२. सुमेधपत्थनाकथावण्णना

इदानि –

१-२. ‘‘कप्पे च सतसहस्से, चतुरो च असङ्खिये;

अमरं नाम नगरं, दस्सनेय्यं मनोरम’’न्ति. –

आदिनयप्पवत्ताय बुद्धवंसवण्णनाय ओकासो अनुप्पत्तो. सा पनेसा बुद्धवंसवण्णना यस्मा सुत्तनिक्खेपं विचारेत्वा वुच्चमाना पाकटा होति, तस्मा सुत्तनिक्खेपविचारणा ताव वेदितब्बा. चत्तारो हि सुत्तनिक्खेपा अत्तज्झासयो परज्झासयो पुच्छावसिको अट्ठुप्पत्तिकोति. तत्थ यानि सुत्तानि भगवा परेहि अनज्झिट्ठो केवलं अत्तनो अज्झासयेन कथेसि. सेय्यथिदं – आकङ्खेय्यसुत्तं (म. नि. १.६४ आदयो) वत्थसुत्तन्ति (म. नि. १.७० आदयो) एवमादीनि, तेसं अत्तज्झासयो निक्खेपो.

यानि वा पन ‘‘परिपक्का खो राहुलस्स विमुत्तिपरिपाचनीया धम्मा, यंनूनाहं राहुलं उत्तरिं आसवानं खये विनेय्य’’न्ति (सं. नि. ४.१२१) एवं परेसं अज्झासयं खन्तिं मनं बुज्झनकभावञ्च ओलोकेत्वा परज्झासयवसेन कथितानि. सेय्यथिदं – राहुलोवादसुत्तंधम्मचक्कप्पवत्तनसुत्तन्ति (सं. नि. ५.१०८१; महाव. १३ आदयो; पटि. म. २.३०) एवमादीनि, तेसं परज्झासयो निक्खेपो.

भगवन्तं उपसङ्कमित्वा ते ते देवमनुस्सा पञ्हं पुच्छन्ति. एवं पुट्ठेन पन भगवता यानि कथितानि देवतासंयुत्त (सं. नि. १.१ आदयो) बोज्झङ्गसंयुत्तादीनि (सं. नि. ५.१८२ आदयो) तेसं पुच्छावसिको निक्खेपो.

यानि वा पन उप्पन्नं कारणं पटिच्च देसितानि धम्मदायाद- (म. नि. १.२९ आदयो) पुत्तमंसूपमादीनि (सं. नि. २.६३), तेसं अट्ठुप्पत्तिको निक्खेपो. एवमेतेसु चतूसु सुत्तनिक्खेपेसु इमस्स बुद्धवंसस्स पुच्छावसिको निक्खेपो. पुच्छावसेन हि भगवता अयं निक्खित्तो. कस्स पुच्छावसेन? आयस्मतो सारिपुत्तत्थेरस्स. वुत्तञ्हेतं अस्मिं निदानस्मिं एव –

‘‘सारिपुत्तो महापञ्ञो, समाधिज्झानकोविदो;

पञ्ञाय पारमिप्पत्तो, पुच्छति लोकनायकं;

कीदिसो ते महावीर, अभिनीहारो नरुत्तमा’’ति. (बु. वं. १.७४-७५) –

आदि. तेनेसा बुद्धवंसदेसना पुच्छावसिकाति वेदितब्बा.

तत्थ कप्पे च सतसहस्सेति एत्थ कप्प-सद्दो पनायं अभिसद्दहनवोहारकालपञ्ञत्तिछेदनविकप्पनलेससमन्तभावआयुकप्पमहाकप्पादीसु दिस्सति. तथा हि ‘‘ओकप्पनीयमेतं भोतो गोतमस्स. यथा तं अरहतो सम्मासम्बुद्धस्सा’’तिआदीसु (म. नि. १.३८७) अभिसद्दहने दिस्सति. ‘‘अनुजानामि, भिक्खवे, पञ्चहि समणकप्पेहि फलं परिभुञ्जितु’’न्ति एवमादीसु (चूळव. २५०) वोहारे. ‘‘येन सुदं निच्चकप्पं विहरामी’’तिआदीसु (म. नि. १.३८७) काले. ‘‘इच्चायस्मा कप्पो’’ति (सु. नि. १०९८; चूळनि. कप्पमाणवपुच्छा ११७; कप्पमाणवपुच्छानिद्देस ६१) च, ‘‘निग्रोधकप्पो इति तस्स नामं, तया कतं भगवा ब्राह्मणस्सा’’ति च एवमादीसु (सु. नि. ३४६) पञ्ञत्तियं. ‘‘अलङ्कतो कप्पितकेसमस्सू’’ति एवमादीसु (जा. २.२२.१३६८) छेदने. ‘‘कप्पति द्वङ्गुलकप्पो’’तिआदीसु (चूळव. ४४६) विकप्पे. ‘‘अत्थि कप्पो निपज्जितु’’न्तिआदीसु (अ. नि. ८.८०) लेसे. ‘‘केवलकप्पं जेतवनं ओभासेत्वा’’तिआदीसु समन्तभावे. ‘‘तिट्ठतु, भन्ते, भगवा कप्पं, तिट्ठतु सुगतो कप्प’’न्ति (दी. नि. २.१७८; उदा. ५१) एत्थ आयुकप्पे. ‘‘कीव दीघो नु खो, भन्ते, कप्पो’’ति (सं. नि. २.१२८-१२९) एत्थ महाकप्पे. आदिसद्देन ‘‘सत्थुकप्पेन वत किर, भो, मयं सावकेन सद्धिं मन्तयमाना न जानिम्हा’’ति (म. नि. १.२६०) एत्थ पटिभागे. ‘‘कप्पो नट्ठो होति. कप्पकतोकासो जिण्णो होती’’ति (पाचि. ३७१) एत्थ विनयकप्पे. इध पन महाकप्पे दट्ठब्बो. तस्मा कप्पे च सतसहस्सेति महाकप्पानं सतसहस्सानन्ति अत्थो (दी. नि. अट्ठ. १.२९; ३.२७५; सं. नि. अट्ठ. १.१.१; अ. नि. अट्ठ. २.३.१२८; खु. पा. अट्ठ. ५.मङ्गलसुत्त, एवमिच्चादिपाठवण्णना; सु. नि. अट्ठ. २.मङ्गलसुत्तवण्णना; चरिया. अट्ठ. निदानकथा.१; चूळनि. अट्ठ. खग्गविसाणसुत्तनिद्देसवण्णना). चतुरो च असङ्खियेति ‘‘चतुन्नं असङ्ख्येय्यानं मत्थके’’ति वचनसेसो दट्ठब्बो. कप्पसतसहस्साधिकानं चतुन्नं असङ्ख्येय्यानं मत्थकेति अत्थो. अमरं नाम नगरन्ति ‘‘अमर’’न्ति च ‘‘अमरवती’’ति च लद्धनामं नगरं अहोसि. केचि पनेत्थ अञ्ञेनापि पकारेन वण्णयन्ति, किं तेहि, नाममत्तं पनेतं तस्स नगरस्स. दस्सनेय्यन्ति सुविभत्तविचित्र-चच्चरद्वार-चतुक्कसिङ्घाटिक-पाकार-परिक्खेपपासाद- हम्मिय-भवन-समलङ्कतत्ता दस्सनीयं. मनोरमन्ति समसुचिपरमरमणीयभूमिभागत्ता छायूदकसम्पन्नत्ता सुलभाहारत्ता सब्बोपकरणयुत्तत्ता च समिद्धत्ता देवमनुस्सादीनं मनो रमयतीति मनोरमं.

