२. सतरंसित्थेरअपदानवण्णना
उच्चियं सेलमारुय्हातिआदिकं आयस्मतो सतरंसित्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तो विञ्ञुतं पत्तो सक्कटब्याकरणे वेदत्तये च पारङ्गतो घरावासं पहाय अरञ्ञं पविसित्वा इसिपब्बज्जं पब्बजित्वा हिमवन्ते वासं कप्पेसि. तस्मिं समये पदुमुत्तरो भगवा विवेककामताय उच्चं एकं पब्बतं आरुय्ह जलितग्गिक्खन्तो विय निसीदि. तं तथानिसिन्नं भगवन्तं दिस्वा तापसो सोमनस्सजातो अञ्जलिं पग्गय्ह अनेकेहि कारणेहि थोमेसि. सो तेन पुञ्ञकम्मेन ततो चुतो छसु कामावचरदेवेसु दिब्बसम्पत्तिं अनुभवित्वा ततो मनुस्सलोके सतरंसी नाम चक्कवत्ती राजा हुत्वा निब्बत्ति. तम्पि सम्पत्तिं अनेकक्खत्तुं अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो पुब्बपुञ्ञसम्भारवसेन ञाणस्स परिपक्कत्ता सत्तवस्सिकोव पब्बजित्वा अरहत्तं पापुणि.
८-९. सो ‘‘अहं केन कम्मेन सत्तवस्सिकोव सन्तिपदं अनुप्पत्तोस्मी’’ति सरमानो पुब्बकम्मं ञाणेन पच्चक्खतो दिस्वा सोमनस्सजातो पुब्बचरितापदानं उदानवसेन पकासेन्तो उच्चियं सेलमारुय्हातिआदिमाह. तत्थ उच्चियन्ति उच्चं सेलमयं पब्बतं आरुय्ह निसीदि पदुमुत्तरोति सम्बन्धो. पब्बतस्साविदूरम्हीति भगवतो निसिन्नस्स पब्बतस्स आसन्नट्ठानेति अत्थो. ब्राह्मणो मन्तपारगूति मन्तसङ्खातस्स वेदत्तयस्स पारं परियोसानं कोटिं गतो एको ब्राह्मणोति अत्थो, अञ्ञं विय अत्तानं निद्दिसति अयं मन्तपारगूति. उपविट्ठं महावीरन्ति तस्मिं पब्बते निसिन्नं वीरवन्तं जिनं, किं विसिट्ठं? देवदेवं सकलछकामावचरब्रह्मदेवानं अतिदेवं नरासभं नरानं आसतं सेट्ठं लोकनायकं सकलसत्तलोकं नयन्तं निब्बानं पापेन्तं अहं अञ्जलिं दसनखसमोधानञ्जलिपुटं सिरसि मुद्धनि पग्गहेत्वान पतिट्ठपेत्वा सन्थविं सुट्ठुं थोमेसिन्ति सम्बन्धो.
१२. अभासथाति ‘‘येनायं अञ्जली दिन्नो…पे… अरहा सो भविस्सती’’ति ब्याकासि. सेसं उत्तानत्थमेवाति.
सतरंसित्थेरअपदानवण्णना समत्ता.