनपुरिसानं उत्तमो निहीनतमो सियं.
३१. उक्कण्ठितोम्हि कायेनाति अपरिमुत्तगब्भवासादिना पूतिकायेन उक्कण्ठितो निब्बिन्नो अम्हि. रज्जेनम्हि अनत्थिकोति रज्जेनपि अनत्थिको अम्हि. यक्खिनिया हत्थतो मुत्तोपि हि नाहं अजरामरो, किं मे रज्जेन, रज्जञ्हि नाम सब्बेसं अनत्थानं सन्निपातट्ठानं, तत्थ ठितकालतो पट्ठाय दुन्निक्खमं होति, तस्मा तं अनुपगन्त्वा निब्बुतिं परियेसिस्सं, यत्थ मं मच्चु न मद्दियेति यत्थ ठितं मं महासेनो मच्चुराजा न मद्दिये न ओत्थरेय्य न अभिभवेय्य, तं निब्बुतिं अमतमहानिब्बानं परियेसिस्सामीति.
३२. एवाहं चिन्तयित्वानाति एवं इमिना वुत्तप्पकारेन नानप्पकारं संसारे आदीनवं पच्चवेक्खणेन निब्बाने आनिसंसदस्सनेन च योनिसो चिन्तेत्वा. विरवन्ते महाजनेति मया विप्पयोगदुक्खासहनेन विरवन्ते परिदेवन्ते मातापितुप्पमुखे महन्ते जने. नागोव बन्धनं छेत्वाति यथा नाम महाबलो हत्थिनागो दुब्बलतरं रज्जुबन्धनं सुखेनेव छिन्दति, एवमेव ञातिसङ्गादिभेदस्स तस्मिं जने तण्हाबन्धनस्स छिन्दनेन बन्धनं छेत्वा काननसङ्खातं महावनं पब्बज्जूपगमनवसेन पाविसिं. ओसानगाथा वुत्तत्था एव.
तत्थ च महासत्तो अत्तनो पब्बज्जाधिप्पायं जानित्वा ‘‘तात, किंकारणा पब्बजसी’’ति रञ्ञा वुत्तो ‘‘देव, अहं मातुकुच्छिम्हि दस मासे गूथनिरये विय वसित्वा मातु कुच्छितो निक्खन्तो यक्खिनिया भयेन सोळसवस्सानि बन्धनागारे वसन्तो बहि ओलोकेतुम्पि न लभिं, उस्सदनिरये पक्खित्तो विय अहोसिं, यक्खिनितो मुत्तोपि अजरामरो न होमि, मच्चु नामेस न सक्का केनचि जिनितुं, भवे उक्कण्ठितोम्हि, याव मे ब्याधिजरामरणानि नागच्छन्ति, तावदेव पब्बजित्वा धम्मं चरिस्सामि, अलं मे रज्जेन, अनुजानाहि मं, देव, पब्बजितु’’न्ति वत्वा –
‘‘यमेकरत्तिं पठमं, गब्भे वसति माणवो;
अब्भुट्ठितोव सो याति, स गच्छं न निवत्तती’’ति. (जा. १.१५.३६३) –
आदिना चतुवीसतिया गाथाहि पितु धम्मं देसेत्वा ‘‘महाराज, तुम्हाकं रज्जं तुम्हाकमेव होतु, न मय्हं इमिना अत्थो, तुम्हेहि सद्धिं कथेन्तेयेव ब्याधिजरामरणानि आगच्छेय्युं, तिट्ठथ तुम्हे’’ति वत्वा अयदामं छिन्दित्वा मत्तहत्थी विय, कञ्चनपञ्जरं भिन्दित्वा सीहपोतको विय, कामे पहाय मातापितरो वन्दित्वा निक्खमि. अथस्स पिता ‘‘अयं नाम कुमारो पब्बजितुकामो, किमङ्गं पनाहं, ममापि रज्जेन अत्थो नत्थी’’ति रज्जं पहाय तेन सद्धिं एव निक्खमि. तस्मिं निक्खमन्ते देवीपि अमच्चापि ब्राह्मणगहपतिकादयोपीति सकलनगरवासिनो भोगे छड्डेत्वा निक्खमिंसु. समागमो महा अहोसि, परिसा द्वादसयोजनिका जाता, ते आदाय महासत्तो हिमवन्तं पाविसि.