दसहि सद्देहि अविवित्तन्ति हत्थिसद्देन अस्ससद्देन रथसद्देन भेरिसद्देन सङ्खसद्देन मुदिङ्गसद्देन वीणासद्देन गीतसद्देन सम्मताळसद्देन ‘‘भुञ्जथ पिवथ खादथा’’ति दसमेन सद्देनाति; इमेहि दसहि सद्देहि अविवित्तं अहोसि, सब्बकालं अनुपमुस्सवसमज्जनाटका कीळन्तीति अत्थो. अन्नपानसमायुतन्ति अन्नेन चतुब्बिधेनाहारेन च पानेन च सुट्ठु आयुतं अन्नपानसमायुतं, इमिना सुभिक्खता दस्सिता, बहुअन्नपानसमायुतन्ति अत्थो.

इदानि ते दस सद्दे वत्थुतो दस्सनत्थं –

‘‘हत्थिसद्दं अस्ससद्दं, भेरिसङ्खरथानि च;

खादथ पिवथ चेव, अन्नपानेन घोसित’’न्ति. – वुत्तं;

तत्थ हत्थिसद्दन्ति हत्थीनं कोञ्चनादसद्देन, करणत्थे उपयोगवचनं दट्ठब्बं. एस नयो सेसपदेसुपि. भेरिसङ्खरथानि चाति भेरिसद्देन च सङ्खसद्देन च रथसद्देन चाति अत्थो. लिङ्गविपरियासेन वुत्तं, ‘खादथ पिवथा’ति एवमादिनयप्पवत्तेन अन्नपानपटिसंयुत्तेन घोसितं अभिनादितन्ति अत्थो. एत्थाह – तेसं पन सद्दानं एकदेसोव दस्सितो, न सकलोति? न एकदेसो सकलो दसविधो दस्सितोव. कथं? भेरिसद्देन मुदिङ्गसद्दो सङ्गहितो, सङ्खसद्देन वीणागीतसम्मताळसद्दा सङ्गहिताति दसेव दस्सिता.

एवं एकेन परियायेन नगरसम्पत्तिं वण्णेत्वा पुन तमेव दस्सेतुं –

३. ‘‘नगरं सब्बङ्गसम्पन्नं, सब्बकम्ममुपागतं, सत्तरतनसम्पन्नं, नानाजनसमाकुलं;

समिद्धं देवनगरंव, आवासं पुञ्ञकम्मिन’’न्ति. – वुत्तं;

तत्थ सब्बङ्गसम्पन्नन्ति पाकारगोपुरट्टालकादिसब्बनगरावयवसम्पन्नं, परिपुण्णसब्बवित्तूपकरणधनधञ्ञतिणकट्ठोदकन्ति वा अत्थो. सब्बकम्ममुपागतन्ति सब्बकम्मन्तेन उपगतं, समुपगतसब्बकम्मन्तन्ति अत्थो. सत्तरतनसम्पन्नन्ति परिपुण्णमुत्तादिसत्तरतनं, चक्कवत्तिनिवासभूमितो वा हत्थिरतनादीहि सत्तरतनेहि सम्पन्नं. नानाजनसमाकुलन्ति नानाविधदेसभासेहि जनेहि समाकुलं. समिद्धन्ति मनुस्सोपभोगसब्बोपकरणेहि समिद्धं फीतं. देवनगरं वाति देवनगरं विय आलकमन्दा विय अमरवती समिद्धन्ति वुत्तं होति. आवासं पुञ्ञकम्मिनन्ति आवसन्ति एत्थ पुञ्ञकम्मिनो जनाति आवासो. ‘‘आवासो’’ति वत्तब्बे ‘‘आवास’’न्ति लिङ्गभेदं कत्वा वुत्तन्ति वेदितब्बं. पञ्ञायति तेनाति पुञ्ञं, कुलरूपमहाभोगिस्सरियवसेन पञ्ञायतीति अत्थो. पुनातीति वा पुञ्ञं. सब्बकुसलमलरजापवाहकत्ता पुञ्ञं कम्मं येसं अत्थि ते पुञ्ञकम्मिनो, तेसं पुञ्ञकम्मिनं आवासभूतन्ति अत्थो.

तत्थ सुमेधो नाम ब्राह्मणो पटिवसति उभतो सुजातो मातितो च पितितो च, संसुद्धगहणिको याव सत्तमा कुलपरिवट्टा अक्खित्तो अनुपकुट्ठो जातिवादेन, अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो, सो तिण्णं वेदानं पारगू अहोसि सनिघण्डुकेटुभानं साक्खरप्पभेदानं इतिहासपञ्चमानं पदको वेय्याकरणो अनवयो लोकायतमहापुरिसलक्खणेसु. तस्स पन दहरकालेयेव मातापितरो कालमकंसु. अथस्स रासिवड्ढको अमच्चो आयपोत्थकं आहरित्वा सुवण्णरजतमणिमुत्तादिविविधरतनभरिते गब्भे विवरित्वा – ‘‘एत्थकं ते, कुमार, मातु सन्तकं, एत्थकं पितु सन्तकं, एत्थकं अय्यकपय्यकान’’न्ति याव सत्तमा कुलपरिवट्टा धनं आचिक्खित्वा – ‘‘एतं पटिपज्जाही’’ति निय्यातेसि. सो ‘‘साधू’’ति सम्पटिच्छित्वा पुञ्ञानि करोन्तो अगारं अज्झावसि. तेन वुत्तं –

४. ‘‘नगरे अमरवतिया, सुमेधो नाम ब्राह्मणो;

अनेककोटिसन्निचयो, पहूतधनधञ्ञवा.

५. ‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू;

लक्खणे इतिहासे च, सधम्मे पारमिं गतो’’ति.

