१. रतनचङ्कमनकण्डवण्णना
इदानि पन –
१. ‘‘ब्रह्मा च लोकाधिपती सहम्पती, कतञ्जली अनधिवरं अयाचथ;
सन्तीध सत्ताप्परजक्खजातिका, देसेहि धम्मं अनुकम्पिमं पज’’न्ति. –
आदिनयप्पवत्तस्स अब्भन्तरनिदानस्स अत्थवण्णना होति.
एत्थ ‘‘एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे’’तिआदिसुत्तन्तेसु विय – ‘‘एकं समयं भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे. अथ खो आयस्मा सारिपुत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं बुद्धवंसं अपुच्छी’’ति एवमादिना नयेन निदानं अवत्वा कस्मा ‘‘ब्रह्मा च लोकाधिपती सहम्पती, कतञ्जली अनधिवरं अयाचथा’’तिआदिना नयेन निदानं वुत्तन्ति? वुच्चते – भगवतो सब्बधम्मदेसनाकारणभूताय ब्रह्मुनो धम्मदेसनायाचनाय सन्दस्सनत्थं वुत्तन्ति.
‘‘कदायं धम्मदेसनत्थं, अज्झिट्ठो ब्रह्मुना जिनो;
कदा कत्थ च केनायं, गाथा हि समुदीरिता’’ति.
वुच्चते – बुद्धभूतस्स पन भगवतो अट्ठमे सत्ताहे सत्था धम्मदेसनत्थाय ब्रह्मुना अज्झिट्ठो आयाचितो. तत्रायं अनुपुब्बिकथा – महापुरिसो किर कताभिनीहारो महाभिनिक्खमनदिवसे विवटपाकटबीभच्छसयनासनचेटिका नाटकित्थियो दिस्वा अतीव संविग्गहदयो पटेकदेसावच्छन्नं छन्नं आमन्तेत्वा – ‘‘अरिनरवरमन्थकं कण्डकं नाम तुरङ्गवरमाहरा’’ति कण्डकं आहरापेत्वा छन्नसहायो वरतुरङ्गमारुय्ह नगरद्वारे अधिवत्थाय देवताय नगरद्वारे विवटे नगरतो निक्खमित्वा तीणि रज्जानि तेन रत्तावसेसेन अतिक्कमित्वा अनोमसत्तो अनोमाय नाम नदिया तीरे ठत्वा छन्नमेवमाह – ‘‘छन्न, त्वं मम इमानि अञ्ञेहि असाधारणानि आभरणानि कण्डकञ्च वरतुरङ्गमादाय कपिलपुरं गच्छाही’’ति छन्नं विस्सज्जेत्वा असितोरगनीलुप्पलसदिसेनासिना सकेसमकुटं छिन्दित्वा आकासे उक्खिपित्वा देवदत्तियं पत्तचीवरं गहेत्वा सयमेव पब्बजित्वा अनुपुब्बेन चारिकं चरमानो अनिलबलसमुद्धुततरङ्गभङ्गं असङ्गं गङ्गं नदिं उत्तरित्वा मणिगणरंसिजालविज्जोतितराजगहं राजगहं नाम नगरं पविसित्वा तत्थ इस्सरियमदमत्तं जनं परिहासेन्तो विय च उद्धतवेसस्स जनस्स लज्जमुप्पादयमानो विय च वयकन्तीहि नागरजनहदयानि अत्तनि बन्धन्तो विय च द्वतिंसवरमहापुरिसलक्खणविराजिताय रूपसिरिया सब्बजननयनानि विलुम्पमानो विय च रूपीपादसञ्चरो पुञ्ञसञ्चयो विय च पब्बतो विय च गमनेन निस्सङ्गो सन्तिन्द्रियो सन्तमानसो युगमत्तं पेक्खमानो राजगहं पिण्डाय चरित्वा यापनमत्तं भत्तं गहेत्वा नगरतो निक्खमित्वा पण्डवपब्बतपस्से छायूदकसम्पन्ने सुचिभूमिभागे परमरमणीये पविवित्ते ओकासे निसीदित्वा पटिसङ्खानबलेन मिस्सकभत्तं परिभुञ्जित्वा पण्डवगिरानुसारेन बिम्बिसारेन मगधमहाराजेन महापुरिसस्स सन्तिकं गन्त्वा नामगोत्तं पुच्छित्वा तेन पमुदितहदयेन ‘‘मम रज्जभागं गण्हाही’’ति रज्जेन निमन्तियमानो – ‘‘अलं, महाराज, न मय्हं रज्जेनत्थो अहं रज्जं पहाय लोकहितत्थाय पधानमनुयुञ्जित्वा लोके विवटच्छदो बुद्धो भविस्सामीति निक्खन्तो’’ति वत्वा तेन च ‘‘बुद्धो हुत्वा सब्बपठमं मम विजितं ओसरेय्याथा’’ति वुत्तो ‘साधू’ति तस्स पटिञ्ञं दत्वा आळारञ्च उदकञ्च उपसङ्कमित्वा तेसं धम्मदेसनाय सारं अविन्दन्तो ततो पक्कमित्वा उरुवेलायं छब्बस्सानि दुक्करकारिकं करोन्तोपि अमतं अधिगन्तुं असक्कोन्तो ओळारिकाहारपटिसेवनेन सरीरं सन्तप्पेसि.
तदा पन उरुवेलायं सेनानिगमे सेनानिगमकुटुम्बिकस्स धीता सुजाता नाम दारिका वयप्पत्ता एकस्मिं निग्रोधरुक्खे पत्थनमकासि – ‘‘सचाहं समजातिकं कुलघरं गन्त्वा पठमगब्भे पुत्तं लभिस्सामि, बलिकम्मं करिस्सामी’’ति. तस्सा सा पत्थना समिज्झि. सा वेसाखपुण्णमदिवसे ‘‘अज्ज बलिकम्मं करिस्सामी’’ति पातोव पायासं अनायासं परममधुरं सम्पटिपादेसि. बोधिसत्तोपि तदहेव कतसरीरपटिजग्गनो भिक्खाचारकालं आगमयमानो पातोव गन्त्वा तस्मिं निग्रोधरुक्खमूले निसीदि. अथ खो पुण्णा नाम दासी तस्सा धाती रुक्खमूलसोधनत्थाय गता बोधिसत्तं पाचीनलोकधातुं ओलोकयमानं निसिन्नं सञ्झाप्पभानुरञ्जितवरकनकगिरिसिखरसदिससरीरसोभं तिमिरनिकरनिधानकरं कमलवनविकसनकरं घनविवरमुपगतं दिवसकरमिव तरुवरमुपगतं मुनिदिवसकरमद्दस. सरीरतो चस्स निक्खन्ताहि पभाहि सकलञ्च तं रुक्खं सुवण्णवण्णं दिस्वा तस्सा एतदहोसि – ‘‘अज्ज अम्हाकं देवता रुक्खतो ओरुय्ह सहत्थेनेव बलिं पटिग्गहेतुकामा हुत्वा निसिन्ना’’ति. सा वेगेन गन्त्वा सुजाताय एतमत्थं आरोचेसि.