सक्को देवराजा तस्स निक्खन्तभावं ञत्वा विस्सकम्मं पेसेत्वा द्वादसयोजनायामं सत्तयोजनवित्थारं अस्समपदं कारेसि, सब्बे च पब्बजितपरिक्खारे पटियादापेसि. इध महासत्तस्स पब्बज्जा च ओवाददानञ्च ब्रह्मलोकपरायनता च परिसाय सम्मा पटिपत्ति च सब्बा महागोविन्दचरियायं (चरिया. १.३७ आदयो) वुत्तनयेनेव वेदितब्बा.
तदा मातापितरो महाराजकुलानि अहेसुं, परिसा बुद्धपरिसा, अयोघरपण्डितो लोकनाथो.
तस्स सेसपारमिनिद्धारणा आनुभावविभावना च हेट्ठा वुत्तनयेनेव वेदितब्बाति.
अयोघरचरियावण्णना निट्ठिता.
४. भिसचरियावण्णना
३४. चतुत्थे यदा होमि, कासीनं पुरवरुत्तमेति ‘‘कासी’’ति बहुवचनवसेन लद्धवोहारस्स रट्ठस्स नगरवरे बाराणसियं यस्मिं काले जातसंवड्ढो हुत्वा वसामीति अत्थो. भगिनी च भातरो सत्त, निब्बत्ता सोत्तिये कुलेति उपकञ्चनादयो छ अहञ्चाति भातरो सत्त सब्बकनिट्ठा कञ्चनदेवी नाम भगिनी चाति सब्बे मयं अट्ठ जना मन्तज्झेननिरतताय सोत्तिये उदितोदिते महति ब्राह्मणकुले तदा निब्बत्ता जाताति अत्थो.
३५. बोधिसत्तो हि तदा बाराणसियं असीतिकोटिविभवस्स ब्राह्मणमहासालस्स पुत्तो हुत्वा निब्बत्ति. तस्स ‘‘कञ्चनकुमारो’’ति नामं करिंसु. अथस्स पदसा विचरणकाले अपरो पुत्तो विजायि. ‘‘उपकञ्चनकुमारो’’तिस्स नामं करिंसु. ततो पट्ठाय महासत्तं ‘‘महाकञ्चनकुमारो’’ति समुदाचरन्ति. एवं पटिपाटिया सत्त पुत्ता अहेसुं. सब्बकनिट्ठा पन एका धीता. तस्सा ‘‘कञ्चनदेवी’’ति नामं करिंसु. महासत्तो वयप्पत्तो तक्कसिलं गन्त्वा सब्बसिप्पानि उग्गहेत्वा पच्चागञ्छि.
अथ नं मातापितरो घरावासेन बन्धितुकामा ‘‘अत्तनो समानजातिकुलतो ते दारिकं आनेस्सामा’’ति वदिंसु. सो ‘‘अम्म, तात, न मय्हं घरावासेन अत्थो. मय्हञ्हि सब्बो लोकसन्निवासो आदित्तो विय सप्पटिभयो, बन्धनागारं विय पलिबुद्धनं, उक्कारभूमि विय जिगुच्छो हुत्वा उपट्ठाति, न मे चित्तं कामेसु रज्जति, अञ्ञे वो पुत्ता अत्थि, ते घरावासेन निमन्तेथा’’ति वत्वा पुनप्पुनं याचितोपि सहायेहि याचापितोपि न इच्छि, अथ नं सहाया ‘‘सम्म, किं पन त्वं पत्थयन्तो कामे परिभुञ्जितुं न इच्छसी’’ति पुच्छिंसु. सो तेसं अत्तनो नेक्खम्मज्झासयं आरोचेसि. तेन वुत्तं ‘‘एतेसं पुब्बजो आसि’’न्तिआदि.