तत्थ नगरे अमरवतियाति अमरवतीसङ्खाते नगरे. सुमेधो नामाति एत्थ ‘‘मेधा’’ति पञ्ञा वुच्चति. सा तस्स सुन्दरा पसत्थाति सुमेधोति पञ्ञायित्थ. ब्राह्मणोति ब्रह्मं अणति सिक्खतीति ब्राह्मणो, मन्ते सज्झायतीति अत्थो. अक्खरचिन्तका पन ‘‘ब्रह्मुनो अपच्चं ब्राह्मणो’’ति वदन्ति. अरिया पन बाहितपापत्ता ब्राह्मणाति. अनेककोटिसन्निचयोति कोटीनं सन्निचयो कोटिसन्निचयो, अनेको कोटिसन्निचयो यस्स सोयं अनेककोटिसन्निचयो, अनेककोटि धनसन्निचयोति अत्थो. पहूतधनधञ्ञवाति बहुलधनधञ्ञवा. पुरिमं भूमिगतगब्भगतधनधञ्ञवसेन वुत्तं, इदं निच्चपरिभोगूपगतधनधञ्ञवसेन वुत्तन्ति वेदितब्बं.

अज्झायकोति न झायतीति अज्झायको, झानभावनारहितोति अत्थो. वुत्तञ्हेतं – ‘‘न दानिमे झायन्तीति. न दानिमे झायन्तीति खो, वासेट्ठ, ‘अज्झायका अज्झायका’ त्वेव ततियं अक्खरं उपनिब्बत्त’’न्ति (दी. नि. ३.१३२) एवं पठमकप्पिककाले झानविरहितानं ब्राह्मणानं गरहवचनं उप्पन्नं. इदानि मन्तं झायतीति अज्झायको, मन्ते परिवत्तेतीति इमिना अत्थेन पसंसवचनं कत्वा वोहरन्ति. मन्ते धारेतीति मन्तधरो. तिण्णं वेदानन्ति इरुवेदयजुवेदसामवेदानं तिण्णं वेदानं. अयं पन वेद-सद्दो ञाणसोमनस्सगन्थेसु दिस्सति. तथा हेस – ‘‘यं ब्राह्मणं वेदगुमाभिजञ्ञा, अकिञ्चनं कामभवे असत्त’’न्तिआदीसु (सु. नि. १०६५) ञाणे दिस्सति. ‘‘ये वेदजाता विचरन्ति लोके’’तिआदीसु (अ. नि. ४.५७) सोमनस्से. ‘‘तिण्णं वेदानं पारगू सनिघण्डुकेटुभान’’न्तिआदीसु (दी. नि. १.२५६) गन्थे. इधापि गन्थे (म. नि. अट्ठ. १.७५). पारगूति तिण्णं वेदानं ओट्ठपहतकरणमत्तेन पारं गतोति पारगू. लक्खणेति इत्थिलक्खणपुरिसलक्खणमहापुरिसलक्खणादिके लक्खणे. इतिहासेति इतिह आस, इतिह आसाति ईदिसवचनपटिसंयुत्ते पुराणसङ्खाते गन्थविसेसे. सधम्मेति ब्राह्मणानं सके धम्मे, सके आचरियके वा. पारमिं गतोति पारं गतो, दिसापामोक्खो आचरियो अहोसीति अत्थो.

अथेकदिवसं सो दसगुणगणाराधितपण्डितो सुमेधपण्डितो उपरिपासादवरतले रहोगतो हुत्वा पल्लङ्कं आभुजित्वा निसिन्नो चिन्तेसि – ‘‘पुनब्भवे पटिसन्धिग्गहणं नाम दुक्खं, तथा निब्बत्तनिब्बत्तट्ठाने सरीरभेदनं, अहञ्च जातिधम्मो, जराधम्मो, ब्याधिधम्मो, मरणधम्मो, एवंभूतेन मया अजातिं अजरं अब्याधिं अमरणं सुखं सिवं निब्बानं परियेसितुं वट्टति, अवस्सं भवचारकतो मुच्चित्वा निब्बानगामिना एकेन मग्गेन भवितब्ब’’न्ति. तेन वुत्तं –

६. ‘‘रहोगतो निसीदित्वा, एवं चिन्तेसहं तदा;

दुक्खो पुनब्भवो नाम, सरीरस्स च भेदनं.

७. ‘‘जातिधम्मो जराधम्मो, ब्याधिधम्मो सहं तदा;

अजरं अमरं खेमं, परियेसिस्सामि निब्बुतिं.

८. ‘‘यंनूनिमं पूतिकायं, नानाकुणपपूरितं;

छड्डयित्वान गच्छेय्यं, अनपेक्खो अनत्थिको.

९. ‘‘अत्थि हेहिति सो मग्गो, न सो सक्का न हेतुये;

परियेसिस्सामि तं मग्गं, भवतो परिमुत्तिया’’ति.

एत्थ पन गाथासम्बन्धञ्च अनुत्तानपदानमत्थञ्च वत्वाव गमिस्साम. तत्थ रहोगतोति रहसि गतो, रहसि ठाने निसिन्नो. एवं चिन्तेसहन्ति एवं चिन्तेसिं अहं. एवन्ति इमिना चिन्तनाकारं दस्सेति. तदाति तस्मिं सुमेधपण्डितकाले. ‘‘एवं चिन्तेसह’’न्ति भगवा इमिना अत्तना सद्धिं सुमेधपण्डितं एकत्तं करोति. तस्मा तदा सो सुमेधो अहमेवाति पकासेन्तो ‘‘एवं चिन्तेसहं तदा’’ति भगवा उत्तमपुरिसवसेनाह. जातिधम्मोति जातिसभावो. एस नयो सेसपदेसुपि. निब्बुतिन्ति निब्बानं.

यंनूनाति परिवितक्कनत्थे निपातो, यदि पनाहन्ति अत्थो. पूतिकायन्ति पूतिभूतं कायं. नानाकुणपपूरितन्ति मुत्त-करीस-पुब्बलोहित-पित्त-सेम्ह-खेळसिङ्घाणिकादिअनेककुणपपूरितं. अनपेक्खोति अनालयो. अत्थीति अवस्सं उपलब्भति. हेहितीति भविस्सति, परिवितक्कनवचनमिदं. न सो सक्का न हेतुयेति तेन मग्गेन न सक्का न भवितुं. सो पन मग्गो हेतुयेति हेतुभावाय न न होति, हेतुयेवाति अत्थो. भवतो परिमुत्तियाति भवबन्धनविमुत्तियाति अत्थो.

