१०. असनबोधियत्थेरअपदानवण्णना
जातिया सत्तवस्सोहन्तिआदिकं आयस्मतो असनबोधियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो तिस्सस्स भगवतो काले अञ्ञतरस्मिं कुलगेहे निब्बत्तो वुद्धिप्पत्तो सुखप्पत्तो सासने पसन्नो असनबोधितो फलं गहेत्वा ततो वुट्ठितबोधितरुणे गहेत्वा बोधिं रोपेसि, यथा न विनस्सति तथा उदकासिञ्चनादिकम्मेन रक्खित्वा पूजेसि. सो तेन पुञ्ञेन देवमनुस्सेसु सम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो परिपक्कसम्भारत्ता सत्तवस्सिकोव समानो पब्बजित्वा खुरग्गेयेव अरहत्तं पापुणि, पुराकतपुञ्ञनामेन असनबोधियत्थेरोति पाकटो.
७८. सो पुब्बसम्भारमनुस्सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो जातिया सत्तवस्सोहन्तिआदिमाह. तत्थ जातियाति मातुगब्भतो निक्खन्तकालतो पट्ठायाति अत्थो. सत्तवस्सो परिपुण्णसरदो अहं लोकनायकं तिस्सं भगवन्तं अद्दसन्ति सम्बन्धो. पसन्नचित्तो सुमनोति पकारेन पसन्नअनालुळितअविकम्पितचित्तो, सुमनो सुन्दरमनो सोमनस्ससहगतचित्तोति अत्थो.
७९. तिस्सस्साहं भगवतोति तिक्खत्तुं जातोति तिस्सो, सो मातुगब्भतो, मनुस्सजातितो, पञ्चक्खन्धतो च मुत्तो हुत्वा जातो निब्बत्तो बुद्धो जातोति अत्थो. तस्स तिस्सस्स भगवतो तादिनो, लोकजेट्ठस्स असनबोधिं उत्तमं रोपयिन्ति सम्बन्धो.
८०. असनो नामधेय्येनाति नामपञ्ञत्तिया नामसञ्ञाय असनो नाम असनरुक्खो बोधि अहोसीति अत्थो. धरणीरुहपादपोति वल्लिरुक्खपब्बतगङ्गासागरादयो धारेतीति धरणी, का सा? पथवी, तस्सं रुहति पतिट्ठहतीति धरणीरुहो, पादेन पिवतीति पादपो, पादसङ्खातेन मूलेन सिञ्चितोदकं पिवति आपोरसं सिनेहं धारेतीति अत्थो. धरणीरुहो च सो पादपो चाति धरणीरुहपादपो, तं उत्तमं असनं बोधिं पञ्च वस्सानि परिचरिं पोसेसिन्ति अत्थो.
८१. पुप्फितं पादपं दिस्वाति तं मया पोसितं असनबोधिरुक्खं पुप्फितं अच्छरयोग्गभूतपुप्फत्ता अब्भुतं लोमहंसकरणं दिस्वा सकं कम्मं अत्तनो कम्मं पकित्तेन्तो पकारेन कथयन्तो बुद्धसेट्ठस्स सन्तिकं अगमासिन्ति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.
असनबोधियत्थेरअपदानवण्णना समत्ता.
छट्ठवग्गवण्णना समत्ता.