६. दुतियरंसिसञ्ञकत्थेरअपदानवण्णना
पब्बते हिमवन्तम्हीतिआदिकं आयस्मतो दुतियरंसिसञ्ञकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कतकुसलो उप्पन्नुप्पन्नभवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो फुस्सस्स भगवतो काले कुलगेहे निब्बत्तो वुद्धिप्पत्तो घरावासं सण्ठपेत्वा तत्थ दोसं दिस्वा तं पहाय तापसपब्बज्जं पब्बजित्वा हिमवन्तपब्बते वसन्तो वाकचीरनिवसनो विवेकसुखेन विहरति. तस्मिं समये सो फुस्सं भगवन्तं तं पदेसं सम्पत्तं दिस्वा तस्स सरीरतो निक्खन्तछब्बण्णबुद्धरंसियो इतो चितो विधावन्तियो दण्डदीपिकानिक्खन्तविप्फुरन्तमिव दिस्वा तस्मिं पसन्नो अञ्जलिं पग्गहेत्वा वन्दित्वा चित्तं पसादेत्वा तेनेव पीतिसोमनस्सेन कालं कत्वा तुसितादीसु निब्बत्तो तत्थ छ कामावचरसम्पत्तियो च अनुभवित्वा अपरभागे मनुस्ससम्पत्तियो च अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो वुद्धिप्पत्तो पुब्बवासनावसेन पब्बजित्वा नचिरस्सेव अरहा अहोसि.
३५. सो अपरभागे पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पब्बते हिमवन्तम्हीतिआदिमाह. तं सब्बं उत्तानत्थमेवाति.
दुतियरंसिसञ्ञकत्थेरअपदानवण्णना समत्ता.