इदानि अत्तना परिवितक्कितमत्थं सम्पादयितुं ‘‘यथापी’’ति आदिमाह. यथा हि लोके दुक्खस्स पटिपक्खभूतं सुखं नाम अत्थि, एवं भवे सति तप्पटिपक्खेन विभवेनापि भवितब्बं, यथा च उण्हे सति तस्स वूपसमभूतं सीतलम्पि अत्थि, एवं रागादिअग्गीनं वूपसमेन निब्बानेन भवितब्बं. यथा च पापस्स लामकस्स धम्मस्स पटिपक्खभूतो कल्याणो अनवज्जधम्मोपि अत्थियेव, एवमेव पापिकाय जातिया सति सब्बजातिखेपनतो अजातिसङ्खातेन निब्बानेनापि भवितब्बमेवाति. तेन वुत्तं –

१०. ‘‘यथापि दुक्खे विज्जन्ते, सुखं नामपि विज्जति;

एवं भवे विज्जमाने, विभवोपिच्छितब्बको.

११. ‘‘यथापि उण्हे विज्जन्ते, अपरं विज्जति सीतलं;

एवं तिविधग्गि विज्जन्ते, निब्बानं इच्छितब्बकं.

१२. ‘‘यथापि पापे विज्जन्ते, कल्याणमपि विज्जति;

एवमेव जाति विज्जन्ते, अजातिपिच्छितब्बक’’न्ति.

तत्थ यथापीति ओपम्मत्थे निपातो. सुखन्ति कायिकचेतसिकसुखं, सुट्ठु दुक्खं खणतीति सुखं. भवेति जनने. विभवोति अजननं, जनने विज्जमाने अजननधम्मोपि इच्छितब्बो. तिविधग्गि विज्जन्तेति तिविधे रागादिके अग्गिम्हि विज्जमानेति अत्थो. निब्बानन्ति तस्स तिविधस्स रागादिअग्गिस्स निब्बापनं उपसमनं निब्बानञ्च इच्छितब्बं. पापेति अकुसले लामके. कल्याणमपीति कुसलमपि. एवमेवाति एवमेवं. जाति विज्जन्तेति जातिया विज्जमानायाति अत्थो. लिङ्गभेदञ्च विभत्तिलोपञ्च कत्वा वुत्तं. अजातिपीति जातिखेपनं अजातिनिब्बानम्पि इच्छितब्बं.

अथाहं परम्पि चिन्तेसिं – ‘‘यथा नाम गूथरासिम्हि निमुग्गेन पुरिसेन दूरतोव कमलकुवलयपुण्डरीकसण्डमण्डितं विमलसलिलं तळाकं दिस्वा – ‘कतरेन नु खो मग्गेन तत्थ गन्तब्ब’न्ति तळाकं गवेसितुं युत्तं. यं तस्स अगवेसनं, न सो तस्स तळाकस्स दोसो, तस्स पुरिसस्सेव दोसो. एवमेव किलेसमलधोवने अमतमहातळाके विज्जमाने यं तस्स अगवेसनं, न सो अमतसङ्खातस्स निब्बानमहातळाकस्स दोसो, पुरिसस्सेव दोसो. यथा पन चोरेहि संपरिवारितो पुरिसो पलायनमग्गे विज्जमानेपि सचे सो न पलायति, न सो तस्स मग्गस्स दोसो, तस्स पुरिसस्सेव दोसो. एवमेव किलेसचोरेहि परिवारेत्वा गहितस्स पुरिसस्स विज्जमानेयेव निब्बानमहानगरगामिम्हि सिवे महामग्गे तस्स मग्गस्स अगवेसनं नाम न मग्गस्स दोसो, पुरिसस्सेव दोसो. यथा ब्याधिपीळितो पुरिसो विज्जमाने ब्याधितिकिच्छके वेज्जे सचे तं वेज्जं गवेसित्वा तं ब्याधिं न तिकिच्छापेति, न सो वेज्जस्स दोसो, तस्स पुरिसस्सेव दोसो. एवमेव पन यो किलेसब्याधिपरिपीळितो किलेसवूपसममग्गकोविदं विज्जमानमेव आचरियं न गवेसति, तस्सेव दोसो, न किलेसब्याधिविनायकस्स आचरियस्स दोसो’’ति. तेन वुत्तं –

१३. ‘‘यथा गूथगतो पुरिसो, तळाकं दिस्वान पूरितं;

न गवेसति तं तळाकं, न दोसो तळाकस्स सो.

१४. ‘‘एवं किलेसमलधोवं, विज्जन्ते अमतन्तळे;

न गवेसति तं तळाकं, न दोसो अमतन्तळे.

१५. ‘‘यथा अरीहि परिरुद्धो, विज्जन्ते गमनम्पथे;

न पलायति सो पुरिसो, न दोसो अञ्जसस्स सो.

१६. ‘‘एवं किलेसपरिरुद्धो, विज्जमाने सिवे पथे;

न गवेसति तं मग्गं, न दोसो सिवमञ्जसे.

१७. ‘‘यथापि ब्याधितो पुरिसो, विज्जमाने तिकिच्छके;

न तिकिच्छापेति तं ब्याधिं, न दोसो सो तिकिच्छके.

१८. ‘‘एवं किलेसब्याधीहि, दुक्खितो पतिपीळितो;

न गवेसति तं आचरियं, न दोसो सो विनायके’’ति.

तत्थ गूथगतोति गूथकूपगतो, गूथेन गतो मक्खितो वा. किलेसमलधोवन्ति किलेसमलसोधने, भुम्मत्थे पच्चत्तवचनं. अमतन्तळेति अमतसङ्खातस्स तळाकस्स, सामिअत्थे भुम्मवचनं दट्ठब्बं, अनुस्सरं पक्खिपित्वा वुत्तं. अरीहीति पच्चत्थिकेहि. परिरुद्धोति समन्ततो निरुद्धो. गमनम्पथेति गमनपथे. छन्दाविनासत्थं अनुस्सरागमनं कत्वा वुत्तं. न पलायतीति यदि न पलायेय्य. सो पुरिसोति सो चोरेहि परिरुद्धो पुरिसो. अञ्जसस्साति मग्गस्स. मग्गस्स हि –

‘‘मग्गो पन्थो पथो पज्जो, अञ्जसं वटुमायनं;

नावा उत्तरसेतु च, कुल्लो च भिसि सङ्कमो’’ति. (चूळनि. पारायनत्थुतिगाथानिद्देस १०१) –

बहूनि नामानि. स्वायमिध अञ्जसनामेन वुत्तो. सिवेति सब्बुपद्दवाभावतो सिवे. सिवमञ्जसेति सिवस्स अञ्जसस्साति अत्थो. तिकिच्छकेति वेज्जे. न तिकिच्छापेतीति न तिकिच्छापेय्य. न दोसो सो तिकिच्छकेति तिकिच्छकस्स दोसो नत्थि, ब्याधितस्सेव दोसोति अत्थो. दुक्खितोति सञ्जातकायिकचेतसिकदुक्खो. आचरियन्ति मोक्खमग्गाचरियं. विनायकेति आचरियस्स.