तत्थ एतेसं पुब्बजो आसिन्ति एतेसं उपकञ्चनकादीनं सत्तन्नं जेट्ठभातिको अहं तदा अहोसिं. हिरीसुक्कमुपागतोति सुक्कविपाकत्ता सन्तानस्स विसोधनतो च सुक्कं पापजिगुच्छनलक्खणं हिरिं भुसं आगतो, अतिविय पापं जिगुच्छन्तो आसिन्ति अत्थो. भवं दिस्वान भयतो, नेक्खम्माभिरतो अहन्ति कामभवादीनं वसेन सब्बं भवं पक्खन्दितुं आगच्छन्तं चण्डहत्थिं विय, हिंसितुं आगच्छन्तं उक्खित्तासिकं वधकं विय, सीहं विय, यक्खं विय, रक्खसं विय, घोरविसं विय, आसिविसं विय, आदित्तं अङ्गारं विय, सप्पटिभयं भयानकभावतो पस्सित्वा ततो मुच्चनत्थञ्च पब्बज्जाभिरतो पब्बजित्वा ‘‘कथं नु खो धम्मचरियं सम्मापटिपत्तिं पूरेय्यं, झानसमापत्तियो च निब्बत्तेय्य’’न्ति पब्बज्जाकुसलधम्मपठमज्झानादिअभिरतो तदा अहं आसिन्ति अत्थो.
३६. पहिताति मातापितूहि पेसिता. एकमानसाति समानज्झासया पुब्बे मया एकच्छन्दा मनापचारिनो मातापितूहि पहितत्ता पन मम पटिक्कूलं अमनापं वदन्ता. कामेहि मं निमन्तेन्तीति महापितूहि वा एकमानसा कामेहि मं निमन्तेन्ति. कुलवंसं धारेहीति घरावासं सण्ठपेन्तो अत्तनो कुलवंसं धारेहि पतिट्ठपेहीति कामेहि मं निमन्तेसुन्ति अत्थो.
३७. यं तेसं वचनं वुत्तन्ति तेसं मम पियसहायानं यं वचनं वुत्तं. गिहिधम्मे सुखावहन्ति गिहिभावे सति गहट्ठभावे ठितस्स पुरिसस्स ञायानुगतत्ता दिट्ठधम्मिकस्स सम्परायिकस्स च सुखस्स आवहनतो सुखावहं. तं मे अहोसि कठिनन्ति तं तेसं मय्हं सहायानं मातापितूनञ्च वचनं एकन्तेनेव नेक्खम्माभिरतत्ता अमनापभावेन मे कठिनं फरुसं दिवसं सन्तत्तफालसदिसं उभोपि कण्णे झापेन्तं विय अहोसि.
३८. ते मं तदा उक्खिपन्तन्ति ते मय्हं सहाया मातापितूहि अत्तनो च उपनिमन्तनवसेन अनेकवारं उपनीयमाने कामे उद्धमुद्धं खिपन्तं छड्डेन्तं पटिक्खिपन्तं मं पुच्छिंसु. पत्थितं ममाति इतो विसुद्धतरं किं नु खो इमिना पत्थितन्ति मया अभिपत्थितं मम तं पत्थनं पुच्छिंसु – ‘‘किं त्वं पत्थयसे, सम्म, यदि कामे न भुञ्जसी’’ति.
३९. अत्थकामोति अत्तनो अत्थकामो, पापभीरूति अत्थो. ‘‘अत्तकामो’’तिपि पाळि. हितेसिनन्ति मय्हं हितेसीनं पियसहायानं. केचि ‘‘अत्थकामहितेसिन’’न्ति पठन्ति, तं न सुन्दरं.
४०. पितु मातु च सावयुन्ति ते मय्हं सहाया अनिवत्तनीयं मम पब्बज्जाछन्दं विदित्वा पब्बजितुकामतादीपकं मय्हं वचनं पितु मातु च सावेसुं. ‘‘यग्घे, अम्मताता, जानाथ, एकन्तेनेव महाकञ्चनकुमारो पब्बजिस्सति, न सो सक्का केनचि उपायेन कामेसु उपनेतु’’न्ति अवोचुं. मातापिता एवमाहूति तदा मय्हं मातापितरो मम सहायेहि वुत्तं मम वचनं सुत्वा एवमाहंसु – ‘‘सब्बेव पब्बजाम, भो’’ति, यदि महाकञ्चनकुमारस्स नेक्खम्मं अभिरुचितं, यं तस्स अभिरुचितं, तदम्हाकम्पि अभिरुचितमेव, तस्मा सब्बेव पब्बजाम, भोति. ‘‘भो’’ति तेसं ब्राह्मणानं आलपनं. ‘‘पब्बजाम खो’’तिपि पाठो, पब्बजाम एवाति अत्थो. महासत्तस्स हि पब्बज्जाछन्दं विदित्वा उपकञ्चनादयो छ भातरो भगिनी च कञ्चनदेवी पब्बजितुकामाव अहेसुं, तेन तेपि मातापितूहि घरावासेन निमन्तियमाना न इच्छिंसुयेव. तस्मा एवमाहंसु ‘‘सब्बेव पब्बजाम, भो’’ति.