ततो सुजाता सञ्जातसद्धा हुत्वा सब्बालङ्कारेन अलङ्करित्वा सतसहस्सग्घनिकं सुवण्णपातिं परममधुरस्स मधुपायासस्स पूरेत्वा अपराय सुवण्णपातिया पिदहित्वा सीसेनादाय निग्रोधरुक्खाभिमुखी अगमासि. सा गच्छन्ती दूरतोव तं बोधिसत्तं रुक्खदेवतमिव सकलं तं रुक्खं सरीरप्पभाय सुवण्णवण्णं कत्वा पुञ्ञसञ्चयमिव रूपवन्तं निसिन्नं दिस्वा पीतिसोमनस्सजाता सुजाता ‘‘रुक्खदेवता’’ति सञ्ञाय दिट्ठट्ठानतो पट्ठाय ओनतोनता गन्त्वा सीसतो तं सुवण्णपातिं ओतारेत्वा महासत्तस्स हत्थे ठपेत्वा पञ्चपतिट्ठितेन वन्दित्वा – ‘‘यथा मम मनोरथो निप्फन्नो, एवं तुम्हाकम्पि निप्फज्जतू’’ति वत्वा पक्कामि.
अथ खो बोधिसत्तोपि सुवण्णपातिं गहेत्वा नेरञ्जराय नदिया तीरं गन्त्वा सुप्पतिट्ठितस्स नाम तित्थस्स तीरे सुवण्णपातिं ठपेत्वा न्हत्वा पच्चुत्तरित्वा एकूनपञ्ञासपिण्डे करोन्तो तं पायासं परिभुञ्जित्वा – ‘‘सचाहं अज्ज बुद्धो भविस्सामि, अयं सुवण्णपाति पटिसोतं गच्छतू’’ति खिपि. सा पाति पटिसोतं गन्त्वा काळस्स नाम नागराजस्स भवनं पविसित्वा तिण्णं बुद्धानं थालकानि उक्खिपित्वा तेसं हेट्ठा अट्ठासि.
महासत्तो तत्थेव वनसण्डे दिवाविहारं वीतिनामेत्वा सायन्हसमये सोत्थियेन नाम तिणहारकेन महापुरिसस्स आकारं ञत्वा दिन्ना अट्ठ तिणमुट्ठियो गहेत्वा बोधिमण्डमारुय्ह दक्खिणदिसाभागे अट्ठासि. सो पन पदेसो पदुमिनिपत्ते उदकबिन्दु विय अकम्पित्थ. महापुरिसो – ‘‘अयं पदेसो मम गुणं धारेतुं असमत्थो’’ति पच्छिमदिसाभागमगमासि. सोपि तथेव कम्पित्थ. पुन उत्तरदिसाभागमगमासि. सोपि तथेव कम्पित्थ. पुन पुरत्थिमदिसाभागमगमासि. तत्थ पल्लङ्कप्पमाणट्ठानं निच्चलं अहोसि. महापुरिसो – ‘‘इदं ठानं किलेसविद्धंसनट्ठान’’न्ति सन्निट्ठानं कत्वा तानि तिणानि अग्गे गहेत्वा चालेसि. तानि तूलिकग्गेन परिच्छिन्नानि विय अहेसुं. बोधिसत्तो – ‘‘बोधिं अपत्वाव इमं पल्लङ्कं न भिन्दिस्सामी’’ति चतुरङ्गवीरियं अधिट्ठहित्वा पल्लङ्कं आभुजित्वा बोधिक्खन्धं पिट्ठितो कत्वा पुरत्थाभिमुखो निसीदि.
तङ्खणञ्ञेव सब्बलोकाभिहारो मारो बाहुसहस्सं मापेत्वा दियड्ढयोजनसतिकं हिमगिरिसिखरसदिसं गिरिमेखलं नाम अरिवरवारणं वरवारणं अभिरुय्ह नवयोजनिकेन धनुअसिफरसुसरसत्तिसबलेनातिबहलेन मारबलेन सम्परिवुतो समन्ता पब्बतो विय अज्झोत्थरन्तो महासपत्तं विय महासत्तं समुपागमि. महापुरिसो सूरिये धरन्तेयेव अतितुमूलं मारबलं विधमित्वा विकसितजयसुमनकुसुमसदिसस्स चीवरस्स उपरि पतमानेहि रत्तपवालङ्कुरसदिसरुचिरदस्सनेहि बोधिरुक्खङ्कुरेहि पीतिया विय पूजियमानो एव पठमयामे पुब्बेनिवासानुस्सतिञाणं लभित्वा मज्झिमयामे दिब्बचक्खुञाणं विसोधेत्वा पच्छिमयामे पटिच्चसमुप्पादे ञाणं ओतारेत्वा वट्टविवट्टं सम्मसन्तो अरुणोदये बुद्धो हुत्वा –
‘‘अनेकजातिसंसारं, सन्धाविस्सं अनिब्बिसं;
गहकारं गवेसन्तो, दुक्खा जाति पुनप्पुनं.
‘‘गहकारक दिट्ठोसि, पुन गेहं न काहसि;
सब्बा ते फासुका भग्गा, गहकूटं विसङ्खतं;
विसङ्खारगतं चित्तं, तण्हानं खयमज्झगा’’ति. (ध. प. १५३-१५४) –
इमं उदानं उदानेत्वा सत्ताहं विमुत्तिसुखपटिसेवनेन वीतिनामेत्वा अट्ठमे दिवसे समापत्तितो वुट्ठाय देवतानं कङ्खं ञत्वा तासं कङ्खाविधमनत्थं आकासे उप्पतित्वा यमकपाटिहारियं दस्सेत्वा तासं कङ्खं विधमित्वा पल्लङ्कतो ईसकं पाचीननिस्सिते उत्तरदिसाभागे ठत्वा – ‘‘इमस्मिं वत मे पल्लङ्के सब्बञ्ञुतञ्ञाणं पटिविद्ध’’न्ति चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च पूरितानं पारमीनं फलाधिगमट्ठानं पल्लङ्कञ्चेव बोधिरुक्खञ्च अनिमिसेहि अक्खीहि ओलोकयमानो सत्ताहं वीतिनामेसि, तं ठानं अनिमिसचेतियं नाम जातं.
अथ पल्लङ्कस्स च ठितट्ठानस्स च अन्तरे पुरत्थिमपच्छिमतो आयते रतनचङ्कमे चङ्कमन्तो सत्ताहं वीतिनामेसि, तं ठानं रतनचङ्कमचेतियं नाम जातं. ततो पच्छिमदिसाभागे देवता रतनघरं नाम मापेसुं, तत्थ पल्लङ्केन निसीदित्वा अभिधम्मपिटकं विसेसतो चेत्थ अनन्तनयसमन्तपट्ठानं विचिनन्तो सत्ताहं वीतिनामेसि. तं ठानं रतनघरचेतियं नाम जातं. एवं बोधिसमीपेयेव चत्तारि सत्ताहानि वीतिनामेत्वा पञ्चमे सत्ताहे बोधिरुक्खमूला येन अजपालनिग्रोधो तेनुपसङ्कमि; तत्थापि धम्मं विचिनन्तोयेव विमुत्तिसुखञ्च पटिसंवेदेन्तो अजपालनिग्रोधे सत्ताहं वीतिनामेसि.
