१०. उपवानत्थेरअपदानवण्णना

दसमापदाने पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो उपवानत्थेरस्स अपदानं. अयं किर पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो केनचि कम्मच्छिद्देन पदुमुत्तरस्स भगवतो काले दल्लिद्दकुले निब्बत्तित्वा विञ्ञुतं पत्तो भगवति परिनिब्बुते तस्स धातुं गहेत्वा मनुस्सदेवनागगरुळयक्खकुम्भण्डगन्धब्बेहि सत्तरतनमये सत्तयोजनिके थूपे कते तत्थ सुधोतं अत्तनो उत्तरासङ्गं वेळग्गे आबन्धित्वा धजं कत्वा पूजं अकासि. तं गहेत्वा अभिसम्मतको नाम यक्खसेनापति देवेहि चेतियपूजारक्खणत्थं ठपितो अदिस्समानकायो आकासे धारेन्तो चेतियं तिक्खत्तुं पदक्खिणं अकासि. तं दिस्वा भिय्योसोमत्ताय पसन्नमानसो अहोसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा उपवानोति लद्धनामो वयप्पत्तो जेतवनपटिग्गहणे बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो छळभिञ्ञो अहोसि. अथायस्मा उपवानो भगवतो उपट्ठाको अहोसि. तेन च समयेन भगवतो वाताबाधो उप्पज्जि. थेरस्स गिहिसहायो देवहितो नाम ब्राह्मणो सावत्थियं पटिवसति. सो थेरं चतूहि पच्चयेहि पवारेसि. अथायस्मा उपवानो निवासेत्वा पत्तचीवरं गहेत्वा तस्स ब्राह्मणस्स निवेसनं उपगञ्छि. ब्राह्मणो ‘‘केनचि मञ्ञे पयोजनेन थेरो आगतो भविस्सती’’ति ञत्वा ‘‘वदेय्याथ, भन्ते, केनत्थो’’ति आह. थेरो तस्स ब्राह्मणस्स पयोजनं आचिक्खन्तो –

‘‘अरहं सुगतो लोके, वातेहाबाधिको मुनि;

सचे उण्होदकं अत्थि, मुनिनो देहि ब्राह्मण.

‘‘पूजितो पूजनेय्यानं, सक्करेय्यान सक्कतो;

अपचितोपचेय्यानं, तस्स इच्छामि हातवे’’ति. (थेरगा. १८५-१८६) –

गाथाद्वयं अभासि.

तस्सत्थो – यो इमस्मिं लोके पूजनेय्यानं पूजेतब्बेहि सक्कादीहि देवेहि महाब्रह्मादीहि च ब्रह्मेहि पूजितो, सक्करेय्यानं सक्कातब्बेहि बिम्बिसारकोसलराजादीहि सक्कतो, अपचेय्यानं अपचायितब्बेहि महेसीहि खीणासवेहि अपचितो, किलेसेहि आरकत्तादिना अरहं, सोभनगमनादिना सुगतो सब्बञ्ञू मुनि मय्हं सत्था देवदेवो सक्कानं अतिसक्को ब्रह्मानं अतिब्रह्मा, सो दानि वातेहि वातहेतु वातक्खोभनिमित्तं आबाधिको जातो. सचे, ब्राह्मण, उण्होदकं अत्थि, तस्स वाताबाधवूपसमनत्थं तं हातवे उपनेतुं इच्छामीति.

तं सुत्वा ब्राह्मणो उण्होदकं तदनुरूपं वातहरञ्च भेसज्जं भगवतो उपनामेसि. तेन च सत्थु रोगो वूपसमि. तस्स भगवा अनुमोदनं अकासि.

१२२. अथायस्मा उपवानो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो नाम जिनोतिआदिमाह. तत्थ पदुमुत्तरोतिआदीनि पुब्बे वुत्तत्थानेव.

१२३. महाजना समागम्माति सकलजम्बुदीपवासिनो रासिभूताति अत्थो. चितकं कत्वाति योजनुब्बेधं चन्दनरासिचितकं कत्वा भगवतो सरीरं तत्थ अभिरोपयिंसूति सम्बन्धो.

१२४. सरीरकिच्चं कत्वानाति आदहनाति अग्गिना दहनकिच्चं कत्वाति अत्थो.

१२७-२८. जङ्घा मणिमया आसीति मनुस्सेहि कतथूपे जङ्घा पुप्फवाहत्थं चरितट्ठानं मणिमया इन्दनीलमणिना कताति अत्थो. मयम्पीति सब्बे देवा थूपं करिस्सामाति अत्थो.

१२९. धातु आवेणिका नत्थीति देवमनुस्सेहि विसुं विसुं चेतियं कातुं आवेणिका विसुं धातु नत्थि, तं दस्सेन्तो सरीरं एकपिण्डितन्ति आह. अधिट्ठानबलेन सकलसरीरधातु एकघनसिलामयपटिमा विय एकमेव अहोसीति अत्थो. इमम्हि बुद्धथूपम्हीति सकलजम्बुदीपवासीहि कतम्हि इमम्हि सुवण्णथूपम्हि मयं सब्बे समागन्त्वा कञ्चुकथूपं करिस्सामाति अत्थो.

१३३. इन्दनीलं महानीलन्ति इन्दीवरपुप्फवण्णाभं मणि इन्दनीलमणि. ततो अधिकवण्णता महामणि इन्दनीलमणयो च महानीलमणयो च जोतिरसमणिजातिरङ्गमणयो च एकतो सन्निपातेत्वा रासी कत्वा सुवण्णथूपे कञ्चुकथूपं कत्वा अछादयुन्ति सम्बन्धो.

१४४. पच्चेकं बुद्धसेट्ठस्साति बुद्धुत्तमस्स पति एकं विसुं उपरिछदनेन थूपं अकंसूति अत्थो.

१४७. कुम्भण्डा गुय्हका तथाति कुम्भमत्तानि अण्डानि येसं देवानं ते कुम्भण्डा, पटिच्छादेत्वा निगुहित्वा पटिच्छादनतो गरुळा गुय्हका नाम जाता, ते कुम्भण्डा गुय्हकापि थूपं अकंसूति अत्थो.

१५१. अतिभोन्ति न तस्साभाति तस्स चेतियस्स पभं चन्दसूरियतारकानं पभा न अतिभोन्ति, न अज्झोत्थरन्तीति अत्थो.

१५८. अहम्पि कारं कस्सामीति तादिनो लोकनाथस्स थूपस्मिं अहम्पि कारं पुञ्ञकिरियं कुसलकम्मं धजपटाकपूजं करिस्सामीति अत्थो.

उपवानत्थेरअपदानवण्णना समत्ता.