एवञ्च पन वत्वा महासत्तं मातापितरो पक्कोसित्वा अत्तनोपि अधिप्पायं तस्स आचिक्खित्वा ‘‘तात, यदि पब्बजितुकामोसि, असीतिकोटिधनं तव सन्तकं यथासुखं विस्सज्जेही’’ति आहंसु. अथ नं महापुरिसो कपणद्धिकादीनं विस्सज्जेत्वा महाभिनिक्खमनं निक्खमित्वा हिमवन्तं पाविसि. तेन सद्धिं मातापितरो छ भातरो च भगिनी च एको दासो एका दासी एको च सहायो घरावासं पहाय अगमंसु. तेन वुत्तं –
४१. ‘‘उभो माता पिता मय्हं, भगिनी च सत्त भातरो;
अमितधनं छड्डयित्वा, पविसिम्हा महावन’’न्ति.
जातकट्ठकथायं (जा. अट्ठ. ४.१४.७७ भिसजातकवण्णना) पन ‘‘मातापितूसु कालंकतेसु तेसं कत्तब्बकिच्चं कत्वा महासत्तो महाभिनिक्खमनं निक्खमी’’ति वुत्तं.
एवं हिमवन्तं पविसित्वा च ते बोधिसत्तप्पमुखा एकं पदुमसरं निस्साय रमणीये भूमिभागे अस्समं कत्वा पब्बजित्वा वनमूलफलाहारा यापयिंसु. तेसु उपकञ्चनादयो अट्ठ जना वारेन फलाफलं आहरित्वा एकस्मिं पासाणफलके अत्तनो इतरेसञ्च कोट्ठासे कत्वा घण्टिसञ्ञं दत्वा अत्तनो कोट्ठासं आदाय वसनट्ठानं पविसन्ति. सेसापि घण्टिसञ्ञाय पण्णसालतो निक्खमित्वा अत्तनो अत्तनो पापुणनकोट्ठासं आदाय वसनट्ठानं गन्त्वा परिभुञ्जित्वा समणधम्मं करोन्ति.
अपरभागे भिसानि आहरित्वा तथेव खादन्ति. तत्थ ते घोरतपा परमधितिन्द्रिया कसिणपरिकम्मं करोन्ता विहरिंसु. अथ नेसं सीलतेजेन सक्कस्स भवनं कम्पि. सक्को तं कारणं ञत्वा ‘‘इमे इसयो वीमंसिस्सामी’’ति अत्तनो आनुभावेन महासत्तस्स कोट्ठासे तयो दिवसे अन्तरधापेसि. महासत्तो पठमदिवसे कोट्ठासं अदिस्वा ‘‘मम कोट्ठासो पमुट्ठो भविस्सती’’ति चिन्तेसि. दुतियदिवसे ‘‘मम दोसेन भवितब्बं, पणामनवसेन मम कोट्ठासं न ठपितं मञ्ञे’’ति चिन्तेसि. ततियदिवसे ‘‘तं कारणं सुत्वा खमापेस्सामी’’ति सायन्हसमये घण्टिसञ्ञं दत्वा ताय सञ्ञाय सब्बेसु सन्निपतितेसु तमत्थं आरोचेत्वा तीसुपि दिवसेसु तेहि जेट्ठकोट्ठासस्स ठपितभावं सुत्वा ‘‘तुम्हेहि मय्हं कोट्ठासो ठपितो, मया पन न लद्धो, किं नु खो कारण’’न्ति आह. तं सुत्वा सब्बेव संवेगप्पत्ता अहेसुं.