एवं अपरं सत्ताहं मुचलिन्दे निसीदि. तस्स निसिन्नमत्तस्सेव भगवतो सकलचक्कवाळगब्भं पूरेन्तो महाअकालमेघो उदपादि. तस्मिं पन उप्पन्ने मुचलिन्दो नागराजा चिन्तेसि – ‘‘अयं महामेघो सत्थरि मय्हं भवनं पविट्ठमत्ते उप्पन्नो वासागारमस्स लद्धुं वट्टती’’ति. सो सत्तरतनमयं देवविमानसदिसं दिब्बविमानं निम्मिनितुं समत्थोपि एवं कते – ‘‘न मय्हं महप्फलं भविस्सति, दसबलस्स कायवेय्यावच्चं करिस्सामी’’ति अतिमहन्तं अत्तभावं कत्वा सत्थारं सत्तक्खत्तुं भोगेहि परिक्खिपित्वा उपरि महन्तं फणं कत्वा अट्ठासि. अथ भगवा परिक्खेपस्स अन्तोव महति ओकासे सब्बरतनमये पच्चग्घपल्लङ्के उपरि विनिग्गलन्तविविधसुरभिकुसुमदामविताने विविधसुरभिगन्धवासिते गन्धकुटियं विहरन्तो विय विहासि. एवं भगवा तं सत्ताहं तत्थ वीतिनामेत्वा ततो अपरं सत्ताहं राजायतने निसीदि. तत्थापि विमुत्तिसुखपटिसंवेदियेव. एत्तावता सत्तसत्ताहानि परिपुण्णानि अहेसुं. एत्थन्तरे भगवा झानसुखेन फलसुखेन च वीतिनामेसि.
अथस्स सत्तसत्ताहातिक्कमे – ‘‘मुखं धोविस्सामी’’ति चित्तं उप्पज्जि. सक्को देवानमिन्दो अगदहरीतकं आहरित्वा अदासि. अथस्स सक्को नागलतादन्तकट्ठञ्च मुखधोवनउदकञ्च अदासि. ततो भगवा दन्तकट्ठं खादित्वा अनोतत्तदहोदकेन मुखं धोवित्वा राजायतनमूले निसीदि. तस्मिं समये चतूहि लोकपालेहि उपनीते पच्चग्घे सेलमये पत्ते तपुस्सभल्लिकानं वाणिजानं मन्थञ्च मधुपिण्डिकञ्च पटिग्गहेत्वा परिभुञ्जित्वा पच्चागन्त्वा अजपालनिग्रोधरुक्खमूले निसीदि. अथस्स तत्थ निसिन्नमत्तस्सेव अत्तना अधिगतस्स धम्मस्स गम्भीरभावं पच्चवेक्खन्तस्स सब्बबुद्धानं आचिण्णो – ‘‘अधिगतो खो म्यायं धम्मो गम्भीरो दुद्दसो दुरनुबोधो सन्तो पणीतो अतक्कावचरो निपुणो पण्डितवेदनीयो’’ति (म. नि. २.२८१; सं. नि. १.१७२; महाव. ७) परेसं धम्मं अदेसेतुकामताकारप्पत्तो परिवितक्को उदपादि.
अथ ब्रह्मा सहम्पति दसबलस्स चेतसा चेतोपरिवितक्कमञ्ञाय – ‘‘नस्सति वत, भो, लोको, विनस्सति वत, भो, लोको’’ति (सं. नि. १.१७२; म. नि. १.२८२; महाव. ८) वाचं निच्छारेन्तो दससहस्सचक्कवाळब्रह्मगणपरिवुतो सक्कसुयामसन्तुसितपरनिम्मितवसवत्तीहि अनुगतो आगन्त्वा भगवतो पुरतो पातुरहोसि. सो अत्तनो पतिट्ठानत्थाय पथविं निम्मिनित्वा दक्खिणं जाणुमण्डलं पथवियं निहन्त्वा जलजामलाविकलकमलमकुलसदिसं दसनखसमोधानसमुज्जलमञ्जलिं सिरस्मिं कत्वा – ‘‘देसेतु, भन्ते, भगवा धम्मं, देसेतु सुगतो धम्मं, सन्ति सत्ता अप्परजक्खजातिका, अस्सवनता धम्मस्स परिहायन्ति, भविस्सन्ति धम्मस्स अञ्ञातारो’’ति (सं. नि. १.१७२; महाव. ८) –
‘‘पातुरहोसि मगधेसु पुब्बे, धम्मो असुद्धो समलेहि चिन्तितो;
अपापुरेतं अमतस्स द्वारं, सुणन्तु धम्मं विमलेनानुबुद्धं.
‘‘सेले यथा पब्बतमुद्धनिट्ठितो, यथापि पस्से जनतं समन्ततो;
तथूपमं धम्ममयं सुमेध, पासादमारुय्ह समन्तचक्खु;
सोकावतिण्णं जनतमपेतसोको, अवेक्खस्सु जातिजराभिभूतं.
‘‘उट्ठेहि वीर विजितसङ्गाम, सत्थवाह अनण विचर लोके;
देसस्सु भगवा धम्मं, अञ्ञातारो भविस्सन्ती’’ति. (म. नि. १.२८२; सं. नि. १.१७२; महाव. ८) –
‘‘ननु तुम्हेहि ‘बुद्धो बोधेय्यं तिण्णो तारेय्यं मुत्तो मोचेय्य’’’न्ति –
‘‘किं मे अञ्ञातवेसेन, धम्मं सच्छिकतेनिध;
सब्बञ्ञुतं पापुणित्वा, तारयिस्सं सदेवक’’न्ति. (बु. वं. २.५५) –
पत्थनं कत्वा पारमियो पूरेत्वा सब्बञ्ञुभावं पत्तोति च, ‘‘तुम्हेहि धम्मे अदेसियमाने को हि नाम अञ्ञो धम्मं देसेस्सति, किमञ्ञं लोकस्स सरणं ताणं लेणं परायन’’न्ति च एवमादीहि अनेकेहि नयेहि भगवन्तं धम्मदेसनत्थं अयाचि. तेन वुत्तं – ‘‘बुद्धभूतस्स पन भगवतो अट्ठमे सत्ताहे सत्था धम्मदेसनत्थाय ब्रह्मुना आयाचितो’’ति.
इदानि ‘‘कदा कत्थ च केनायं, गाथा हि समुदीरिता’’ति इमेसं पञ्हानं विस्सज्जनाय ओकासो अनुप्पत्तो. तत्थ कदा वुत्ताति? पठममहासङ्गीतिकाले वुत्ता. पठममहासङ्गीति नामेसा सङ्गीतिक्खन्धे (चूळव. ४३७) वुत्तनयेनेव वेदितब्बा. कत्थ केन वुत्ताति? भगवति किर परिनिब्बुते राजगहनगरे वेभारपब्बतपस्से सत्तपण्णिगुहाद्वारे विजितसब्बसत्तुना अजातसत्तुना मगधमहाराजेन धम्मसङ्गायनत्थं कारिते परिपुण्णचन्दमण्डलसङ्कासे दट्ठब्बसारमण्डे मण्डपे धम्मासनगतेनायस्मता आनन्दत्थेरेन ‘‘ब्रह्मा च लोकाधिपती’’ति अयं गाथा वुत्ताति वेदितब्बा. अयमेत्थ गाथासम्बन्धो.
एत्तावता –
‘‘कदायं धम्मदेसनत्थं, अज्झिट्ठो ब्रह्मुना जिनो;
कदा कत्थ च केनायं, गाथा हि समुदीरिता’’ति. –
अयम्पि गाथा वुत्तत्था होति. एवं इमिना सम्बन्धेन वुत्ताय पनस्सा अनुत्तानपदवण्णनं करिस्साम.
