१०. कप्परुक्खियत्थेरअपदानवण्णना
सिद्धत्थस्स भगवतोतिआदिकं आयस्मतो कप्परुक्खियत्थेरस्स अपदानं (थेरगा. अट्ठ. २.५७६). अयम्पि पुरिमबुद्धेसु कताधिकारो तेसु तेसु भवेसु निब्बानाधिगमूपायभूतानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले विभवसम्पन्ने एकस्मिं कुले निब्बत्तो महद्धनो महाभोगो सत्थरि पसन्नो सत्तहि रतनेहि विचित्तं सुवण्णमयं कप्परुक्खं कारेत्वा सिद्धत्थस्स भगवतो चेतियस्स सम्मुखे ठपेत्वा पूजेसि. सो एवरूपं पुञ्ञं कत्वा यावतायुकं ठत्वा ततो चुतो सुगतीसुयेव संसरन्तो कमेन इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो घरावासं सण्ठपेत्वा रतनत्तये पसन्नो धम्मं सुत्वा पटिलद्धसद्धो सत्थु आराधेत्वा पब्बजितो नचिरस्सेव अरहत्तं पत्वा पुब्बे कतकुसलनामेन कप्परुक्खियत्थेरोति पाकटो अहोसि.
१०८. सो एवं पत्तअरहत्तफलो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सवसेन पुब्बचरितापदानं पकासेन्तो सिद्धत्थस्स भगवतोतिआदिमाह. थूपसेट्ठस्स सम्मुखाति सेट्ठस्स उत्तमस्स धातुनिहितथूपस्स चेतियस्स सम्मुखट्ठाने विचित्तदुस्से अनेकवण्णेहि विसमेन विसदिसेन चित्तेन मनोहरे चिनपट्टसोमारपट्टादिके दुस्से. लगेत्वा ओलग्गेत्वा कप्परुक्खं ठपेसिं अहं पतिट्ठपेसिन्ति अत्थो. सेसं उत्तानत्थमेवाति.
कप्परुक्खियत्थेरअपदानवण्णना समत्ता.
चतुत्थवग्गवण्णना समत्ता.