९. पदुमत्थेरअपदानवण्णना

चतुसच्चं पकासेन्तोतिआदिकं आयस्मतो पदुमत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कतकुसलसम्भारो पदुमुत्तरमुनिना धम्मपज्जोते जोतमाने एकस्मिं कुलगेहे निब्बत्तो घरावासं सण्ठपेत्वा भोगसम्पन्नोति पाकटो. सो सत्थरि पसीदित्वा महाजनेन सद्धिं धम्मं सुणन्तो धजेन सह पदुमकलापं गहेत्वा अट्ठासि, सधजं तं पदुमकलापं आकासमुक्खिपिं, तं अच्छरियं दिस्वा अतिविय सोमनस्सजातो अहोसि. सो यावजीवं कुसलं कत्वा जीवितपरियोसाने सग्गे निब्बत्तो धजमिव छकामावचरे पाकटो पूजितो च दिब्बसम्पत्तिमनुभवित्वा मनुस्सेसु च चक्कवत्तिसम्पत्तिमनुभवित्वा इमस्मिं बुद्धुप्पादे विभवसम्पन्ने सद्धासम्पन्ने एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय सद्धाजातो पञ्चवस्सिकोव पब्बजित्वा नचिरस्सेव अरहा हुत्वा कतपुञ्ञनामेन पदुमत्थेरोति पाकटो.

६७. अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो चतुसच्चं पकासेन्तोतिआदिमाह. तत्थ सच्चन्ति तथं अवितथं अविपरीतं सच्चं, दुक्खसमुदयनिरोधमग्गवसेन चत्तारि सच्चानि समाहटानीति चतुसच्चं, तं चतुसच्चं पकासेन्तो लोके पाकटं करोन्तोति अत्थो. वरधम्मप्पवत्तकोति उत्तमधम्मप्पवत्तको पकासकोति अत्थो. अमतं वुट्ठिन्ति अमतमहानिब्बानवुट्ठिधारं पवस्सन्तो पग्घरन्तो सदेवकं लोकं तेमेन्तो सब्बकिलेसपरिळाहं निब्बापेन्तो धम्मवस्सं वस्सतीति अत्थो.

६८. सधजं पदुमं गय्हाति धजेन सह एकतो कत्वा पदुमं पदुमकलापं गहेत्वाति अत्थो. अड्ढकोसे ठितो अहन्ति उभो उक्खिपित्वा ठितो अहन्ति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.

पदुमत्थेरअपदानवण्णना समत्ता.