तत्थ ब्रह्माति ब्रूहितो तेहि तेहि गुणविसेसेहीति ब्रह्मा. अयं पन ब्रह्म-सद्दो महाब्रह्मब्राह्मणतथागतमातापितुसेट्ठादीसु दिस्सति. तथा हि ‘‘द्विसहस्सो ब्रह्मा’’तिआदीसु (म. नि. ३.१६६) महाब्रह्माति अधिप्पेतो.
‘‘तमोनुदो बुद्धो समन्तचक्खु, लोकन्तगू सब्बभवातिवत्तो;
अनासवो सब्बदुक्खप्पहीनो, सच्चव्हयो ब्रह्मे उपासितो मे’’ति. (सु. नि. ११३९) –
एत्थ ब्राह्मणो. ‘‘ब्रह्माति खो, भिक्खवे, तथागतस्सेतं अधिवचन’’न्ति एत्थ तथागतो. ‘‘ब्रह्माति मातापितरो पुब्बाचरियाति वुच्चरे’’ति (अ. नि. ३.३१; ४.६३; इतिवु. १०६; जा. २.२०.१८१) एत्थ मातापितरो. ‘‘ब्रह्मचक्कं पवत्तेती’’ति (म. नि. १.१४८; सं. नि. २.२१; अ. नि. ४.८; ५.११; पटि. म. २.४४) एत्थ सेट्ठो अधिप्पेतो. इध पन पठमज्झानं पणीतं भावेत्वा पठमज्झानभूमियं निब्बत्तो कप्पायुको महाब्रह्मा अधिप्पेतो (म. नि. अट्ठ. १.३). च-सद्दो सम्पिण्डनत्थो, ब्रह्मा च अञ्ञे च दससु चक्कवाळसहस्सेसु ब्रह्मानो चाति अत्थो, पदपूरणमत्तो वा. लोकाधिपतीति एत्थ लोकोति सङ्खारलोको सत्तलोको ओकासलोकोति तयो लोका. तेसु इध सत्तलोको अधिप्पेतो. तस्स इस्सरो अधिपतीति लोकाधिपति, लोकेकदेसस्सापि अधिपति लोकाधिपतीति वुच्चति देवाधिपति नराधिपति विय.
सहम्पतीति सो किर कस्सपस्स भगवतो सासने सहको नाम थेरो पठमज्झानं निब्बत्तेत्वा अपरिहीनज्झानो जीवितपरियोसाने पठमज्झानभूमियं कप्पायुकमहाब्रह्मा हुत्वा निब्बत्तो, तत्र पन नं ‘‘सहम्पति ब्रह्मा’’ति सञ्जानन्ति. ‘‘सहकपती’’ति वत्तब्बे अनुस्सरागमं कत्वा रुळ्हीवसेन ‘‘सहम्पती’’ति वदन्ति. कतञ्जलीति कतञ्जलिको, अञ्जलिपुटं सिरसि कत्वाति अत्थो. अनधिवरन्ति अच्चन्तवरो अधिवरो नास्स अत्थीति अनधिवरो, न ततो अधिको वरो अत्थीति वा अनधिवरो, अनुत्तरोति अत्थो, तं अनधिवरं. अयाचथाति अयाचित्थ अज्झेसि.
इदानि यस्सत्थाय सो भगवन्तं अयाचि, तमत्थं दस्सेतुं ‘‘सन्तीध सत्ता’’तिआदि वुत्तं. तत्थ सन्तीति संविज्जन्ति उपलब्भन्ति, बुद्धचक्खुस्स आपाथं आगच्छन्ता अत्थीति अत्थो. इधाति अयं देसापदेसे निपातो. स्वायं कत्थचि सासनं उपादाय वुच्चति. यथाह – ‘‘इधेव, भिक्खवे, समणो, इध दुतियो समणो, इध ततियो समणो, इध चतुत्थो समणो, सुञ्ञा परप्पवादा समणेभि अञ्ञेही’’ति (म. नि. १.१३९; दी. नि. २.२१४; अ. नि. ४.२४१). कत्थचि ओकासं, यथाह –
‘‘इधेव तिट्ठमानस्स, देवभूतस्स मे सतो;
पुनरायु च मे लद्धो, एवं जानाहि मारिसा’’ति. (दी. नि. २.३६९) –
कत्थचि पदपूरणमत्तमेव होति. यथाह – ‘‘इधाहं, भिक्खवे, भुत्तावी अस्सं पवारितो’’ति (म. नि. १.३०). कत्थचि लोकं उपादाय, यथाह – ‘‘इध तथागतो लोके उप्पज्जति बहुजनहिताय बहुजनसुखाया’’ति (अ. नि. १.१७०). इधापि लोकमेव उपादाय वुत्तोति वेदितब्बो. तस्मा इमस्मिं सत्तलोकेति अत्थो. सत्ताति रूपादीसु खन्धेसु छन्दरागेन सत्ता विसत्ता आसत्ता लग्गा लगिताति सत्ता, सत्ताति पाणिनो वुच्चन्ति. रुळ्हीसद्देन पन वीतरागेसुपि अयं वोहारो वत्ततियेव.
अप्परजक्खजातिकाति पञ्ञामये अक्खिम्हि अप्पं परित्तं रागदोसमोहरजं एतेसं एवंसभावा च तेति अप्परजक्खजातिका, अप्पं रागादिरजमेव वा येसं ते अप्परजक्खा, ते अप्परजक्खसभावा अप्परजक्खजातिकाति एवमेत्थ अत्थो दट्ठब्बो. तेसं अप्परजक्खजातिकानं. ‘‘सत्तान’’न्ति विभत्तिविपरिणामं कत्वा – ‘‘देसेहि धम्म’’न्ति इमिना सम्बन्धं कत्वा अत्थो दट्ठब्बो. देसेहीति आयाचनवचनमेतं, देसेहि कथेहि उपदिसाति अत्थो. धम्मन्ति एत्थ अयं धम्म-सद्दो परियत्तिसमाधिपञ्ञापकतिसभावसुञ्ञतापुञ्ञआपत्तिञेय्यचतुसच्चधम्मादीसु दिस्सति. तथा हि – ‘‘इध भिक्खु धम्मं परियापुणाति सुत्तं गेय्यं वेय्याकरणं…पे… वेदल्ल’’न्तिआदीसु (म. नि. १.२३९; अ. नि. ४.१०२) परियत्तियं दिस्सति. ‘‘एवंधम्मा ते भगवन्तो अहेसु’’न्तिआदीसु समाधिम्हि.