एवं पनाहं चिन्तेत्वा उत्तरिम्पि एवं चिन्तेसिं – ‘‘यथापि मण्डनकजातिको पुरिसो कण्ठे आसत्तं कुणपं छड्डेत्वा सुखी गच्छेय्य, एवं मयापि इमं पूतिकायं छड्डेत्वा अनपेक्खेन निब्बानमहानगरं पविसितब्बं. यथा च नरनारियो उक्कारभूमियं उच्चारपस्सावं कत्वा न तं उच्छङ्गेन वा आदाय दसन्ते वा वेठेत्वा आदाय गच्छन्ति, अथ खो जिगुच्छमाना ओलोकेतुम्पि अनिच्छन्ता अनपेक्खा छड्डेत्वा गच्छन्ति, एवं मयापि इमं पूतिकायं अनपेक्खेन छड्डेत्वा अमतं निब्बाननगरं पविसितुं वट्टति. यथा च नाविका नाम जज्जरं नावं उदकगाहिनिं छड्डेत्वा अनपेक्खाव गच्छन्ति, एवमहम्पि इमं नवहि वणमुखेहि पग्घरन्तं कायं छड्डेत्वा अनपेक्खो निब्बानमहानगरं पविसिस्सामि. यथा च कोचि पुरिसो मुत्तामणिवेळुरियादीनि नानाविधानि रतनानि आदाय चोरेहि सद्धिं मग्गं गच्छन्तो अत्तनो रतनविनासभयेन ते चोरे छड्डेत्वा खेमं मग्गं गण्हाति, एवमयम्पि पूतिकायो रतनविलोपकचोरसदिसो. सचाहं एत्थ तण्हं करिस्सामि, अरियमग्गकुसलधम्मरतनानि मे नस्सिस्सन्ति, तस्मा मया इमं महाचोरसदिसं करजकायं छड्डेत्वा निब्बानमहानगरं पविसितुं वट्टती’’ति. तेन वुत्तं –

१९. ‘‘यथापि कुणपं पुरिसो, कण्ठे बद्धं जिगुच्छिय;

मोचयित्वान गच्छेय्य, सुखी सेरी सयंवसी.

२०. ‘‘तथेविमं पूतिकायं, नानाकुणपसञ्चयं;

छड्डयित्वान गच्छेय्यं, अनपेक्खो अनत्थिको.

२१. ‘‘यथा उच्चारट्ठानम्हि, करीसं नरनारियो;

छड्डयित्वान गच्छन्ति, अनपेक्खा अनत्थिका.

२२. ‘‘एवमेवाहं इमं कायं, नानाकुणपपूरितं;

छड्डयित्वान गच्छिस्सं, वच्चं कत्वा यथा कुटिं.

२३. ‘‘यथापि जज्जरं नावं, पलुग्गं उदगाहिनिं;

सामी छड्डेत्वा गच्छन्ति, अनपेक्खा अनत्थिका.

२४. ‘‘एवमेवाहं इमं कायं, नवच्छिद्दं धुवस्सवं;

छड्डयित्वान गच्छिस्सं, जिण्णनावंव सामिका.

२५. ‘‘यथापि पुरिसो चोरेहि, गच्छन्तो भण्डमादिय;

भण्डच्छेदभयं दिस्वा, छड्डयित्वान गच्छति.

२६. ‘‘एवमेव इमं कायो, महाचोरसमो विय;

पहायिमं गमिस्सामि, कुसलच्छेदनाभया’’ति.

तत्थ यथापि कुणपं पुरिसोति यथापि दहरो युवा मण्डनकजातिको पुरिसो अहिकुणपेन वा कुक्कुरकुणपेन वा मनुस्सकुणपेन वा कण्ठे आसत्तेन अट्टीयित्वा हरायित्वा जिगुच्छित्वा तं कुणपं मोचेत्वा गच्छेय्य. सुखीति सुखितो. सेरीति यथिच्छकविहारी. नानाकुणपसञ्चयन्ति अनेकविधकुणपरासिभूतं ‘‘नानाकुणपपूरित’’न्तिपि पाठो.

उच्चारट्ठानम्हीति उच्चारेन्ति वच्चं करोन्ति एत्थाति उच्चारो, उच्चारो च सो ठानं चेति उच्चारट्ठानं. अथ वा उस्सासिय्यतीति उस्सासो, वच्चस्सेतं नामं, तस्स ठानं उस्सासट्ठानं, तस्मिं उस्सासट्ठानम्हि, उक्कारट्ठानेति अत्थो. वच्चं कत्वा यथा कुटिन्ति वच्चं कत्वा कुटिं नरनारियो वियाति अत्थो.

जज्जरन्ति जिण्णं. पलुग्गन्ति पलुज्जन्तिं, विकिरन्तिन्ति अत्थो. उदगाहिनिन्ति उदकगाहिनिं. सामीति नावासामिका. नवच्छिद्दन्ति चक्खुसोतादीहि नवहि वणमुखेहि छिद्दावच्छिद्देहि युत्तत्ता नवच्छिद्दं. धुवस्सवन्ति धुवनिस्सन्दं, निच्चं पग्घरणासुचिन्ति अत्थो.

भण्डमादियाति यंकिञ्चि रतनादिकं भण्डं आदिय. भण्डच्छेदभयं दिस्वाति भण्डस्स अच्छिन्दनेन भयं दिस्वाति अत्थो. एवमेवाति सो भण्डमादाय गच्छन्तो पुरिसो विय. अयं कायोति अयं पन कुच्छितानं परमजेगुच्छानं आयोति कायो. आयोति उपत्तिट्ठानं. आयन्ति ततोति आयो, कुच्छिता केसादयो. इति कुच्छितानं केसादीनं आयोति कायो. महाचोरसमो वियाति चक्खुआदीहि रूपादीसु पियरूपेसु सारज्जनादिवसेन पाणातिपातादिन्नादानादिचोरो हुत्वा सब्बकुसलं विलुम्पतीति महाचोरसमो. तस्मा यथा सो रतनभण्डमादाय चोरेहि सद्धिं गच्छन्तो पुरिसो ते चोरे पहाय गच्छति, एवमेवाहम्पि इमं महाचोरसमं कायं पहाय अत्तनो सोत्थिभावकरं मग्गं गवेसितुं गमिस्सामीति अत्थसम्बन्धो वेदितब्बो. कुसलच्छेदनाभयाति कुसलधम्मविलोपनभयेनाति अत्थो.

