१०. तिपदुमियत्थेरअपदानवण्णना

पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो तिपदुमियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतियं मालाकारकुलगेहे निब्बत्तो वुद्धिप्पत्तो मालाकारकम्मं कत्वा वसन्तो एकदिवसं अनेकविधानि जलजथलजपुप्फानि गहेत्वा रञ्ञो सन्तिकं गन्तुकामो एवं चिन्तेसि – ‘‘राजा इमानि ताव पुप्फानि दिस्वा पसन्नो सहस्सं वा धनं गामादिकं वा ददेय्य, लोकनाथं पन पूजेत्वा निब्बानामतधनं लभामि, किं मे एतेसु सुन्दर’’न्ति तेन ‘‘भगवन्तं पूजेत्वा सग्गमोक्खसम्पत्तियो निप्फादेतुं वट्टती’’ति चिन्तेत्वा वण्णवन्तं अतीव रत्तपुप्फत्तयं गहेत्वा पूजेसि. तानि गन्त्वा आकासं छादेत्वा पत्थरित्वा अट्ठंसु. नगरवासिनो अच्छरियब्भुतचित्तजाता चेलुक्खेपसहस्सानि पवत्तयिंसु. तं दिस्वा भगवा अनुमोदनं अकासि. सो तेन पुञ्ञेन देवमनुस्सेसु सम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे गहपतिकुले निब्बत्तो वुद्धिमन्वाय सत्थरि पसीदित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा नचिरस्सेव अरहा अहोसि.

४८. सो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो नाम जिनोतिआदिमाह. तस्सत्थो हेट्ठा वुत्तोव. सब्बधम्मान पारगूति सब्बेसं नवलोकुत्तरधम्मानं पारं निब्बानं गतो पच्चक्खं कतोति अत्थो. दन्तो दन्तपरिवुतोति सयं कायवाचादीहि दन्तो एतदग्गे ठपितेहि सावकेहि परिवुतोति अत्थो. सेसं सब्बत्थ सम्बन्धवसेन उत्तानत्थमेवाति.

तिपदुमियत्थेरअपदानवण्णना समत्ता.

अट्ठमवग्गवण्णना समत्ता.