‘‘यस्सेते चतुरो धम्मा, वानरिन्द यथा तव;
सच्चं धम्मो धिति चागो, दिट्ठं सो अतिवत्तती’’ति. –
आदीसु (जा. १.२.१४७) पञ्ञाय. ‘‘जातिधम्मा जराधम्मा, अथो मरणधम्मिनो’’तिआदीसु (अ. नि. ३.३९) पकतियं. ‘‘कुसला धम्मा, अकुसला धम्मा, अब्याकता धम्मा’’तिआदीसु (ध. स. तिकमातिका) सभावे. ‘‘तस्मिं खो पन समये धम्मा होन्ति खन्धा होन्ती’’तिआदीसु (ध. स. १२१) सुञ्ञतायं. ‘‘धम्मो सुचिण्णो सुखमावहाती’’तिआदीसु (सु. नि. १८४; थेरगा. ३०३; जा. १.१०.१०२; १.१५.३८५) पुञ्ञे. ‘‘द्वे अनियता धम्मा’’तिआदीसु आपत्तियं. ‘‘सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथं आगच्छन्ती’’तिआदीसु (महानि. १५६; चूळनि. मोघराजमाणवपुच्छानिद्देस ८५) ञेय्ये. ‘‘दिट्ठधम्मो पत्तधम्मो विदितधम्मो’’तिआदीसु (दी. नि. १.२९९; महाव. २७, ५७) चतुसच्चधम्मे. इधापि चतुसच्चधम्मे दट्ठब्बो (म. नि. अट्ठ. १.सुत्तनिक्खेपवण्णना; ध. स. अट्ठ. चित्तुप्पादकण्ड १). अनुकम्पाति अनुकम्पं अनुद्दयं करोहि. इमन्ति पजं निद्दिसन्तो आह. पजन्ति पजातत्ता पजा, तं पजं, सत्तनिकायं संसारदुक्खतो मोचेहीति अधिप्पायो. केचि पन –
‘‘भगवाति लोकाधिपती नरुत्तमो,
कतञ्जली ब्रह्मगणेहि याचितो’’ति. –
पठन्ति. एत्तावता सब्बसो अयं गाथा वुत्तत्था होति.
अथ भगवतो तं ब्रह्मुनो सहम्पतिस्स आयाचनवचनं सुत्वा अपरिमितसमयसमुदितकरुणाबलस्स दसबलस्स परहितकरणनिपुणमतिचारस्स सब्बसत्तेसु ओकासकरणमत्तेन महाकरुणा उदपादि. तं पन भगवतो करुणुप्पत्तिं दस्सेन्तेहि सङ्गीतिकाले सङ्गीतिकारकेहि –
२. ‘‘सम्पन्नविज्जाचरणस्स तादिनो, जुतिन्धरस्सन्तिमदेहधारिनो;
तथागतस्सप्पटिपुग्गलस्स, उप्पज्जि कारुञ्ञता सब्बसत्ते’’ति. –
अयं गाथा ठपिता.
तत्थ सम्पन्नविज्जाचरणस्साति सम्पन्नं नाम तिविधं परिपुण्णसमङ्गिमधुरवसेन. तत्थ –
‘‘सम्पन्नं सालिकेदारं, सुवा भुञ्जन्ति कोसिय;
पटिवेदेमि ते ब्रह्मे, न नं वारेतुमुस्सहे’’ति. (जा. १.१४.१) –
इदं परिपुण्णसम्पन्नं नाम. ‘‘इमिना पातिमोक्खसंवरेन उपेतो होति समुपेतो उपगतो समुपगतो सम्पन्नो समन्नागतो’’ति (विभ. ५११) इदं समङ्गिसम्पन्नं नाम. ‘‘इमिस्सा, भन्ते, महापथविया हेट्ठिमतलं सम्पन्नं, सेय्यथापि खुद्दमधुं अनीलकं, एवमस्साद’’न्ति (पारा. १८) इदं मधुरसम्पन्नं नाम. इध परिपुण्णसम्पन्नम्पि समङ्गिसम्पन्नम्पि युज्जति (म. नि. अट्ठ. १.६४). विज्जाति पटिपक्खधम्मे विज्झनट्ठेन विदितकरणट्ठेन विन्दितब्बट्ठेन च विज्जा. ता पन तिस्सोपि विज्जा अट्ठपि विज्जा. तिस्सो विज्जा भयभेरवसुत्ते (म. नि. १.५० आदयो) आगतनयेनेव वेदितब्बा, अट्ठ अम्बट्ठसुत्ते (दी. नि. १.२७८ आदयो). तत्र हि विपस्सनाञाणेन मनोमयिद्धिया च सह छ अभिञ्ञा परिग्गहेत्वा अट्ठ विज्जा वुत्ता. चरणन्ति सीलसंवरो इन्द्रियेसु गुत्तद्वारता भोजने मत्तञ्ञुता जागरियानुयोगो सद्धा हिरी ओत्तप्पं बाहुसच्चं आरद्धवीरियता उपट्ठितस्सतिता पञ्ञासम्पन्नता चत्तारि रूपावचरज्झानानीति इमे पन्नरस धम्मा वेदितब्बा. इमेयेव हि पन्नरस धम्मा यस्मा एतेहि चरति अरियसावको गच्छति अमतं दिसं, तस्मा ‘‘चरण’’न्ति वुत्ता. यथाह – ‘‘इध, महानाम, अरियसावको सीलवा होती’’ति (म. नि. २.२४) सब्बं मज्झिमपण्णासके वुत्तनयेनेव वेदितब्बं. विज्जा च चरणञ्च विज्जाचरणानि, सम्पन्नानि परिपुण्णानि विज्जाचरणानि यस्स सोयं सम्पन्नविज्जाचरणो, विज्जाचरणेहि सम्पन्नो समङ्गीभूतो, समन्नागतोति वा सम्पन्नविज्जाचरणो. उभयथापि अत्थो युज्जतेव, तस्स सम्पन्नविज्जाचरणस्स (पारा. अट्ठ. १.१ वेरञ्जकण्डवण्णना).
तादिनोति ‘‘इट्ठेपि तादी अनिट्ठेपि तादी’’तिआदिना नयेन महानिद्देसे (महानि. ३८, १९२) आगततादिलक्खणेन तादिनो, इट्ठानिट्ठादीसु अविकारस्स तादिसस्साति अत्थो. जुतिन्धरस्साति जुतिमतो, युगन्धरे सरदसमये समुदितदिवसकरातिरेकतरसस्सिरिकसरीरजुतिविसरधरस्साति अत्थो. ‘‘पञ्ञापज्जोतधरस्सा’’ति वा वत्तुं वट्टति. वुत्तञ्हेतं –
‘‘चत्तारो लोके पज्जोता, पञ्चमेत्थ न विज्जति;
दिवा तपति आदिच्चो, रत्तिमाभाति चन्दिमा.
‘‘अथ अग्गि दिवारत्तिं, तत्थ तत्थ पभासति;
सम्बुद्धो तपतं सेट्ठो, एसा आभा अनुत्तरा’’ति. (सं. नि. १.२६, ८५);
तस्मा उभयथापि सरीरपञ्ञाजुतिविसरधरस्साति अत्थो. अन्तिमदेहधारिनोति सब्बपच्छिमसरीरधारिनो, अपुनब्भवस्साति अत्थो.
तथागतस्साति एत्थ अट्ठहि कारणेहि भगवा ‘‘तथागतो’’ति वुच्चति. कतमेहि अट्ठहि? तथा आगतोति तथागतो, तथा गतोति तथागतो, तथलक्खणं आगतोति तथागतो, तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो, तथदस्सिताय तथागतो, तथवादिताय तथागतो, तथाकारिताय तथागतो, अभिभवनट्ठेन तथागतोति.