अथेवं सुमेधपण्डितो नानाविधाहि उपमाहि नेक्खम्मकारणं चिन्तेत्वा पुनपि चिन्तेसि – ‘‘इमं महाधनरासिं संहरित्वा मय्हं पितुपितामहादयो परलोकं गच्छन्ता एककहापणम्पि गहेत्वा न गता, मया पन गहेत्वा गमनकारणं कातुं वट्टती’’ति गन्त्वा रञ्ञो आरोचेसि – ‘‘अहं, महाराज, जातिजरादीहि उपद्दुतहदयो अगारस्मा अनगारियं पब्बजिस्सामि, मय्हं अनेककोटिसतसहस्सं धनं अत्थि, तं देवो पटिपज्जतू’’ति. राजा आह – ‘‘न मय्हं ते धनेन अत्थो, त्वंयेव यथिच्छकं करोही’’ति.

सो च ‘‘साधु देवा’’ति नगरे भेरिं चरापेत्वा महाजनस्स दानं दत्वा वत्थुकामे च किलेसकामे च पहाय अमरवरनगरसदिसतो अमरनगरतो निक्खमित्वा एककोव नानामिगगणवन्ते हिमवन्ते धम्मिकं नाम पब्बतं निस्साय अस्समं कत्वा तत्थ पण्णसालं कत्वा पञ्चदोसविवज्जितं चङ्कमं मापेत्वा अट्ठगुणसमुपेतं अभिञ्ञाबलं समाहरितुं नवदोससमन्नागतं साटकं पजहित्वा द्वादसगुणमुपागतं वाकचीरं निवासेत्वा पब्बजि. एवं पन सो पब्बजितो अट्ठदोससमाकिण्णं पण्णसालं पहाय दसगुणसमन्नागतं रुक्खमूलं उपगन्त्वा सब्बधञ्ञविकतिं पहाय पवत्तफलभोजनो हुत्वा निसज्जट्ठानचङ्कमनवसेन पधानं पदहन्तो सत्ताहब्भन्तरेयेव अट्ठन्नं समापत्तीनं पञ्चन्नञ्च अभिञ्ञानं लाभी अहोसि. तेन वुत्तं –

२७. ‘‘एवाहं चिन्तयित्वान, नेककोटिसतं धनं;

नाथानाथानं दत्वान, हिमवन्तमुपागमिं.

२८. ‘‘हिमवन्तस्साविदूरे, धम्मिको नाम पब्बतो;

अस्समो सुकतो मय्हं, पण्णसाला सुमापिता.

२९. ‘‘चङ्कमं तत्थ मापेसिं, पञ्चदोसविवज्जितं.

अट्ठगुणसमुपेतं, अभिञ्ञाबलमाहरिं.

३०. ‘‘साटकं पजहिं तत्थ, नवदोसमुपागतं;

वाकचीरं निवासेसिं, द्वादसगुणमुपागतं.

३१. ‘‘अट्ठदोससमाकिण्णं, पजहिं पण्णसालकं;

उपागमिं रुक्खमूलं, गुणे दसहुपागतं.

३२. ‘‘वापितं रोपितं धञ्ञं, पजहिं निरवसेसतो;

अनेकगुणसम्पन्नं, पवत्तफलमादियिं.

३३. ‘‘तत्थप्पधानं पदहिं, निस्सज्जट्ठानचङ्कमे;

अब्भन्तरम्हि सत्ताहे, अभिञ्ञाबलपापुणि’’न्ति.

तत्थ एवाहन्ति एवं अहं, हेट्ठा वुत्तप्पकारेन चिन्तेत्वाति अत्थो. नाथानाथानन्ति सनाथानमनाथानञ्च अड्ढानञ्चेव दलिद्दानञ्च ‘‘अत्थिका गण्हन्तू’’ति सह कोट्ठागारेहि दत्वाति अत्थो. हिमवन्तस्साविदूरेति हिमवन्तपब्बतराजस्स अविदूरे समीपे. धम्मिको नाम पब्बतोति एवंनामको पब्बतो. कस्मा पनायं धम्मिकोति? येभुय्येन पन बोधिसत्ता इसिपब्बज्जं पब्बजित्वा तं पब्बतं उपनिस्साय अभिञ्ञायो निब्बत्तेत्वा समणधम्मं अकंसु. तस्मा समणधम्मस्स निस्सयभूतत्ता ‘‘धम्मिको’’त्वेव पाकटो अहोसि. अस्समो सुकतो मय्हन्तिआदिना सुमेधपण्डितेन अस्समपण्णसाला चङ्कमा सहत्था मापिता विय वुत्ता, न च पन सहत्था मापिता, किन्तु सक्केन देवेन पेसिते विस्सकम्मुना देवपुत्तेन निम्मिता. भगवा पन तदा अत्तनो पुञ्ञानुभावेन निब्बत्तं तं सम्पदं सन्धाय – ‘‘सारिपुत्त, तस्मिं पब्बते –

‘अस्समो सुकतो मय्हं, पण्णसाला सुमापिता;

चङ्कमं तत्थ मापेसिं, पञ्चदोसविवज्जित’’’न्ति. – आदिमाह;

तत्थ पण्णसालाति पण्णछदनसाला. तत्थाति तस्मिं अस्समपदे. पञ्चदोसविवज्जितन्ति पञ्चहि चङ्कमदोसेहि विवज्जितं. कतमे पञ्च चङ्कमदोसा नाम? थद्धविसमता, अन्तोरुक्खता, गहनच्छन्नता, अतिसम्बाधता, अतिविसालताति इमेहि पञ्चहि दोसेहि विवज्जितं. उक्कट्ठपरिच्छेदेन दीघतो सट्ठिरतनो वित्थारतो दियड्ढरतनो चङ्कमो वुत्तो. अथ वा पञ्चदोसविवज्जितन्ति पञ्चहि नीवरणदोसेहि विवज्जितं परिहीनं अभिञ्ञाबलमाहरिन्ति इमिना उत्तरपदेन सम्बन्धो दट्ठब्बो (ध. स. अट्ठ. निदानकथा, सुमेधकथा). अट्ठगुणसमुपेतन्ति ‘‘एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते’’ति एवं वुत्तेहि अट्ठगुणेहि (दी. नि. १.२४४-२४५; म. नि. १.३८४-३८६, ४३१-४३३; पारा. १२-१४) समन्नागतं अभिञ्ञाबलं आहरिं आनेसिन्ति अत्थो.

केचि पन ‘‘अट्ठहि समणसुखेहि उपेतं, अट्ठिमानि समणसुखानि नाम धनधञ्ञपरिग्गहाभावो, अनवज्जपिण्डपातपरियेसनभावो, निब्बुतपिण्डभुञ्जनभावो, रट्ठं पीळेत्वा धनधञ्ञादीसु गण्हन्तेसु राजपुरिसेसु रट्ठपीळनकिलेसाभावो, उपकरणेसु निच्छन्दरागभावो, चोरविलोपने निब्भयभावो, राजराजमहामत्तेहि असंसट्ठभावो, चतूसु दिसासु अप्पटिहतभावोति इमेहि अट्ठहि समणसुखेहि (अप. अट्ठ. १.दूरेनिदान, सुमेधकथा; ध. स. अट्ठ. निदानकथा) उपेतं समुपेतं अस्समं मापेसि’’न्ति अस्समेन सम्बन्धं कत्वा वदन्ति, तं पाळिया न समेति.

