९. धम्मचक्किकत्थेरअपदानवण्णना
सिद्धत्थस्स भगवतोतिआदिकं आयस्मतो धम्मचक्किकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो वुद्धिप्पत्तो पुत्तदारेहि वड्ढितो विभवसम्पन्नो महाभोगो, सो रतनत्तये पसन्नो सद्धाजातो धम्मसभायं धम्मासनस्स पिट्ठितो रतनमयं धम्मचक्कं कारेत्वा पूजेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु निब्बत्तट्ठानेसु सक्कसम्पत्तिं चक्कवत्तिसम्पत्तिञ्च अनुभवित्वा कमेन इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे उप्पन्नो विभवसम्पन्नो सञ्जातसद्धो पब्बजित्वा विपस्सनं वड्ढेत्वा नचिरस्सेव अरहत्तं पत्वा पुब्बे कतकुसलनामसदिसनामेन धम्मचक्किकत्थेरोति पाकटो जातो अहोसि.
१०२. सो पुञ्ञसम्भारानुरूपेन पत्तअरहत्तफलो अत्तनो पुब्बकम्मं सरित्वा जातसोमनस्सो पुब्बचरितापदानं पकासेन्तो सिद्धत्थस्स भगवतोतिआदिमाह. सीहासनस्स सम्मुखाति सीहस्स भगवतो निसिन्नस्स सम्मुखा बुद्धासनस्स अभिमुखट्ठानेति अत्थो, धम्मचक्कं मे ठपितन्ति मया धम्मचक्काकारेन उभतो सीहरूपं दस्सेत्वा मज्झे आदाससदिसं कारेत्वा कतं धम्मचक्कं ठपितं पूजितं. किं भूतं? विञ्ञूहि मेधावीहि ‘‘अतीव सुन्दर’’न्ति वण्णितं थोमितं सुकतं धम्मचक्कन्ति सम्बन्धो.
१०३. चारुवण्णोव सोभामीति सुवण्णवण्णो इव सोभामि विरोचामीति अत्थो. ‘‘चतुवण्णेहि सोभामी’’तिपि पाठो, तस्स खत्तियब्राह्मणवेस्ससुद्दजातिसङ्खातेहि चतूहि वण्णेहि सोभामि विरोचामीति अत्थो. सयोग्गबलवाहनोति सुवण्णसिविकादीहि योग्गेहि च सेनापतिमहामत्तादीहि सेवकेहि बलेहि च हत्थिअस्सरथसङ्खातेहि वाहनेहि च सहितोति अत्थो. बहुज्जना बहवो मनुस्सा अनुयन्ता ममानुवत्तन्ता निच्चं निच्चकालं परिवारेन्तीति सम्बन्धो. सेसं सुविञ्ञेय्यमेवाति.
धम्मचक्किकत्थेरअपदानवण्णना समत्ता.