९. ठितञ्जलियत्थेरअपदानवण्णना

मिगलुद्दो पुरे आसिन्तिआदिकं आयस्मतो ठितञ्जलियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थुप्पन्नभवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो तिस्सस्स भगवतो काले पुराकतेन एकेन कम्मच्छिद्देन नेसादयोनियं निब्बत्तित्वा विञ्ञुतं पत्तो मिगसूकरादयो मारेत्वा नेसादकम्मेन अरञ्ञे वासं कप्पेसि. तस्मिं समये तिस्सो भगवा तस्सानुकम्पाय हिमवन्तं अगमासि. सो तं द्वत्तिंसवरलक्खणेहि असीतानुब्यञ्जनब्यामप्पभाहि च जलमानं भगवन्तं दिस्वा सोमनस्सजातो पणामं कत्वा गन्त्वा पण्णसन्थरे निसीदि. तस्मिं खणे देवो गज्जन्तो असनि पति, ततो मरणसमये बुद्धमनुस्सरित्वा पुनञ्जलिमकासि. सो तेन पुञ्ञेन सुखेत्ते कतकुसलत्ता अकुसलविपाकं पटिबाहित्वा सग्गे निब्बत्तो कामावचरसम्पत्तियो अनुभवित्वा मनुस्सेसु मनुस्ससम्पत्तियो च अनुभवित्वा अपरभागे इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय पुराकतवासनाय सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.

४२. सो ततो परं अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो मिगलुद्दो पुरे आसिन्तिआदिमाह. तत्थ मिगलुद्दोति मिगानं मारणं उपगच्छतीति मिगलुद्दो. मिगन्ति सीघं वातवेगेन गच्छन्ति धावन्तीति मिगा, तेसं मिगानं मारणे लुद्दो दारुणो लोभीति मिगलुद्दो. सो अहं पुरे भगवतो दस्सनसमये मिगलुद्दो आसिं अहोसिन्ति अत्थो. अरञ्ञे काननेति अरति गच्छति मिगसमूहो एत्थाति अरञ्ञं, अथ वा आ समन्ततो रज्जन्ति तत्थ विवेकाभिरता बुद्धपच्चेकबुद्धादयो महासारप्पत्ता सप्पुरिसाति अरञ्ञं. का कुच्छिताकारेन वा भयानकाकारेन वा नदन्ति सद्दं करोन्ति, आनन्ति विन्दन्तीति वा काननं, तस्मिं अरञ्ञे कानने मिगलुद्दो पुरे आसिन्ति सम्बन्धो. तत्थ अद्दसं सम्बुद्धन्ति तत्थ तस्मिं अरञ्ञे उपगतं सम्बुद्धं अद्दसं अद्दक्खिन्ति अत्थो. दस्सनं पुरे अहोसि अविदूरे, तस्मा मनोद्वारानुसारेन चक्खुविञ्ञाणं पुरेचारिकं कायविञ्ञाणसमङ्गिं पापेति अप्पेतीति अत्थो.

४४. ततो मे असनीपातोति आ समन्ततो सनन्तो गज्जन्तो पततीति असनि, असनिया पातो पतनं असनीपातो, देवदण्डोति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.

ठितञ्जलियत्थेरअपदानवण्णना समत्ता.