साटकन्ति वत्थं. तत्थाति तस्मिं अस्समे. नवदोसमुपागतन्ति, सारिपुत्त, तत्थ वसन्तो अत्तनो निवत्थपारुतं महग्घसाटकं पजहिं परिच्चजिं. साटकं पजहन्तो च तत्थ नव दोसे दिस्वा पजहिन्ति दीपेति. तापसपब्बज्जं पब्बजितानञ्हि साटकस्मिं नव दोसा पकासिता. कतमे नव? साटकस्स महग्घभावो, परपटिबद्धभावो, परिभोगेन लहुकं किलिस्सनभावो, किलिट्ठो च धोवितब्बो पुन रजितब्बो च होति परिभोगेन जीरणभावो, जिण्णस्स पुन तुन्नकरणं वा अग्गळदानं वा कातब्बं होति पुन परियेसनाय दुरभिसम्भवभावो, तापसपब्बज्जाय अननुच्छविकभावो, पच्चत्थिकानं साधारणभावो, यथा नं न पच्चत्थिका गण्हन्ति, एवं गोपेतब्बो होति परिदहतो विभूसनट्ठानभावो, गहेत्वा चरन्तस्स महिच्छभावोति एतेहि नवहि दोसेहि (अप. अट्ठ. १.दूरेनिदान, सुमेधकथा) उपगतं साटकं पहाय वाकचीरं निवासेसिन्ति दीपेति. वाकचीरन्ति मुञ्जतिणं हीराहीरं कत्वा गन्थेत्वा कतं वाकमयचीरं निवासनपारुपनत्थाय आदियिन्ति अत्थो. द्वादसगुणमुपागतन्ति द्वादसहि आनिसंसेहि उपेतं. एत्थ गुण-सद्दो आनिसंसट्ठो ‘‘सतगुणा दक्खिणा पाटिकङ्खितब्बा’’तिआदीसु (म. नि. ३.३७९) विय. म-कारो पदसन्धिकरो. वाकचीरस्मिं द्वादसानिसंसा अप्पग्घता, अपरायत्तता, सहत्था कातुं सक्कुणेय्यता, परिभोगेन जिण्णेपि सिब्बितब्बाभावो, चोरभयाभावो परियेसन्तस्स सुखेन करणभावो, तापसपब्बज्जाय सारुप्पभावो, सेवमानस्स विभूसनट्ठानाभावो, चीवरप्पच्चये अप्पिच्छभावो, परिभोगसुखभावो, वाकुप्पत्तिया सुलभभावो, वाकचीरे नट्ठेपि अनपेक्खभावोति इमेहि द्वादसहि गुणेहि सम्पन्नं (अप. अट्ठ. १.दूरेनिदान, सुमेधकथा; ध. स. अट्ठ. निदानकथा).

अथ सुमेधपण्डितो तत्थ पण्णसालायं विहरन्तो पच्चूससमये पच्चुट्ठाय अत्तनो निक्खमनकारणं पच्चवेक्खमानो एवं किर चिन्तेसि – ‘‘अहं पन नवकनककटकनूपुरादिसङ्घट्टनसद्दसम्मिस्सित-मधुरहसितकथितगेहजनरमणीयं उळारविभवसोभितं सुरवरभवनाकारमगारं खेळपिण्डं विय पहाय विवेकारामताय सब्बजनपापपवाहनं तपोवनं पविट्ठोस्मि, इध पन मे पण्णसालाय वासो दुतियो घरावासो विय होति, हन्दाहं रुक्खमूले वसेय्य’’न्ति. तेन वुत्तं –

३१. ‘‘अट्ठदोससमाकिण्णं, पजहिं पण्णसालक’’न्ति.

तत्थ अट्ठदोससमाकिण्णन्ति अट्ठहि दोसेहि समाकिण्णं संयुत्तं. कतमेहि अट्ठहि? महासम्भारेहि निप्फादनीयता, तिणपण्णमत्तिकादीहि निच्चं पटिजग्गनीयता, सेनासनं नाम महल्लकस्स पापुणातीति अवेलाय वुट्ठापियमानस्स चित्तेकग्गता न होतीति वुट्ठापनीयभावो, सीतुण्हस्स पटिघातेन कायस्स सुखुमालकरणभावो, घरं पविट्ठेन यं किञ्चि पापं सक्का कातुन्ति गरहपटिच्छादनकरणभावो, ‘‘मय्हमिद’’न्ति सपरिग्गहभावो, गेहस्स अत्थिभावो सदुतियकवासो, ऊकामङ्गुलघरगोळिकादीनं साधारणताय बहुसाधारणभावोति इति इमे अट्ठ आदीनवे (अप. अट्ठ. १.दूरेनिदान, सुमेधकथा) दिस्वा महासत्तो पण्णसालं पजहिं.

गुणे दसहुपागतन्ति छन्नं पटिक्खिपित्वा दसहि गुणेहि उपेतं, रुक्खमूलं उपगतोस्मीति अत्थो. कतमेहि दसहि? अप्पसमारम्भता, उपगमनमत्तमेवेत्थ होतीति सुलभानवज्जता, अभिण्हं तरुपण्णविकारदस्सनेन अनिच्चसञ्ञासमुट्ठापनता, सेनासनमच्छेराभावो, तत्थ हि पापं करोन्तो लज्जतीति पापकरणारहाभावो, परिग्गहकरणाभावो, देवताहि सह वासो, छन्नपटिक्खेपो, परिभोगसुखता, रुक्खमूलसेनासनस्स गतगतट्ठाने सुलभताय अनपेक्खभावोति इति इमे दस गुणे (अप. अट्ठ. १.दूरेनिदान, सुमेधकथा) दिस्वा रुक्खमूलं उपगतोस्मीति वदति. आह च –

‘‘वण्णितो बुद्धसेट्ठेन, निस्सयोति च भासितो;

निवासो पविवित्तस्स, रुक्खमूलसमो कुतो.

‘‘आवासमच्छेरहरे, देवतापरिपालिते;

पविवित्ते वसन्तो हि, रुक्खमूलम्हि सुब्बतो.

‘‘अभिरत्तानि नीलानि, पण्डूनि पतितानि च;

पस्सन्तो तरुपण्णानि, निच्चसञ्ञं पनूदति.