तस्मिं अस्समे रुक्खदेवतापि अत्तनो भवनतो ओतरित्वा तेसं सन्तिके निसीदि. मनुस्सानं हत्थतो पलायित्वा अरञ्ञं पविट्ठो एको वारणो अहितुण्डिकहत्थतो पलायित्वा मुत्तो सप्पकीळापनको एको वानरो च तेहि इसीहि कतपरिचया तदा तेसं सन्तिकं गन्त्वा एकमन्तं अट्ठंसु. सक्कोपि ‘‘इसिगणं परिग्गण्हिस्सामी’’ति अदिस्समानकायो तत्थेव अट्ठासि. तस्मिञ्च खणे बोधिसत्तस्स कनिट्ठो उपकञ्चनतापसो उट्ठाय बोधिसत्तं वन्दित्वा सेसानं अपचितिं दस्सेत्वा ‘‘अहं सञ्ञं पट्ठपेत्वा अत्तानञ्ञेव सोधेतुं लभामी’’ति पुच्छित्वा ‘‘आम, लभसी’’ति वुत्ते इसिगणमज्झे ठत्वा सपथं करोन्तो –
‘‘अस्सं गवं रजतं जातरूपं, भरियञ्च सो इध लभतं मनापं;
पुत्तेहि दारेहि समङ्गि होतु, भिसानि ते ब्राह्मण यो अहासी’’ति. (जा. १.१४.७८) –
इमं गाथं अभासि. इमञ्हि सो ‘‘यत्तकानि पियवत्थूनि होन्ति, तेहि विप्पयोगे तत्तकानि दुक्खानि उप्पज्जन्ती’’ति वत्थुकामे गरहन्तो आह.
तं सुत्वा इसिगणो ‘‘मारिस, मा कथय, अतिभारियो ते सपथो’’ति कण्णे पिदहि. बोधिसत्तोपि ‘‘अतिभारियो ते सपथो, न, त्वं तात, गण्हसि, तव पत्तासने निसीदा’’ति आह. सेसापि सपथं करोन्ता यथाक्कमं –
‘‘मालञ्च सो कासिकचन्दनञ्च, धारेतु पुत्तस्स बहू भवन्तु;
कामेसु तिब्बं कुरुतं अपेक्खं, भिसानि ते ब्राह्मण यो अहासि.
‘‘पहूतधञ्ञो कसिमा यसस्सी, पुत्ते गिही धनिमा सब्बकामे;
वयं अपस्सं घरमावसातु, भिसानि ते ब्राह्मण यो अहासि.
‘‘सो खत्तियो होतु पसय्हकारी, राजाभिराजा बलवा यसस्सी;
सचातुरन्तं महिमावसातु, भिसानि ते ब्राह्मण यो अहासि.
‘‘सो ब्राह्मणो होतु अवीतरागो, मुहुत्तनक्खत्तपथेसु युत्तो;
पूजेतु नं रट्ठपती यसस्सी, भिसानि ते ब्राह्मण यो अहासि.
‘‘अज्झायकं सब्बसमन्तवेदं, तपस्सिनं मञ्ञतु सब्बलोको;
पूजेन्तु नं जानपदा समेच्च, भिसानि ते ब्राह्मण यो अहासि.
‘‘चतुस्सदं गामवरं समिद्धं, दिन्नञ्हि सो भुञ्जतु वासवेन;
अवीतरागो मरणं उपेतु, भिसानि ते ब्राह्मण यो अहासि.
‘‘सो गामणी होतु सहायमज्झे, नच्चेहि गीतेहि पमोदमानो;
सो राजतो ब्यसनमालत्थ किञ्चि, भिसानि ते ब्राह्मण यो अहासि.
‘‘तं एकराजा पथविं विजेत्वा, इत्थीसहस्सस्स ठपेतु अग्गे;
सीमन्तिनीनं पवरा भवातु, भिसानि ते ब्राह्मण या अहासि.
‘‘इसीनञ्हि सा सब्बसमागतानं, भुञ्जेय्य सादुं अविकम्पमाना;
चरातु लाभेन विकत्थमाना, भिसानि ते ब्राहण या अहासि.
‘‘आवासिको होतु महाविहारे, नवकम्मिको होतु गजङ्गलायं;
आलोकसन्धिं दिवसं करोतु, भिसानि ते ब्राह्मण यो अहासि.
‘‘सो बज्झतं पाससतेहि छम्हि, रम्मा वना नीयतु राजधानिं;
तुत्तेहि सो हञ्ञतु पाचनेहि, भिसानि ते ब्राह्मण यो अहासि.