कथं भगवा तथा आगतोति तथागतो? यथा येन अभिनीहारेन दानपारमिं पूरेत्वा सीलनेक्खम्मपञ्ञावीरियखन्तिसच्चअधिट्ठानमेत्तुपेक्खापारमिं पूरेत्वा इमा दस पारमियो दस उपपारमियो दस परमत्थपारमियोति समत्तिंस पारमियो पूरेत्वा अङ्गपरिच्चागं जीवितपरिच्चागं धनरज्जपुत्तदारपरिच्चागन्ति इमे पञ्च महापरिच्चागे परिच्चजित्वा यथा विपस्सिआदयो सम्मासम्बुद्धा आगता, तथा अम्हाकम्पि भगवा आगतोति तथागतो. यथाह –
‘‘यथेव लोकम्हि विपस्सिआदयो, सब्बञ्ञुभावं मुनयो इधागता;
तथा अयं सक्यमुनीपि आगतो, तथागतो वुच्चति तेन चक्खुमा’’ति.
कथं तथा गतोति तथागतो? यथा सम्पतिजाता विपस्सिआदयो समेहि पादेहि पथवियं पतिट्ठाय उत्तराभिमुखा सत्तपदवीतिहारेन गता, तथा अम्हाकम्पि भगवा गतोति तथागतो. यथाह –
‘‘मुहुत्तजातोव गवम्पती यथा, समेहि पादेहि फुसी वसुन्धरं;
सो विक्कमी सत्तपदानि गोतमो, सेतञ्च छत्तं अनुधारयुं मरू.
‘‘गन्त्वान सो सत्तपदानि गोतमो, दिसा विलोकेसि समा समन्ततो;
अट्ठङ्गुपेतं गिरमब्भुदीरयी, सीहो यथा पब्बतमुद्धनिट्ठितो’’ति.
कथं तथलक्खणं आगतोति तथागतो? सब्बेसं रूपारूपधम्मानं सलक्खणं सामञ्ञलक्खणञ्च तथं अवितथं ञाणगतिया आगतो अविरज्झित्वा पत्तो अनुबुद्धोति तथागतो.
‘‘सब्बेसं पन धम्मानं, सकसामञ्ञलक्खणं;
तथमेवागतो यस्मा, तस्मा सत्था तथागतो’’ति.
कथं तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो? तथधम्मा नाम चत्तारि अरियसच्चानि. यथाह – ‘‘चत्तारिमानि, भिक्खवे, तथानि अवितथानि अनञ्ञथानि. कतमानि चत्तारि? ‘इदं दुक्ख’न्ति, भिक्खवे, तथमेतं अवितथमेतं अनञ्ञथमेत’’न्ति (सं. नि. ५.१०९०) वित्थारो. तानि च भगवा अभिसम्बुद्धो, तस्मा तथानं अभिसम्बुद्धत्ता ‘‘तथागतो’’ति वुच्चति. अभिसम्बुद्धत्थो हि एत्थ गतसद्दो.
‘‘तथनामानि सच्चानि, अभिसम्बुज्झि नायको;
तस्मा तथानं सच्चानं, सम्बुद्धत्ता तथागतो’’.
कथं तथदस्सिताय तथागतो? भगवा हि अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं चक्खुसोतघाणजिव्हाकायमनोद्वारेसु आपाथं आगच्छन्तं रूपसद्दगन्धरसफोट्ठब्बधम्मारम्मणं तथागतो सब्बाकारतो जानाति पस्सतीति, एवं तथदस्सिताय तथागतो. अथ वा यं लोके तथं, तं लोकस्स तथेव दस्सेति. ततोपि भगवा तथागतो. एत्थ तथदस्सिअत्थे ‘‘तथागतो’’ति पदसम्भवो वेदितब्बो.
‘‘तथाकारेन यो धम्मे, जानाति अनुपस्सति;
तथदस्सीति सम्बुद्धो, तस्मा वुत्तो तथागतो’’.
कथं तथवादिताय तथागतो? यञ्च अभिसम्बोधिया परिनिब्बानस्स च अन्तरे पञ्चचत्तालीसवस्सपरिमाणकाले सुत्तादिनवङ्गसङ्गहितं भासितं लपितं तथागतेन, सब्बं तं एकतुलाय तुलितं विय तथमेव अवितथमेव होति. तेनेवाह –
‘‘यञ्च, चुन्द, रत्तिं तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झति, यञ्च रत्तिं अनुपादिसेसाय निब्बानधातुया परिनिब्बायति, यं एतस्मिं अन्तरे भासति लपति निद्दिसति, सब्बं तं तथेव होति, नो अञ्ञथा. तस्मा ‘तथागतो’ति वुच्चती’’ति.
एत्थ पन गदअत्थो हि गतसद्दो. एवं तथवादिताय तथागतो. आगदनं आगदो, वचनन्ति अत्थो. तथो अविपरीतो आगदो अस्साति तथागतो. द-कारस्स त-कारं कत्वा वुत्तो.
‘‘तथावादी जिनो यस्मा, तथधम्मप्पकासको;
तथामागदनञ्चस्स, तस्मा बुद्धो तथागतो’’.
कथं तथाकारिताय तथागतो? भगवा हि यं यं वाचं अभासि, तं तं एव कायेन करोति, वाचाय कायो अनुलोमेति, कायस्सपि वाचा. तेनेवाह –
‘‘यथा वादी, भिक्खवे, तथागतो तथा कारी, यथा कारी तथा वादी…पे… तस्मा ‘तथागतो’ति वुच्चती’’ति (अ. नि. ४.२३; चूळनि. पोसालमाणवपुच्छानिद्देस ८३).
यथा च वाचा गता, कायोपि तथा गतो, यथा कायो गतो, वाचापि तथा गता. एवं तथाकारिताय तथागतो.
‘‘यथा वाचा गता तस्स, तथा कायो गतो यतो;
तथावादिताय सम्बुद्धो, सत्था तस्मा तथागतो’’.
कथं अभिभवनट्ठेन तथागतो? उपरि भवग्गं हेट्ठा अवीचिं परियन्तं कत्वा तिरियं अपरिमाणासु लोकधातूसु सब्बसत्ते अभिभवति सीलेनपि समाधिनापि पञ्ञायपि विमुत्तियापि विमुत्तिञाणदस्सनेनपि, न तस्स तुला वा पमाणं वा अत्थि, अथ खो अतुलो अप्पमेय्यो अनुत्तरो. तेनेवाह –
‘‘सदेवके, भिक्खवे, लोके…पे… तथागतो अभिभू अनभिभूतो अञ्ञदत्थु दसो वसवत्ती, तस्मा ‘तथागतो’ति वुच्चती’’ति (अ. नि. १.२३; पोसालमाणवपुच्छानिद्देस ८३).
तत्रेवं पदसिद्धि वेदितब्बा – अगदो विय अगदो. को पनेस? देसनाविलासो चेव पुञ्ञुस्सयो च. तेन हेस महानुभावो भिसक्को दिब्बागदेन सप्पे विय सब्बपरप्पवादिनो सदेवकञ्च लोकं अभिभवति, इति सब्बलोकाभिभवनतो अविपरीतो देसनाविलासो चेव पुञ्ञुस्सयो च अगदो अस्साति द-कारस्स त-कारं कत्वा ‘‘तथागतो’’ति वेदितब्बो. एवं अभिभवनट्ठेन तथागतो.
‘‘तथो अविपरीतो च, अगदो यस्स सत्थुनो;
वसवत्तीति सो तेन, होति सत्था तथागतो’’.
