१. विधूपनदायकत्थेरअपदानवण्णना
पदुमुत्तरबुद्धस्सातिआदिकं आयस्मतो विधूपनदायकत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु पूरितपुञ्ञसम्भारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो विभवसम्पन्नो सद्धाजातो भगवति पसन्नो गिम्हकाले सुवण्णरजतमुत्तामणिमयं बीजनिं कारेत्वा भगवतो अदासि. सो तेन पुञ्ञकम्मेन देवेसु च मनुस्सेसु च संसरन्तो द्वे सम्पत्तियो अनुभवित्वा इमस्स अम्हाकं सम्मासम्बुद्धस्स उप्पन्नकाले एकस्मिं कुलगेहे निब्बत्तो घरबन्धनेन बन्धित्वा घरावासे आदीनवं दिस्वा पब्बज्जाय च आनिसंसं दिस्वा सद्धासम्पन्नो सासने पब्बजित्वा विपस्सनं वड्ढेत्वा नचिरस्सेव अरहा अहोसि.
१. सो ‘‘केन मया पुञ्ञकम्मेन अयं लोकुत्तरसम्पत्ति लद्धा’’ति अत्तनो पुब्बकम्मं अनुस्सरन्तो तं पच्चक्खतो ञत्वा पुब्बचरितापदानं पकासेन्तो पदुमुत्तरबुद्धस्सातिआदिमाह. तं हेट्ठा वुत्तत्थमेव. बीजनिका मया दिन्नाति विसेसेन सन्तापयन्तानं सत्तानं सन्तापं निब्बापेन्ति सीतलं वातं जनेतीति बीजनी, बीजनीयेव बीजनिका, सा सत्तरतनमया विज्जोतमाना बीजनिका मया कारापेत्वा दिन्नाति अत्थो.
विधूपनदायकत्थेरअपदानवण्णना समत्ता.