‘‘अलक्कमाली तिपुकण्णपिट्ठो, लट्ठीहतो सप्पमुखं उपेतु;
सकच्छबन्धो विसिखं चरातु, भिसानि ते ब्राह्मण यो अहासी’’ति. (जा. १.१४.७९-९०) –
इमा गाथायो अवोचुं.
तत्थ तिब्बन्ति वत्थुकामकिलेसकामेसु बहलं अपेक्खं करोतु. कसिमाति सम्पन्नकसिकम्मो. पुत्ते गिही धनिमा सब्बकामेति पुत्ते लभतु, गिही होतु, सत्तविधेन धनेन धनिमा होतु, रूपादिभेदे सब्बकामे लभतु. वयं अपस्सन्ति महल्लककालेपि अपब्बजित्वा अत्तनो वयं अपस्सन्तो पञ्चकामगुणसमिद्धं घरमेव आवसतु. राजाभिराजाति राजूनं अन्तरे अतिराजा. अवीतरागोति पुरोहितट्ठानतण्हाय सतण्हो. तपस्सिनन्ति तपसीलं, सीलसम्पन्नोति नं मञ्ञतु. चतुस्सदन्ति आकिण्णमनुस्सताय मनुस्सेहि पहूतधञ्ञताय धञ्ञेन सुलभदारुताय दारूहि सम्पन्नोदकताय उदकेनाति चतूहि उस्सन्नं. वासवेनाति वासवेन दिन्नं विय अचलं, वासवतो लद्धवरानुभावेनेव राजानं आराधेत्वा तेन दिन्नन्तिपि अत्थो. अवीतरागोति अविगतरागो कद्दमे सूकरो विय कामपङ्के निमुग्गोव होतु.
गामणीति गामजेट्ठको. तन्ति तं इत्थिं. एकराजाति अग्गराजा. इत्थीसहस्सस्साति वचनमट्ठताय वुत्तं. सोळसन्नं इत्थिसहस्सानं अग्गट्ठाने ठपेतूति अत्थो. सीमन्तिनीनन्ति सीमन्तधरानं, इत्थीनन्ति अत्थो. सब्बसमागतानन्ति सब्बेसं सन्निपतितानं मज्झे निसीदित्वा. अविकम्पमानाति अनोसक्कमाना सादुरसं भुञ्जतूति अत्थो. चरातु लाभेन विकत्थमानाति लाभहेतु सिङ्गारवेसं गहेत्वा लाभं उप्पादेतुं चरतु. आवासिकोति आवासजग्गनको. गजङ्गलायन्ति एवंनामके नगरे. तत्थ किर दब्बसम्भारा सुलभा. आलोकसन्धिं दिवसन्ति एकदिवसेन एकमेव वातपानं करोतु. सो किर देवपुत्तो कस्सपबुद्धकाले गजङ्गलनगरं निस्साय योजनिके महाविहारे आवासिको सङ्घत्थेरो हुत्वा जिण्णे विहारे नवकम्मानि करोन्तोव महादुक्खं अनुभवि, तं सन्धायाह.
पाससतेहीति बहूहि पासेहि. छम्हीति चतूसु पादेसु गीवाय कटिभागे चाति छसु ठानेसु. तुत्तेहीति द्विकण्टकाहि दीघलट्ठीहि. पाचनेहीति रस्सपाचनेहि, अङ्कुसकेहि वा. अलक्कमालीति अहितुण्डिकेन कण्ठे परिक्खिपित्वा ठपिताय अलक्कमालाय समन्नागतो. तिपुकण्णपिट्ठोति तिपुपिळन्धनेन पिळन्धितपिट्ठिकण्णो कण्णपिट्ठो. लट्ठिहतोति सप्पकीळापनं सिक्खापयमानो लट्ठिया हतो हुत्वा. सब्बं ते कामभोगं घरावासं अत्तना अत्तना अनुभूतदुक्खञ्च जिगुच्छन्ता तथा तथा सपथं करोन्ता एवमाहंसु.
अथ बोधिसत्तो ‘‘सब्बेहि इमेहि सपथो कतो, मयापि कातुं वट्टती’’ति सपथं करोन्तो –
‘‘यो वे अनट्ठंव नट्ठन्ति चाह, कामेव सो लभतं भुञ्जतञ्च;