अप्पटिपुग्गलस्साति पटिपुग्गलविरहितस्स, अञ्ञो कोचि ‘‘अहं बुद्धो’’ति एवं पटिञ्ञं दातुं समत्थो नामस्स पुग्गलो, नत्थीति अप्पटिपुग्गलो, तस्स अप्पटिपुग्गलस्स. उप्पज्जीति उप्पन्नो उदपादि. कारुञ्ञताति करुणाय भावो कारुञ्ञता. सब्बसत्तेति निरवसेससत्तपरियादानवचनं, सकले सत्तनिकायेति अत्थो. एत्तावता अयम्पि गाथा वुत्तत्था होति.
अथ भगवा ब्रह्मुना धम्मदेसनत्थाय आयाचितो सत्तेसु कारुञ्ञतं उप्पादेत्वा धम्मं देसेतुकामो महाब्रह्मानं गाथाय अज्झभासि –
‘‘अपारुता तेसं अमतस्स द्वारा, ये सोतवन्तो पमुञ्चन्तु सद्धं;
विहिंससञ्ञी पगुणं न भासिं, धम्मं पणीतं मनुजेसु ब्रह्मे’’ति. (म. नि. १.२८३; दी. नि. २.७१; सं. नि. १.१७२; महाव. ९);
अथ खो ब्रह्मा सहम्पति ‘‘कतावकासो खोम्हि भगवता धम्मदेसनाया’’ति ञत्वा दसनखसमोधानसमुज्जलं अञ्जलिं सिरसि कत्वा भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा ब्रह्मगणपरिवुतो पक्कामि. अथ सत्था तस्स ब्रह्मुनो पटिञ्ञं दत्वा – ‘‘कस्स नु खो अहं पठमं धम्मं देसेय्य’’न्ति (म. नि. १.२८३; महाव. १०) चिन्तेन्तो – ‘‘आळारो पण्डितो सो इमं धम्मं खिप्पं आजानिस्सती’’ति चित्तं उप्पादेत्वा पुन ओलोकेन्तो तस्स सत्ताहं कालङ्कतभावं ञत्वा उदकस्स च अभिदोसकालङ्कतभावं ञत्वा पुन – ‘‘कहं नु खो एतरहि पञ्चवग्गिया भिक्खू विहरन्ती’’ति पञ्चवग्गिये आवज्जेन्तो ‘‘बाराणसियं इसिपतने मिगदाये’’ति ञत्वा आसाळ्हियं पभाताय रत्तिया कालस्सेव पत्तचीवरमादाय अट्ठारसयोजनिकं मग्गं पटिपन्नो अन्तरामग्गे उपकं नाम आजीवकं दिस्वा तस्स अत्तनो बुद्धभावमाविकत्वा तंदिवसमेव सायन्हसमये इसिपतनमगमासि. तत्थ पञ्चवग्गियानं अत्तनो बुद्धभावं पकासेत्वा पञ्ञत्तवरबुद्धासनगतो पञ्चवग्गिये भिक्खू आमन्तेत्वा धम्मचक्कप्पवत्तनसुत्तन्तं (सं. नि. ५.१०८१; महाव. १३ आदयो; पटि. म. २.३०) देसेसि.
तेसु अञ्ञासिकोण्डञ्ञत्थेरो देसनानुसारेन ञाणं पेसेत्वा सुत्तपरियोसाने अट्ठारसहि ब्रह्मकोटीहि सद्धिं सोतापत्तिफले पतिट्ठासि. सत्था तत्थेव वस्सं उपगन्त्वा पुनदिवसे वप्पत्थेरं सोतापत्तिफले पतिट्ठापेसि. एतेनेव उपायेन सब्बे ते सोतापत्तिफले पतिट्ठापेत्वा पुन पञ्चमियं पक्खस्स पञ्चपि ते थेरे सन्निपातेत्वा अनत्तलक्खणसुत्तन्तं (सं. नि. ३.५९; महाव. २० आदयो) देसेसि, देसनापरियोसाने पञ्चपि थेरा अरहत्ते पतिट्ठहिंसु.
अथ सत्था तत्थेव यसस्स कुलपुत्तस्स उपनिस्सयं दिस्वा गेहं पहाय निक्खन्तं दिस्वा – ‘‘एहि यसा’’ति (महाव. २६) पक्कोसित्वा तस्मिञ्ञेव रत्तिभागे सोतापत्तिफले पतिट्ठापेत्वा पुनदिवसे अरहत्ते च पतिट्ठापेत्वा अपरेपि तस्स सहायके चतुपण्णासजने एहिभिक्खुपब्बज्जाय पब्बाजेत्वा अरहत्ते पतिट्ठापेसि. एवं लोके एकसट्ठिया अरहन्तेसु जातेसु सत्था वुट्ठवस्सो पवारेत्वा भिक्खू आमन्तेत्वा एतदवोच –
‘‘परत्थं चत्तनो अत्थं, करोन्ता पथविं इमं;
ब्याहरन्ता मनुस्सानं, धम्मं चरथ भिक्खवो.
‘‘विहरथ विवित्तेसु, पब्बतेसु वनेसु च;
पकासयन्ता सद्धम्मं, लोकस्स सततं मम.
‘‘करोन्ता धम्मदूतेय्यं, विख्यापयथ भिक्खवो;
सन्ति अत्थाय सत्तानं, सुब्बता वचनं मम.
‘‘सब्बं पिदहथ द्वारं, अपायानमनासवा;
सग्गमोक्खस्स मग्गस्स, द्वारं विवरथासमा.
‘‘देसनापटिपत्तीहि, करुणादिगुणालया;
बुद्धिं सद्धञ्च लोकस्स, अभिवड्ढेथ सब्बसो.
‘‘गिहीनमुपकरोन्तानं, निच्चमामिसदानतो;
करोथ धम्मदानेन, तेसं पच्चूपकारकं.
‘‘समुस्सयथ सद्धम्मं, देसयन्ता इसिद्धजं;
कतकत्तब्बकम्मन्ता, परत्थं पटिपज्जथा’’ति.
एवञ्च पन वत्वा भगवा ते भिक्खू दिसासु विस्सज्जेत्वा सयं उरुवेलं गच्छन्तो अन्तरामग्गे कप्पासिकवनसण्डे तिंस भद्दवग्गियकुमारे विनेसि. तेसु यो सब्बपच्छिमको, सो सोतापन्नो, सब्बसेट्ठो अनागामी, एकोपि अरहा वा पुथुज्जनो वा नाहोसि. तेपि सब्बे एहिभिक्खुपब्बज्जाय पब्बाजेत्वा दिसासु पेसेत्वा सयं उरुवेलं गन्त्वा अड्ढुड्ढानि पाटिहारियसहस्सानि दस्सेत्वा उरुवेलकस्सपादयो सहस्सजटिलपरिवारे तेभातिकजटिले दमेत्वा एहिभिक्खुभावेन पब्बाजेत्वा गयासीसे निसीदापेत्वा आदित्तपरियायदेसनाय (सं. नि. ४.२८; महाव. ५४) अरहत्ते पतिट्ठापेत्वा तेन अरहन्तसहस्सेन भगवा परिवुतो ‘‘बिम्बिसारस्स रञ्ञो पटिञ्ञं मोचेस्सामी’’ति राजगहनगरूपचारे लट्ठिवनुय्यानं नाम अगमासि. ततो उय्यानपालको रञ्ञो आरोचेसि. राजा – ‘‘सत्था आगतो’’ति सुत्वा द्वादसनहुतेहि ब्राह्मणगहपतिकेहि परिवुतो दसबलं घनविवरगतमिव दिवसकरं वनविवरगतं मुनिवरदिवसकरं उपसङ्कमित्वा चक्कालङ्कततलेसु जलजामलाविकलकमलकोमलेसु दसबलस्स पादेसु मकुटमणिजुतिविसरविज्जोतिना सिरसा निपतित्वा एकमन्तं निसीदि सद्धिं परिसाय.