‘‘तस्मा हि बुद्धदायज्जं, भावनाभिरतालयं;

विवित्तं नातिमञ्ञेय्य, रुक्खमूलं विचक्खणो’’ति. (विसुद्धि. १.३२);

अथ सुमेधपण्डितो पण्णसालाय दिट्ठदोसो हुत्वा रुक्खमूलसेनासने लद्धानिसंसो विहरन्तो उत्तरिपि चिन्तेसि – ‘‘आहारत्थाय मे गामगमनं आहारपरियेसनदुक्खं, नाहं केनचि पारिजुञ्ञेन निक्खमित्वा आहारत्थाय पब्बजितो, आहारपरियेसनमूलस्स च दुक्खस्स पमाणं नत्थि, यंनूनाहं पवत्तफलेन यापेय्य’’न्ति. इमं पन अत्थविसेसं दीपेन्तो –

३२-३३. ‘‘वापितं रोपितं धञ्ञं, पजहिं निरवसेसतो.

अनेकगुणसम्पन्नं, पवत्तफलमादियि’’न्ति. – आदिमाह;

तत्थ वापितन्ति वपित्वा निप्फन्नं. रोपितन्ति रोपित्वा निप्फन्नं, वपनरोपनवसेन दुविधाव सस्सनिप्फत्ति, तं दुविधम्पि अत्तनो अप्पिच्छताय पहाय पवत्तफलेन यापेसिं. पवत्तफलन्ति सयमेव पतितफलं. आदियिन्ति परिभुञ्जिं.

‘‘पवत्तफलसन्तुट्ठो, अपरायत्तजीविको;

पहीनाहारलोलुप्पो, होति चातुद्दिसो मुनि.

‘‘जहाति रसतण्हञ्च, आजीवो तस्स सुज्झति;

तस्मा हि नातिमञ्ञेय्य, पवत्तफलभोजन’’न्ति. (विसुद्धि. १.२६ थोकं विसदिसं) –

एवं पवत्तमानो सुमेधपण्डितो नचिरस्सेव अन्तोसत्ताहे अट्ठ समापत्तियो पञ्च अभिञ्ञायो च पापुणि. इममत्थं पकासेन्तेन ‘‘तत्थप्पधानं पदहि’’न्तिआदि वुत्तं. तत्थ तत्थाति तस्मिं अस्समे. पधानन्ति वीरियं, वीरियञ्हि पदहितब्बतो पधानभावकरणतो वा ‘‘पधान’’न्ति वुच्चति. पदहिन्ति वीरियमारभिं. निस्सज्जट्ठानचङ्कमेति निसज्जाय च ठानेन च चङ्कमेन च.

सुमेधपण्डितो पन सेय्यं पटिक्खिपित्वा निसज्जट्ठानचङ्कमेहेव रत्तिन्दिवं वीतिनामेत्वा सत्ताहब्भन्तरेयेव अभिञ्ञाबलं पापुणि. एवं पन अभिञ्ञाबलं पत्वा सुमेधतापसे समापत्तिसुखेन वीतिनामेन्ते तदा सब्बजनसङ्गहकरो मारबलभयंकरो ञाणदीपङ्करो दीपङ्करो नाम सत्था लोके उदपादि.

सङ्खेपेनेव तस्सायमानुपुब्बिकथा – अयं किर दीपङ्करो नाम महासत्तो समत्तिंस पारमियो पूरेत्वा वेस्सन्तरत्तभावसदिसे अत्तभावे ठितो पथविकम्पनादीनि महादानानि दत्वा आयुपरियोसाने तुसितपुरे निब्बत्तित्वा तत्थ यावतायुकं ठत्वा दससहस्सचक्कवाळदेवताहि सन्निपतित्वा –

‘‘कालो खो ते महावीर, उप्पज्ज मातुकुच्छियं;

सदेवकं तारयन्तो, बुज्झस्सु अमतं पद’’न्ति. (बु. वं. १.६७) –

वुत्ते ततो सो देवतानं वचनं सुत्वा च पञ्च महाविलोकनानि विलोकेत्वा ततो चुतो रम्मवतीनगरे अत्तनो यसविभूतिया विजितवासुदेवस्स नरदेवस्स सुदेवस्स नाम रञ्ञो कुले सुमेधाय देविया कुच्छिस्मिं आसाळ्हिपुण्णमिया उत्तरासाळ्हनक्खत्तेन पटिसन्धिं गहेत्वा महता परिवारेन परिहरियमानो महादेविया कुच्छिम्हि मणिकूटगतो विय केनचि असुचिना अमक्खितो दस मासे वसित्वा सलिलधरविवरगतो सरदकालचन्दो विय तस्सा उदरतो निक्खमि.

द्वत्तिंस पुब्बनिमित्तानि

तस्स पन दीपङ्करकुमारस्स पटिसन्धिक्खणेपि विजातक्खणेपि द्वत्तिंस पुब्बनिमित्तानि पाटिहारियानि पातुरहेसुं. सब्बसब्बञ्ञुबोधिसत्तेसु मातुकुच्छिं ओक्कमन्तेसु निक्खमन्तेसु सम्बुज्झन्तेसु धम्मचक्कं पवत्तन्तेसूति इमेसु चतूसु ठानेसु द्वत्तिंस पाटिहारियानि पवत्तन्तेव. तस्मा मया पाकटत्ता दीपङ्करकुमारस्स जातियं दस्सितानि –

‘‘दीपङ्करे चारुकरे कुमारे, सिवंकरे सन्तिकरेव जाते;

पकम्पि सङ्कम्पि तदा समन्ता, सहस्ससङ्ख्या दसलोकधातु.

‘‘चक्कवाळसहस्सेसु, दससहस्सेव देवता;

एकस्मिं चक्कवाळस्मिं, तदा सन्निपतिंसु ता.

‘‘बोधिसत्तं महासत्तं, जातमत्तन्तु देवता;

पठमं पटिग्गण्हिंसु, पच्छा तं मनुजा पन.

‘‘अवादिता केनचि चम्मनद्धा, सुपोक्खरा दुन्दुभियो च वीणा;

अघट्टितानाभरणानि तस्मिं, खणे समन्ता मधुरं रविंसु.

‘‘छिज्जिंसु सब्बत्थ च बन्धनानि, सयं विगच्छिंसु च सब्बरोगा;

रूपानि पस्सिंसु च जातिअन्धा, सद्दं समन्ता बधिरा सुणिंसु.

‘‘अनुस्सतिं जातिजळा मनुस्सा, लभिंसु यानं पदसाव पङ्गुला;

विदेसयाता सयमेव नावा, सपट्टनं सीघमुपागमिंसु.

‘‘आकासट्ठं भूमिगतञ्च सब्बं, सयं समन्ता रतनं विरोचि;

निब्बायि घोरे निरये हुतासो, नदीसु तोयम्पि च नप्पवत्ति.