अथ खो तेसं ब्राह्मणगहपतिकानं एतदहोसि – ‘‘किं नु खो महासमणो उरुवेलकस्सपे ब्रह्मचरियं चरति, उदाहु उरुवेलकस्सपो महासमणे’’ति? अथ खो भगवा तेसं चेतोपरिवितक्कमञ्ञाय थेरं गाथाय अज्झभासि –
‘‘किमेव दिस्वा उरुवेलवासि, पहासि अग्गिं किसकोवदानो;
पुच्छामि तं कस्सप एतमत्थं, कथं पहीनं तव अग्गिहुत्त’’न्ति. (महाव. ५५);
थेरो भगवतो अधिप्पायं विदित्वा –
‘‘रूपे च सद्दे च अथो रसे च, कामित्थियो चाभिवदन्ति यञ्ञा;
एतं मलन्ती उपधीसु ञत्वा, तस्मा न यिट्ठे न हुते अरञ्जि’’न्ति. (महाव. ५५) –
इमं गाथं वत्वा अत्तनो सावकभावप्पकासनत्थं तथागतस्स पादेसु सिरसा निपतित्वा – ‘‘सत्था मे, भन्ते, भगवा, सावकोहमस्मी’’ति वत्वा एकतालद्विताल…पे… सत्ततालप्पमाणं वेहासं सत्तक्खत्तुं अब्भुग्गन्त्वा पाटिहारियं कत्वा आकासतो ओरुय्ह भगवन्तं वन्दित्वा एकमन्तं निसीदि.
अथ खो महाजनो तस्स तं पाटिहारियं दिस्वा – ‘‘अहो महानुभावा बुद्धा नाम, एवं थामगतदिट्ठिको अत्तानं ‘अरहा अह’न्ति मञ्ञमानो उरुवेलकस्सपोपि दिट्ठिजालं भिन्दित्वा तथागतेन दमितो’’ति दसबलस्स गुणकथं कथेसि. तं सुत्वा सत्था – ‘‘नाहमिदानियेव इमं उरुवेलकस्सपं दमेमि, अतीतेपि एस मया दमितोयेवा’’ति आह. अथ खो सो महाजनो उट्ठायासना भगवन्तं वन्दित्वा सिरसि अञ्जलिं पग्गहेत्वा एवमाह – ‘‘भन्ते, इदानि अम्हेहि एस दमितो दिट्ठो, कथं पनेस अतीते भगवता दमितो’’ति. ततो सत्था तेन महाजनेन याचितो भवन्तरेन पटिच्छन्नं महानारदकस्सपजातकं (जा. २.२२.११५३) कथेत्वा चत्तारि अरियसच्चानि पकासेसि. ततो सत्थु धम्मकथं सुत्वा राजा बिम्बिसारो एकादसनहुतेहि सद्धिं सोतापत्तिफले पतिट्ठासि, एकनहुतं उपासकत्तं पटिवेदेसि. राजा सरणं गन्त्वा स्वातनाय भगवन्तं सद्धिं भिक्खुसङ्घेन निमन्तेत्वा भगवन्तं तिक्खत्तुं पदक्खिणं कत्वा वन्दित्वा पक्कामि.
पुनदिवसे भगवा भिक्खुसहस्सपरिवुतो मरुगणपरिवुतो विय दससतनयनो देवराजा, ब्रह्मगणपरिवुतो विय महाब्रह्मा राजगहं पाविसि. राजा बुद्धप्पमुखस्स भिक्खुसङ्घस्स दानं दत्वा भोजनपरियोसाने भगवन्तं एतदवोच – ‘‘अहं, भन्ते, तीणि रतनानि विना वसितुं न सक्खिस्सामि, वेलाय वा अवेलाय वा भगवतो सन्तिकं आगमिस्सामि, लट्ठिवनं नाम अतिदूरे, इदं पन अम्हाकं वेळुवनं नाम उय्यानं पविवेककामानं नातिदूरं नच्चासन्नं गमनागमनसम्पन्नं निज्जनसम्बाधं पविवेकसुखं छायूदकसम्पन्नं सीतलसिलातलसमलङ्कतं परमरमणीयभूमिभागं सुरभिकुसुमतरुवरनिरन्तरं रमणीयपासादहम्मियविमानविहारड्ढुयोगमण्डपादिपटिमण्डितं. इदं मे, भन्ते, भगवा पटिग्गण्हातु नवतपनङ्गारसङ्कासेन सुवण्णभिङ्गारेन सुरभिकुसुमवासितं मणिवण्णउदकं गहेत्वा वेळुवनारामं परिच्चजन्तो दसबलस्स हत्थे उदकं पातेसि. तस्मिं आरामपटिग्गहणे ‘‘बुद्धसासनस्स मूलानि ओतिण्णानी’’ति पीतिवसं गता नच्चन्ती विय अयं महापथवी कम्पि. जम्बुदीपे पन ठपेत्वा वेळुवनमहाविहारं अञ्ञं पथविं कम्पेत्वा गहितसेनासनं नाम नत्थि. अथ सत्था वेळुवनारामं पटिग्गहेत्वा रञ्ञो विहारदानानुमोदनमकासि –
‘‘आवासदानस्स पनानिसंसं, को नाम वत्तुं, पुरिसो समत्थो;
अञ्ञत्र बुद्धा पन लोकनाथा, युत्तो मुखानं नहुतेन चापि.
‘‘आयुञ्च वण्णञ्च सुखं बलञ्च, वरं पसत्थं पटिभानमेव;
ददाति नामाति पवुच्चते सो, यो देति सङ्घस्स नरो विहारं.
‘‘दाता निवासस्स निवारणस्स, सीतादिनो जीवितुपद्दवस्स;
पालेति आयुं पन तस्स यस्मा, आयुप्पदो होति तमाहु सन्तो.
‘‘अच्चुण्हसीते वसतो निवासे, बलञ्च वण्णो पटिभा न होति;
तस्मा हि सो देति विहारदाता, बलञ्च वण्णं पटिभानमेव.
‘‘दुक्खस्स सीतुण्हसरीसपा च, वातातपादिप्पभवस्स लोके;
निवारणा नेकविधस्स निच्चं, सुखप्पदो होति विहारदाता.
‘‘सीतुण्हवातातपडंसवुट्ठि, सरीसपावाळमिगादिदुक्खं;
यस्मा निवारेति विहारदाता, तस्मा सुखं विन्दति सो परत्थ.
‘‘पसन्नचित्तो भवभोगहेतुं, मनोभिरामं मुदितो विहारं;
यो देति सीलादिगुणोदितानं, सब्बं ददो नाम पवुच्चते सो.
‘‘पहाय मच्छेरमलं सलोभं, गुणालयानं निलयं ददाति;
खित्तोव सो तत्थ परेहि सग्गे, यथाभतं जायति वीतसोको.